Library·Jayaditya & Vamana: Kasikavrtti·8·8.2

Jayaditya & Vamana: Kasikavrtti 8.2

पूर्वत्र असिद्धम्

pūrvatra asiddham

Sanskrit only: no published translation is held for this verse.

ये ऽत्र षष्थीनिर्देशाः, सप्तमीनिर्देशाः, पञ्चमीनिर्देशाश् च, तेषां षष्ठी स्थानेयोगा (*१,१।४९), तस्मिन्निति निर्दिष्टे पूर्वस्य (*१,१।६०), तस्माद् इत्य् उत्तरस्य इति च कर्तव्ये न असिद्धत्व भवति, कार्यकालं हि सञ्ज्ञापरिभाषम् इति पूर्वत्वमासां परिभाषाणां न अस्ति इति । विप्रतिषेधे परम् इत्य् एषा च परिभाषा येन पूर्वेण लक्षणेन सह स्पर्धते, परं लक्षणं तत्प्रति तस्य असिद्धत्वान् न प्रवर्तते । तथा च विस्फोर्यम्, अगोर्यम् इति गुणः परेण हलि च (*८,२।७७) इति दीर्घत्वेन न बाध्यते । अपवादस्य तु परस्य अपि उत्सर्गे कर्तव्ये वचनप्रामण्याद् असिद्धत्वं न भवति । तेन दोग्धा, दोग्धुम् इत्य् अत्र घत्वस्य असिद्धत्वाद् हो ढः (*८,२।३१) इति न भवति ॥ नलोपः सुप्-स्वर-सञ्ज्ञा-तुग्-विधिषु कृति

ye 'tra ṣaṣthīnirdeśāḥ, saptamīnirdeśāḥ, pañcamīnirdeśāś ca, teṣāṃ ṣaṣṭhī sthāneyogā (*1,1.49), tasminniti nirdiṣṭe pūrvasya (*1,1.60), tasmād ity uttarasya iti ca kartavye na asiddhatva bhavati, kāryakālaṃ hi sañjñāparibhāṣam iti pūrvatvamāsāṃ paribhāṣāṇāṃ na asti iti / vipratiṣedhe param ity eṣā ca paribhāṣā yena pūrveṇa lakṣaṇena saha spardhate, paraṃ lakṣaṇaṃ tatprati tasya asiddhatvān na pravartate / tathā ca visphoryam, agoryam iti guṇaḥ pareṇa hali ca (*8,2.77) iti dīrghatvena na bādhyate / apavādasya tu parasya api utsarge kartavye vacanaprāmaṇyād asiddhatvaṃ na bhavati / tena dogdhā, dogdhum ity atra ghatvasya asiddhatvād ho ḍhaḥ (*8,2.31) iti na bhavati // nalopaḥ sup-svara-sañjñā-tug-vidhiṣu kṛti

Sanskrit only: no published translation is held for this verse.

कृति इति किम् ? वृत्रहच्छत्रम्, वृत्रहच्छाया, छे च (*६,१।७३) इति तुग् भवति । अत्र सिद्धे सत्यारम्भो नियमार्थः, एतेष्व् एव नलोपो असिद्धो भवति, न अन्यत्र । तेन राजीयति, राजायते, राजाश्वः इति ईत्वम्, दीर्घत्वम्, एकदेशश् च सिद्धो भवति ॥ न मु ने

kṛti iti kim ? vṛtrahacchatram, vṛtrahacchāyā, che ca (*6,1.73) iti tug bhavati / atra siddhe satyārambho niyamārthaḥ, eteṣv eva nalopo asiddho bhavati, na anyatra / tena rājīyati, rājāyate, rājāśvaḥ iti ītvam, dīrghatvam, ekadeśaś ca siddho bhavati // na mu ne

Sanskrit only: no published translation is held for this verse.

शकारादौ पुनर् एतस्मिन् संयोगान्तलोपेन यकारचकारयोः लुप्तयोः शकारस्य षत्वे सति मधुड् इति स्यात् । अभ्यासजश्त्वचर्त्वे एत्वतुकोः सिद्धे वक्तव्ये । बभणतुः । बभणुः । अभ्यासजश्त्वस्यासिद्धत्वात् अनादेशादेः इति एत्वं प्राप्नोति । छिदेः विचिच्छित्सति, उच्छेः उचिच्छिषति इति अभ्यासादेशस्य असिद्धत्वात् छे च (*६,१।७३) इति तुक् न प्राप्नोति । द्विर्वचने परसवर्नवं सिद्धं वक्तव्यम् । सय्ं य्ं यन्ता, सव्ं व्ं, वत्सरः, यल्ं ल्ं, लोकम्, तल्ं ल्ं लोकम् इति परसवर्णस्यासिद्धत्वाद् यरः इति द्विर्वचनं न स्यात् । पदाधिकारश्चेल् लत्वघत्वढत्वनत्वरुत्वषत्वणत्वानुनासिकछत्वानि सिद्धानि वक्तव्यानि । लत्वम् - गलो हलः, गरो गरः । घत्वम् - द्रोग्धा द्रोग्धा । ढत्वम् - द्रोढा द्रोढा । नत्वम् - नुन्नो नुन्नः, नुत्तो नुत्तः । रुत्वम् - अभिनो ऽभिनः, अभिनदभिनत् । षत्वम् - मातुःष्वसा मातुःष्वसा, मातुःस्वसा मतुःस्वसा । पितुःष्वसा पितुःष्वसा, पितुःस्वसा पितुःस्वसा । णत्वम् - माषवापाणि माषवापाणि, माषवापानि माशवापानि । अनुनासिकम् - वाङ्नयनं बाङ्नयनम्, वाग्नयनं वाग्नयनम् । छत्वम् - वक्च्छयनं वाक्च्छयनम्, वाक्शयनं वाक्शयनम् । लत्वादीनां विकल्पितानाम् असिद्धत्वात् कृते द्विर्वचने सत्युपरिष्टद् विकल्पे सिति गरो गलः, गलो गरः इत्य् एवं रूपम् अपि द्विरुक्तं स्यात् । तद् एतत् सर्वं न मु ने इति योगविभागेन साध्यते । न इत्य् एतावदनिष्टे विषये पूर्वत्र असिद्धस्य प्रतिषेधार्थम् । ततो मु ने इति । नेत्य् एतद् अनुवर्तते ॥ उदात्त-स्वरितयोर् यणः स्वरितो ऽनुदात्तस्य

śakārādau punar etasmin saṃyogāntalopena yakāracakārayoḥ luptayoḥ śakārasya ṣatve sati madhuḍ iti syāt / abhyāsajaśtvacartve etvatukoḥ siddhe vaktavye / babhaṇatuḥ / babhaṇuḥ / abhyāsajaśtvasyāsiddhatvāt anādeśādeḥ iti etvaṃ prāpnoti / chideḥ vicicchitsati, uccheḥ ucicchiṣati iti abhyāsādeśasya asiddhatvāt che ca (*6,1.73) iti tuk na prāpnoti / dvirvacane parasavarnavaṃ siddhaṃ vaktavyam / sayṃ yṃ yantā, savṃ vṃ, vatsaraḥ, yalṃ lṃ, lokam, talṃ lṃ lokam iti parasavarṇasyāsiddhatvād yaraḥ iti dvirvacanaṃ na syāt / padādhikāraścel latvaghatvaḍhatvanatvarutvaṣatvaṇatvānunāsikachatvāni siddhāni vaktavyāni / latvam - galo halaḥ, garo garaḥ / ghatvam - drogdhā drogdhā / ḍhatvam - droḍhā droḍhā / natvam - nunno nunnaḥ, nutto nuttaḥ / rutvam - abhino 'bhinaḥ, abhinadabhinat / ṣatvam - mātuḥṣvasā mātuḥṣvasā, mātuḥsvasā matuḥsvasā / pituḥṣvasā pituḥṣvasā, pituḥsvasā pituḥsvasā / ṇatvam - māṣavāpāṇi māṣavāpāṇi, māṣavāpāni māśavāpāni / anunāsikam - vāṅnayanaṃ bāṅnayanam, vāgnayanaṃ vāgnayanam / chatvam - vakcchayanaṃ vākcchayanam, vākśayanaṃ vākśayanam / latvādīnāṃ vikalpitānām asiddhatvāt kṛte dvirvacane satyupariṣṭad vikalpe siti garo galaḥ, galo garaḥ ity evaṃ rūpam api dviruktaṃ syāt / tad etat sarvaṃ na mu ne iti yogavibhāgena sādhyate / na ity etāvadaniṣṭe viṣaye pūrvatra asiddhasya pratiṣedhārtham / tato mu ne iti / nety etad anuvartate // udātta-svaritayor yaṇaḥ svarito 'nudāttasya

Sanskrit only: no published translation is held for this verse.

यदि एवम्, उदात्ताद् अनुदात्तस्य स्वरितः (*८,४।६६) इत्य् एतस्य अपि आश्रयात् सिद्धत्वं प्राप्नोति, ततश् च दध्यशा इत्य् अत्र अपि स्वरितः स्यात् ? तस्माद् अयम् एव यण्स्वरो यणादेशे सिद्धो वक्तव्यः । केचित् तु ब्रुवते, उदात्तात् स्वरितयणो ऽपि परस्य अनुदात्तस्य स्वरितत्वं दृश्यते । तथा च तैत्तिरीयके शाखान्तरे पठ्यते - यास्ते विश्वाः समिधः सन्त्यग्ने इति । अग्ने इत्य् अयम् अकारः स्वरितः पठ्यते । तथा ब्राह्मणे ऽपि दध्याशयति इत्य् आकारः स्वरितः पठ्यते इति । यथा तु वार्तिकं भाश्यं च, तथा उदात्तात् स्वरितयणः परस्य अनुदात्तस्य अनेन स्वरितत्वं न भवति इति स्थितम् । तथा च भाष्ये स्वरितयण्ग्रहणम् इदं प्रत्याख्यायते । सकृल्ल्व्याशा इत्य् एवम् आदौ उदात्तयणः इत्य् एव स्वरितस्य सिद्धत्वात् । स्वरितयण्व्यवधानम् अव्यवधानम् एव, स्वरिविधौ व्यञ्जनम् अविद्यमानवत् इति । तत् तु क्रियते, पूर्वस्माद् अपि विधौ स्थानिवद्भावात् व्यवधानम् अस्ति, स्वरदीर्घयलोपेषु च लोपाजादेशस्य स्थानिवद्भावः प्रतिषिध्यते इति । उदात्तस्वरितयोः इति किम् ? वैदी आशा वैद्याशा । शार्ङ्गरव्याशा । अनुदात्तयणादेशो ऽयम् । अनुदात्तस्य इति किम् ? कुमार्यत्र । किशोर्यत्र । अत्र इत्य् अयम् आद्युदात्तो लित्स्वरेण ॥ एकादेश उदातेन+उदात्तः

yadi evam, udāttād anudāttasya svaritaḥ (*8,4.66) ity etasya api āśrayāt siddhatvaṃ prāpnoti, tataś ca dadhyaśā ity atra api svaritaḥ syāt ? tasmād ayam eva yaṇsvaro yaṇādeśe siddho vaktavyaḥ / kecit tu bruvate, udāttāt svaritayaṇo 'pi parasya anudāttasya svaritatvaṃ dṛśyate / tathā ca taittirīyake śākhāntare paṭhyate - yāste viśvāḥ samidhaḥ santyagne iti / agne ity ayam akāraḥ svaritaḥ paṭhyate / tathā brāhmaṇe 'pi dadhyāśayati ity ākāraḥ svaritaḥ paṭhyate iti / yathā tu vārtikaṃ bhāśyaṃ ca, tathā udāttāt svaritayaṇaḥ parasya anudāttasya anena svaritatvaṃ na bhavati iti sthitam / tathā ca bhāṣye svaritayaṇgrahaṇam idaṃ pratyākhyāyate / sakṛllvyāśā ity evam ādau udāttayaṇaḥ ity eva svaritasya siddhatvāt / svaritayaṇvyavadhānam avyavadhānam eva, svarividhau vyañjanam avidyamānavat iti / tat tu kriyate, pūrvasmād api vidhau sthānivadbhāvāt vyavadhānam asti, svaradīrghayalopeṣu ca lopājādeśasya sthānivadbhāvaḥ pratiṣidhyate iti / udāttasvaritayoḥ iti kim ? vaidī āśā vaidyāśā / śārṅgaravyāśā / anudāttayaṇādeśo 'yam / anudāttasya iti kim ? kumāryatra / kiśoryatra / atra ity ayam ādyudātto litsvareṇa // ekādeśa udātena+udāttaḥ

Sanskrit only: no published translation is held for this verse.

उदातेन सह अनुदात्तस्य य एकादेशः स उदात्तो भवति । अनुदात्तस्य इति वर्तते । अग्नी । वायू । वृक्षैः । प्लक्षै । उदात्तेन इति किम् ? पचन्ति । यजन्ति । लसार्वधातुकानुदात्तत्वे कृते द्वयोर् अनुदात्तयोः अयम् एकादेशः, पररूपे कर्तव्ये स्वरितस्य असिद्धत्वात् ॥ स्वरितो वा ऽनुदात्ते पदादौ

udātena saha anudāttasya ya ekādeśaḥ sa udātto bhavati / anudāttasya iti vartate / agnī / vāyū / vṛkṣaiḥ / plakṣai / udāttena iti kim ? pacanti / yajanti / lasārvadhātukānudāttatve kṛte dvayor anudāttayoḥ ayam ekādeśaḥ, pararūpe kartavye svaritasya asiddhatvāt // svarito vā 'nudātte padādau

Sanskrit only: no published translation is held for this verse.

स्वरितग्रहणम् विस्पष्टार्थम् । उदात्ते हि विकल्पिते तस्मिन्नसत्यान्तर्यत एव स्वरितो भविष्यति इति । अनुदात्ते इति किम् ? देवदत्तो ऽत्र । पदादौ इति किम् ? वृक्षौ । वृक्षाः ॥ नलोपः प्रातिपदिकान्तस्य

svaritagrahaṇam vispaṣṭārtham / udātte hi vikalpite tasminnasatyāntaryata eva svarito bhaviṣyati iti / anudātte iti kim ? devadatto 'tra / padādau iti kim ? vṛkṣau / vṛkṣāḥ // nalopaḥ prātipadikāntasya

Sanskrit only: no published translation is held for this verse.

पदस्य इति वर्तते । प्रातिपदिकस्य पदस्य यो ऽन्त्यो नकारः तस्य लोपो भवति । राजा । राजभ्याम् । राजभिः । राजता । राजतरः । राजतमः । प्रातिपदिकग्रहणं किम् ? अहन्नहिम् । अन्तग्रहणं किम् ? राजानौ । राजानः । प्रातिपदिकग्रहणम् असमस्तम् एव सुपां सुलुक् इति षष्ठ्या लुका निर्दिष्टम् । अह्नो नलोपप्रतिषेधो वक्तव्यः । अहः । अहोभ्याम् । अहोभिः । रो ऽसुपि (*८,२।६९), अहन् (*७,२।६८) इति रेफरुत्वयोर् असिद्धत्वात् नलोपः प्राप्नोति, सावकाशं तदुभयं सम्बुद्धौ, हे ऽहः, हे दीर्घातो निदाघेति ? तत्र समाधिमाहुः । अहन् इति रुविधौ यद् उपादीयते प्रथमैकवचनान्तम् अकृतनलोपं तद् आवर्त्यते, तत्र एकया आवृत्त्या तद् एवं रूपं नलोपाभावार्थम् अन्वाख्यायते, द्वितीययापि तस्य रुः विधीयते ॥ न ङि-सम्बुद्ध्योः

padasya iti vartate / prātipadikasya padasya yo 'ntyo nakāraḥ tasya lopo bhavati / rājā / rājabhyām / rājabhiḥ / rājatā / rājataraḥ / rājatamaḥ / prātipadikagrahaṇaṃ kim ? ahannahim / antagrahaṇaṃ kim ? rājānau / rājānaḥ / prātipadikagrahaṇam asamastam eva supāṃ suluk iti ṣaṣṭhyā lukā nirdiṣṭam / ahno nalopapratiṣedho vaktavyaḥ / ahaḥ / ahobhyām / ahobhiḥ / ro 'supi (*8,2.69), ahan (*7,2.68) iti repharutvayor asiddhatvāt nalopaḥ prāpnoti, sāvakāśaṃ tadubhayaṃ sambuddhau, he 'haḥ, he dīrghāto nidāgheti ? tatra samādhimāhuḥ / ahan iti ruvidhau yad upādīyate prathamaikavacanāntam akṛtanalopaṃ tad āvartyate, tatra ekayā āvṛttyā tad evaṃ rūpaṃ nalopābhāvārtham anvākhyāyate, dvitīyayāpi tasya ruḥ vidhīyate // na ṅi-sambuddhyoḥ

Sanskrit only: no published translation is held for this verse.

म्-आद्-उपधायाश् च मतोर् वो ऽयव-आदिभ्यः

m-ād-upadhāyāś ca mator vo 'yava-ādibhyaḥ

Sanskrit only: no published translation is held for this verse.

मतोः इह कार्यित्वेन उपादानात् सामर्थ्यलब्धं प्रातिपदिकं तत् मात् इति मकारावर्णाभ्यां विशिष्यते । मकारावर्णविशिष्टया च उपधया इत्य् अयम् अर्थो भवति । मकारान्तात् मकारोपधात् अवर्णान्ताद् अवर्णोपधात् च उत्तरस्य मतोः वः इत्य् अयम् आदेशो भवति, यवादिभ्यस् तु परतो न भवति । मकारान्तात् तावत् किंवान् । शंवान् । मकारोपधात् - शमीवान् । दाडिमीवान् । अवर्णान्तात् - वृक्षवान् । प्लक्षवान् । खट्वावान् । मालावान् । अवर्णोपधात् - पयस्वान् । यशस्वान् । भास्वान् । मादुपधायाश् च इति किम् ? अग्निमात् । वायुमान् । अयवादिभ्यः इति किम् ? यवमान् । दल्मिमान् । ऊर्मिमान् । यव । दल्मि । ऊर्मि । भूमि । कृमि । क्रुञ्चा । वशा । द्राक्षा । एतेषां मादुपधायाश् च । इति प्राप्नोति । ध्रजि, ध्वजि, सञ्जि इत्य् एतेषां छन्दसीरः (*८,२।१५) इति । हरित्, ककुत्, गरुत् इत्य् एतेषां झयः (*८,२।१०) इति । इक्षु, मधु, द्रुम, मण्ड, धूम इत्य् एतेषां सञ्ज्ञायाम् (*८,२।११) इति । आकृतिगणश् च यवादिः । अकृतवत्त्वो मतुब् यवादिषु द्रष्टव्यः । यस्य सति निमित्ते मतुपो वत्त्वं न दृश्यते स यवादिषु द्रष्टव्यः इह नृमतः इदं नार्मतम् इति बहिरङ्गलक्षणत्वात् अवर्णोपधस्य मतुपो वत्त्वं न भवति ॥ झयः

matoḥ iha kāryitvena upādānāt sāmarthyalabdhaṃ prātipadikaṃ tat māt iti makārāvarṇābhyāṃ viśiṣyate / makārāvarṇaviśiṣṭayā ca upadhayā ity ayam artho bhavati / makārāntāt makāropadhāt avarṇāntād avarṇopadhāt ca uttarasya matoḥ vaḥ ity ayam ādeśo bhavati, yavādibhyas tu parato na bhavati / makārāntāt tāvat kiṃvān / śaṃvān / makāropadhāt - śamīvān / dāḍimīvān / avarṇāntāt - vṛkṣavān / plakṣavān / khaṭvāvān / mālāvān / avarṇopadhāt - payasvān / yaśasvān / bhāsvān / mādupadhāyāś ca iti kim ? agnimāt / vāyumān / ayavādibhyaḥ iti kim ? yavamān / dalmimān / ūrmimān / yava / dalmi / ūrmi / bhūmi / kṛmi / kruñcā / vaśā / drākṣā / eteṣāṃ mādupadhāyāś ca / iti prāpnoti / dhraji, dhvaji, sañji ity eteṣāṃ chandasīraḥ (*8,2.15) iti / harit, kakut, garut ity eteṣāṃ jhayaḥ (*8,2.10) iti / ikṣu, madhu, druma, maṇḍa, dhūma ity eteṣāṃ sañjñāyām (*8,2.11) iti / ākṛtigaṇaś ca yavādiḥ / akṛtavattvo matub yavādiṣu draṣṭavyaḥ / yasya sati nimitte matupo vattvaṃ na dṛśyate sa yavādiṣu draṣṭavyaḥ iha nṛmataḥ idaṃ nārmatam iti bahiraṅgalakṣaṇatvāt avarṇopadhasya matupo vattvaṃ na bhavati // jhayaḥ

Sanskrit only: no published translation is held for this verse.

झयन्ताद् उत्तरस्य मतोः वः इत्य् अयम् आदेशो भवति । अग्निचित्वान् ग्रामः । विद्युत्वान् बलाहकः । इन्द्रो मरुत्वान् । दृषद्वान् देशः ॥ सञ्ज्ञायाम्

jhayantād uttarasya matoḥ vaḥ ity ayam ādeśo bhavati / agnicitvān grāmaḥ / vidyutvān balāhakaḥ / indro marutvān / dṛṣadvān deśaḥ // sañjñāyām

Sanskrit only: no published translation is held for this verse.

आसन्दीवद्-अष्ठीवच्-चक्रीवत्-कक्षीवद्-रुमण्वच्-चर्मण्वती

āsandīvad-aṣṭhīvac-cakrīvat-kakṣīvad-rumaṇvac-carmaṇvatī

Sanskrit only: no published translation is held for this verse.

आसन्दीवत् अष्ठीवत् चक्रीवत् कक्षीवत् चर्मण्वती इत्य् एतानि सञ्ज्ञायां निपात्यन्ते । वत्त्वं पूर्वेण+एव सिद्धम्, आदेशाथानि निपातनानि । आसन्दीवत् इति आसनशब्दस्य आसन्दीभावो निपात्यते । आसन्दीवान् ग्रामः । आसन्दीवदहिस्थलम् । आसनवान् इत्य् एव अन्यत्र । अपरे तु आहुः, आसन्दीशब्दो ऽपि प्रकृत्यन्तरम् एव अस्ति, तथा चोक्तम्, औदुम्बरी राजासन्दी भवति इति । तस्य सञ्ज्ञायाम् (*८,२।११) इति वत्त्वेन सिद्धम् । आसन्दीवत् इत्य् एत प्रपञ्चार्थम् इह पठ्यते । अष्ठीवत् इति अस्थ्नो ऽष्ठीभावः । अष्ठीवान् इति शरीरैकदेशसञ्ज्ञा । अस्थिमान् इत्य् एव अन्यत्र । चक्रीवत् इति चक्रशब्दस्य चक्रीभावो निपात्यते । चक्रीवान् राजा । चक्रवान् इत्य् एव अन्यत्र । चक्रीवन्ति सदो हविर्धानानि भवन्ति इत्य् एतत् तु छान्दसत्वाद् अनुगन्तव्यम् । कक्षीवत् इति कक्ष्यायाः सम्प्रसारणं निपात्यते । कक्षीवान् नाम ऋषिः । कक्ष्यावान् इत्य् एव अन्यत्र । रुमण्वत् इति लवणशब्दस्य रुमण्भावो निपात्यते । लवणवान् इत्य् एव अन्यत्र । अपरे तु आहुः, रुमन् इति प्रकृत्यन्तरम् अस्ति, तस्य एतन् निपातनं नकारलोपाभावार्थम्, णत्वार्थं च । मतोर् वा नुडर्थम् इति । चर्मण्वती इति चर्मणो नलोपाभावो णत्वं च निपात्यते । मतोर् वा नुडागमः । चर्मण्वती नाम नदी । चर्मवती इत्य् एव अन्यत्र ॥ उदन्वन् उदधौ च

āsandīvat aṣṭhīvat cakrīvat kakṣīvat carmaṇvatī ity etāni sañjñāyāṃ nipātyante / vattvaṃ pūrveṇa+eva siddham, ādeśāthāni nipātanāni / āsandīvat iti āsanaśabdasya āsandībhāvo nipātyate / āsandīvān grāmaḥ / āsandīvadahisthalam / āsanavān ity eva anyatra / apare tu āhuḥ, āsandīśabdo 'pi prakṛtyantaram eva asti, tathā coktam, audumbarī rājāsandī bhavati iti / tasya sañjñāyām (*8,2.11) iti vattvena siddham / āsandīvat ity eta prapañcārtham iha paṭhyate / aṣṭhīvat iti asthno 'ṣṭhībhāvaḥ / aṣṭhīvān iti śarīraikadeśasañjñā / asthimān ity eva anyatra / cakrīvat iti cakraśabdasya cakrībhāvo nipātyate / cakrīvān rājā / cakravān ity eva anyatra / cakrīvanti sado havirdhānāni bhavanti ity etat tu chāndasatvād anugantavyam / kakṣīvat iti kakṣyāyāḥ samprasāraṇaṃ nipātyate / kakṣīvān nāma ṛṣiḥ / kakṣyāvān ity eva anyatra / rumaṇvat iti lavaṇaśabdasya rumaṇbhāvo nipātyate / lavaṇavān ity eva anyatra / apare tu āhuḥ, ruman iti prakṛtyantaram asti, tasya etan nipātanaṃ nakāralopābhāvārtham, ṇatvārthaṃ ca / mator vā nuḍartham iti / carmaṇvatī iti carmaṇo nalopābhāvo ṇatvaṃ ca nipātyate / mator vā nuḍāgamaḥ / carmaṇvatī nāma nadī / carmavatī ity eva anyatra // udanvan udadhau ca

Sanskrit only: no published translation is held for this verse.

उदन्वान् इति उदकशब्दस्य मतावुदन्भावो निपात्यते उदधावर्थे, सञ्ज्ञायां विषये च । उदन्वान् नाम ऋषिः यस्य औदन्वतः पुत्रः । उदधौ उदन्वान् । यस्मिन्नुदकं धीयते स एवम् उच्यते । उदधाउ इति किम् ? उदकवान् घटः इत्य् अत्र तु दधात्यर्थो न विवक्ष्यते । किं तर्हि ? उदकसत्तासम्बन्धसामान्यम् ॥ राजन्वान् सौराज्ये

udanvān iti udakaśabdasya matāvudanbhāvo nipātyate udadhāvarthe, sañjñāyāṃ viṣaye ca / udanvān nāma ṛṣiḥ yasya audanvataḥ putraḥ / udadhau udanvān / yasminnudakaṃ dhīyate sa evam ucyate / udadhāu iti kim ? udakavān ghaṭaḥ ity atra tu dadhātyartho na vivakṣyate / kiṃ tarhi ? udakasattāsambandhasāmānyam // rājanvān saurājye

Sanskrit only: no published translation is held for this verse.

राजन्वान् इति निपात्यते सौराज्ये गम्यमाने । शोभनो राजा यस्मिन्निति स राजन्वान् देशः । राजन्वती पृठ्वी । राजवान् इत्य् एव अन्यत्र ॥ छन्दसि इरः

rājanvān iti nipātyate saurājye gamyamāne / śobhano rājā yasminniti sa rājanvān deśaḥ / rājanvatī pṛṭhvī / rājavān ity eva anyatra // chandasi iraḥ

Sanskrit only: no published translation is held for this verse.

रयेर्मतौ इति सम्प्रसारणम् । सरस्वतीवान् भारतीवान् । दधीवांश्चरुः । छन्दसि सर्वे विधयो विकल्प्यन्ते इति इह न भवति, सप्तर्षिमन्तम्, ऋषिमान्, ऋतीमान्, सूर्यं ते द्यावापृथिवीमन्तम् इति । रेफान्तात् गीर्वान् । धूर्वान् । आशीर्वान् ॥ अनो नुट्

rayermatau iti samprasāraṇam / sarasvatīvān bhāratīvān / dadhīvāṃścaruḥ / chandasi sarve vidhayo vikalpyante iti iha na bhavati, saptarṣimantam, ṛṣimān, ṛtīmān, sūryaṃ te dyāvāpṛthivīmantam iti / rephāntāt gīrvān / dhūrvān / āśīrvān // ano nuṭ

Sanskrit only: no published translation is held for this verse.

छन्दसि इति वर्तते । अनन्ताद् उत्तरस्य मतोः नुडागमो भवति छन्दसि विषये । अक्षण्वन्तः कर्णवन्तः सखायः । अस्थन्वन्तं यदनस्था बिभर्ति । अक्षण्वता लाङ्गलेन । शीर्षण्वती । मूर्धन्वती । नुटः असिद्धत्वात् तस्य च वत्वं न भवति, ततः परस्य च भवति ॥ नाद् घस्य

chandasi iti vartate / anantād uttarasya matoḥ nuḍāgamo bhavati chandasi viṣaye / akṣaṇvantaḥ karṇavantaḥ sakhāyaḥ / asthanvantaṃ yadanasthā bibharti / akṣaṇvatā lāṅgalena / śīrṣaṇvatī / mūrdhanvatī / nuṭaḥ asiddhatvāt tasya ca vatvaṃ na bhavati, tataḥ parasya ca bhavati // nād ghasya

Sanskrit only: no published translation is held for this verse.

नकारान्तात् उत्तरस्य घसञ्ज्ञाकस्य नुडागमो भवति छन्दसि विषये । सुपथिन्तरः । दस्युहन्तमः । भूरिदाव्नस्तुड् वक्तव्यः । भूरिदावत्तरः । ईद् रथिनः । रथिनः ईकारान्तादेशो धे परतः । रथीतरः । रथशब्दाद् एव वा मत्वर्थीयो ऽयम् ईकारः छन्दसीवनिपौ इति ॥ कृपो रो लः

nakārāntāt uttarasya ghasañjñākasya nuḍāgamo bhavati chandasi viṣaye / supathintaraḥ / dasyuhantamaḥ / bhūridāvnastuḍ vaktavyaḥ / bhūridāvattaraḥ / īd rathinaḥ / rathinaḥ īkārāntādeśo dhe parataḥ / rathītaraḥ / rathaśabdād eva vā matvarthīyo 'yam īkāraḥ chandasīvanipau iti // kṛpo ro laḥ

Sanskrit only: no published translation is held for this verse.

वालमूललघ्वसुरालम् अङ्गुलीनां वा रो लमापद्यत इति वक्तव्यम् । वालः, वारः । मूलम्, मूरम् । लघु, रघु । असुरः, असुलः । अलम्, अरम् । अङ्गुलिः, अङ्गुरिः । कपिलकादीनां सञ्ज्ञाछन्दसोर् वा रो लमापद्यत इति वक्तव्यम् । कपिरकः, कपिलकः । तिल्पिलीकम्, तिर्पिरीकम् । लोमानि, रोमाणि । पांशुरम्, पांशुलम् । कर्म, कल्म । शुक्रः, शुक्लः । रलयोर् एकत्वस्मरणम् इति केचित् । किम् इदम् एकत्वस्मरणमिति ? समानविषयत्वम् एव तयोः स्मर्यते इत्य् अर्थः ॥ उपसर्गय अयतौ

vālamūlalaghvasurālam aṅgulīnāṃ vā ro lamāpadyata iti vaktavyam / vālaḥ, vāraḥ / mūlam, mūram / laghu, raghu / asuraḥ, asulaḥ / alam, aram / aṅguliḥ, aṅguriḥ / kapilakādīnāṃ sañjñāchandasor vā ro lamāpadyata iti vaktavyam / kapirakaḥ, kapilakaḥ / tilpilīkam, tirpirīkam / lomāni, romāṇi / pāṃśuram, pāṃśulam / karma, kalma / śukraḥ, śuklaḥ / ralayor ekatvasmaraṇam iti kecit / kim idam ekatvasmaraṇamiti ? samānaviṣayatvam eva tayoḥ smaryate ity arthaḥ // upasargaya ayatau

Sanskrit only: no published translation is held for this verse.

अयतौ परतः उपसर्गस्य यो रेफः तस्य लकारः आदेशो भवति । प्लायते । पलायते । अत्र च यो ऽयम् एकादेशः, तस्य स्थानिवद्भावाद् अयतेः उपसर्गस्य च विभागे सति, यदि अयतिग्रहणं रेफस्य विशेषणम्, तदा येन न अव्यवधानं तेन व्यवहिते ऽपि वचनप्रामाण्यात् इति एकेन वर्णेन व्यवधाने ऽपि लत्वं भवति । तथा च पल्ययते इत्य् अत्र अपि भवति । उपसर्गविशेषणे तु अयतिग्रहणे सिद्धम् एव+एतत् सर्वम्, प्रतेर् अपि तु व्यवहिते ऽपि प्राप्नोति । तत्र केषांचिद् दर्शनं भवितव्यम् एव प्लत्ययते इति । प्रथमपक्षदर्शनाभिनिष्टास्तु प्रत्ययते इत्य् एव भवति इति मन्यन्ते । अपरे तु प्रतिशब्दोपसृष्टस्य अयतेः प्रयोगम् एव न+इच्छन्ति । निस् दुस् इत्य् एतयोस् तु रुत्वस्य असिद्धत्वाल् लत्वेन न+एव भवितब्यम् । निरयणम् । दुरयणम् ॥ ग्रो यङि

ayatau parataḥ upasargasya yo rephaḥ tasya lakāraḥ ādeśo bhavati / plāyate / palāyate / atra ca yo 'yam ekādeśaḥ, tasya sthānivadbhāvād ayateḥ upasargasya ca vibhāge sati, yadi ayatigrahaṇaṃ rephasya viśeṣaṇam, tadā yena na avyavadhānaṃ tena vyavahite 'pi vacanaprāmāṇyāt iti ekena varṇena vyavadhāne 'pi latvaṃ bhavati / tathā ca palyayate ity atra api bhavati / upasargaviśeṣaṇe tu ayatigrahaṇe siddham eva+etat sarvam, prater api tu vyavahite 'pi prāpnoti / tatra keṣāṃcid darśanaṃ bhavitavyam eva platyayate iti / prathamapakṣadarśanābhiniṣṭāstu pratyayate ity eva bhavati iti manyante / apare tu pratiśabdopasṛṣṭasya ayateḥ prayogam eva na+icchanti / nis dus ity etayos tu rutvasya asiddhatvāl latvena na+eva bhavitabyam / nirayaṇam / durayaṇam // gro yaṅi

Sanskrit only: no published translation is held for this verse.

गॄ इत्य् एतस्य धातोः रेफस्य लकार आदेशो भवति यङि परतः । निजेगिल्यते, निजेगिल्येते, निजेगिल्यन्ते । भावगर्हायां ग्रो यङ् विहितः । केचिद् ग्रः इति गिरतेः गृणातेश् च सामान्येन ग्रहणम् इच्छन्ति । अपरे तु गिरतेरेव, न गृणातेः । गृणातेर् हि यङेव न अस्ति, अनभिधानाद् इति । यङि इति किम् ? निगीर्यते ॥ अचि विभाषा

gṝ ity etasya dhātoḥ rephasya lakāra ādeśo bhavati yaṅi parataḥ / nijegilyate, nijegilyete, nijegilyante / bhāvagarhāyāṃ gro yaṅ vihitaḥ / kecid graḥ iti girateḥ gṛṇāteś ca sāmānyena grahaṇam icchanti / apare tu giratereva, na gṛṇāteḥ / gṛṇāter hi yaṅeva na asti, anabhidhānād iti / yaṅi iti kim ? nigīryate // aci vibhāṣā

Sanskrit only: no published translation is held for this verse.

निगाल्यते इति णिलोपस्य स्थानिवद्भावात् अचि विभाषा इति लत्वविकल्पः । पूर्वत्र असिद्धे न स्थानिवत् इति एतद् अपि सापवादम् एव, तस्य दोषः संयोगादिलोपलत्वणत्वेषु इति । अन्तरङ्गत्वाद् वा कृते लत्वविकल्पे णिलोपो भविष्यति । गिरौ, गिरः इत्य् अत्र धातोः स्वरूपग्रहणे तत्प्रत्यये कार्यविज्ञानम् इति लत्वं न भवति । गिरतिर् वा लत्वविधाव् अधिकृतः, गृणातेर् एतद् रूपम् ॥ परेश् च घ-अङ्कयोः

nigālyate iti ṇilopasya sthānivadbhāvāt aci vibhāṣā iti latvavikalpaḥ / pūrvatra asiddhe na sthānivat iti etad api sāpavādam eva, tasya doṣaḥ saṃyogādilopalatvaṇatveṣu iti / antaraṅgatvād vā kṛte latvavikalpe ṇilopo bhaviṣyati / girau, giraḥ ity atra dhātoḥ svarūpagrahaṇe tatpratyaye kāryavijñānam iti latvaṃ na bhavati / giratir vā latvavidhāv adhikṛtaḥ, gṛṇāter etad rūpam // pareś ca gha-aṅkayoḥ

Sanskrit only: no published translation is held for this verse.

परि इत्य् एतस्य यो रेफः तस्य घशब्दे अङ्कशब्दे च परतो विभाषा लकार आदेशो भवति । परिघः परिघः । पर्यङ्कः, पल्यङ्कः । घ इति स्वरूपग्रहणम् अत्रेष्यते, न तरप्तमपौ इति । योगे चेति वक्तव्यम् । परियोगः, पलियोगः ॥ संयोगान्तस्य लोपः

pari ity etasya yo rephaḥ tasya ghaśabde aṅkaśabde ca parato vibhāṣā lakāra ādeśo bhavati / parighaḥ parighaḥ / paryaṅkaḥ, palyaṅkaḥ / gha iti svarūpagrahaṇam atreṣyate, na taraptamapau iti / yoge ceti vaktavyam / pariyogaḥ, paliyogaḥ // saṃyogāntasya lopaḥ

Sanskrit only: no published translation is held for this verse.

संयोगान्तस्य पदस्य लोपो भवति । गोमान् । यवमान् । कृतवान् । हतवान् । इह श्रेयान्, भूयान् इति रुत्वम् परम् अपि असिद्धत्वात् संयोगान्तसय् लोपं न बाधते । जश्त्वे तु नाप्राप्ते तदारभ्याते इति तस्य बाधकं भवति, यशः, पयः इति । दध्यत्र, मध्वत्र, इत्य् अत्र तु यणादेशस्य बिहिरङ्गलक्षणस्य असिद्धत्वात् संयोगान्तलोपो न भवति ॥ रात् सस्य

saṃyogāntasya padasya lopo bhavati / gomān / yavamān / kṛtavān / hatavān / iha śreyān, bhūyān iti rutvam param api asiddhatvāt saṃyogāntasay lopaṃ na bādhate / jaśtve tu nāprāpte tadārabhyāte iti tasya bādhakaṃ bhavati, yaśaḥ, payaḥ iti / dadhyatra, madhvatra, ity atra tu yaṇādeśasya bihiraṅgalakṣaṇasya asiddhatvāt saṃyogāntalopo na bhavati // rāt sasya

Sanskrit only: no published translation is held for this verse.

संयोगान्तपदस्य यो रेफः तस्माद् उत्तरस्य अन्तस्य सकारस्य लोपो भवति । गोभिरक्षाः । प्रत्यञ्चमत्साः । क्षरतेः त्सरतेश् च लुङि सिचः छान्दसत्वाद् ईडभावः बहुलं छन्दसि (*७,३।९७) इति वचनात् । दीर्घे सति रूपम् एतत् । मातुः, पितुः इति ऋत उत् (*६,१।१११) इति उत्त्वे कृते रपरत्वे च सति रात् सस्य इति सलोपः । सिद्धे सत्यारम्भो नियमार्थः, रात् सस्य एव लोपो भवति, न अन्यस्य इति । ऊर्जेः क्विप् - ऊर्क् । मृजेः लङि - अमार्ट् ॥ धि च

saṃyogāntapadasya yo rephaḥ tasmād uttarasya antasya sakārasya lopo bhavati / gobhirakṣāḥ / pratyañcamatsāḥ / kṣarateḥ tsarateś ca luṅi sicaḥ chāndasatvād īḍabhāvaḥ bahulaṃ chandasi (*7,3.97) iti vacanāt / dīrghe sati rūpam etat / mātuḥ, pituḥ iti ṛta ut (*6,1.111) iti uttve kṛte raparatve ca sati rāt sasya iti salopaḥ / siddhe satyārambho niyamārthaḥ, rāt sasya eva lopo bhavati, na anyasya iti / ūrjeḥ kvip - ūrk / mṛjeḥ laṅi - amārṭ // dhi ca

Sanskrit only: no published translation is held for this verse.

धि सकारे सिचो लोपश्चकाद्धीति प्रयोजनम् । आशाध्वं तु कथं जश्त्वं सकारस्य भविष्यति ॥ सर्वम् एवं प्रसिद्धं स्याच् छ्रु तिश्चापि न भिद्यते । लुङश्चापि न मुर्धन्ये ग्रहणं सेटि दुष्यति ॥ घसिभसोर् न सिध्येत तस्मात् सिज्ग्रहणं न तत् । छान्दसो वर्णलोपो वा यथेष्कर्तारमध्वरे ॥ निष्कर्तारमध्वरस्य इत्य् एवं प्राप्ते ॥ झलो झलि

dhi sakāre sico lopaścakāddhīti prayojanam / āśādhvaṃ tu kathaṃ jaśtvaṃ sakārasya bhaviṣyati // sarvam evaṃ prasiddhaṃ syāc chru tiścāpi na bhidyate / luṅaścāpi na murdhanye grahaṇaṃ seṭi duṣyati // ghasibhasor na sidhyeta tasmāt sijgrahaṇaṃ na tat / chāndaso varṇalopo vā yatheṣkartāramadhvare // niṣkartāramadhvarasya ity evaṃ prāpte // jhalo jhali

Sanskrit only: no published translation is held for this verse.

झलः उत्तरस्य सकारस्य झलि परतो लोपो भवति अभित्त । अभित्थाः । अच्छित्त । अच्छित्थाः । अवात्ताम्, अवात्त इत्य् अत्र वा सिचः सकारलोपस्य असिद्धत्वात् सः स्यार्धधातुके (*७,४।४९) इति सकारस्य तकारः । झलः इति किम् ? अमंस्त । अमंस्थाः । झलि इति किम् ? अभित्साताम् । अभित्सत । अयम् अपि सिच एव लोपः, तेन+इह न भवति, सोमसुत् स्तोता, दृष्त्स्थानम् इति ॥ ह्रस्वाद् अङ्गात्

jhalaḥ uttarasya sakārasya jhali parato lopo bhavati abhitta / abhitthāḥ / acchitta / acchitthāḥ / avāttām, avātta ity atra vā sicaḥ sakāralopasya asiddhatvāt saḥ syārdhadhātuke (*7,4.49) iti sakārasya takāraḥ / jhalaḥ iti kim ? amaṃsta / amaṃsthāḥ / jhali iti kim ? abhitsātām / abhitsata / ayam api sica eva lopaḥ, tena+iha na bhavati, somasut stotā, dṛṣtsthānam iti // hrasvād aṅgāt

Sanskrit only: no published translation is held for this verse.

ह्रस्वान्ताद् अङ्गाद् उत्तरस्य लोपो भवति झलि परतः । अकृत । अकृथाः । अहृत । अहृथाः । ह्रस्वात् इति किम् ? अच्योष्ट । अप्लोष्ट । अङ्गात् इति किम् ? अलाविष्टाम् । अलाविषुः । झलि इत्य् एव, अकृषाताम् । अकृषत । अयम् अपि सिच एव लोपः, तेन+इह न भवति, द्विष्टराम्, द्विष्टमाम् इति । सुजन्ताद् द्विशब्दात् तरप्तमपौ, अद्रव्यप्रकर्षे आतिशयिकः आम् प्रत्ययः ॥ इट ईटि

hrasvāntād aṅgād uttarasya lopo bhavati jhali parataḥ / akṛta / akṛthāḥ / ahṛta / ahṛthāḥ / hrasvāt iti kim ? acyoṣṭa / aploṣṭa / aṅgāt iti kim ? alāviṣṭām / alāviṣuḥ / jhali ity eva, akṛṣātām / akṛṣata / ayam api sica eva lopaḥ, tena+iha na bhavati, dviṣṭarām, dviṣṭamām iti / sujantād dviśabdāt taraptamapau, adravyaprakarṣe ātiśayikaḥ ām pratyayaḥ // iṭa īṭi

Sanskrit only: no published translation is held for this verse.

स्-कोः संयोग-आद्योर् अन्ते च

s-koḥ saṃyoga-ādyor ante ca

Sanskrit only: no published translation is held for this verse.

पदस्य अन्ते यः संयोगः, झलि परतो वा यः संयोगः, तदाद्योः सकारककारयोर् लोपो भवति । लस्जेः लग्नः । लग्नवान् । साधुलक् । मस्जेः - मग्नः । ककारस्य - तक्षेः तट् । तष्टः । तष्टवान् । काष्ठतत् । झलि सङीति वक्तव्यम् । किम् इदं सिङि इति ? सनः सप्रभृति महिङो ङकारेण प्रत्याहारः । इह मा भूत्, कष्ठशक्ष्थाता इति । थकारे झलि ककारस्य संयोगादेर् लोपः प्राप्नोति । तद् अत्र शकेः क्विबन्तस्य प्रयोग एव न अस्ति इत्य् आह काष्ठशगेव न अस्ति, कुतो ऽयं काष्ठशकि तिष्ठेत् इति । वास्यर्थम्, काक्वर्थम् इत्य् अत्र अपि बहिरङ्गलक्षणस्य यणादेशस्य असिद्धत्वात् संयोगादिलोपो न भवति । स्कोः इति किम् ? नर्नर्ति । वर्वर्ति । संयोगाद्योः इति किम् ? पयःशक् । अन्ते च इति किम् ? तक्षितः । तक्षकः ॥ चोः कुः

padasya ante yaḥ saṃyogaḥ, jhali parato vā yaḥ saṃyogaḥ, tadādyoḥ sakārakakārayor lopo bhavati / lasjeḥ lagnaḥ / lagnavān / sādhulak / masjeḥ - magnaḥ / kakārasya - takṣeḥ taṭ / taṣṭaḥ / taṣṭavān / kāṣṭhatat / jhali saṅīti vaktavyam / kim idaṃ siṅi iti ? sanaḥ saprabhṛti mahiṅo ṅakāreṇa pratyāhāraḥ / iha mā bhūt, kaṣṭhaśakṣthātā iti / thakāre jhali kakārasya saṃyogāder lopaḥ prāpnoti / tad atra śakeḥ kvibantasya prayoga eva na asti ity āha kāṣṭhaśageva na asti, kuto 'yaṃ kāṣṭhaśaki tiṣṭhet iti / vāsyartham, kākvartham ity atra api bahiraṅgalakṣaṇasya yaṇādeśasya asiddhatvāt saṃyogādilopo na bhavati / skoḥ iti kim ? narnarti / varvarti / saṃyogādyoḥ iti kim ? payaḥśak / ante ca iti kim ? takṣitaḥ / takṣakaḥ // coḥ kuḥ

Sanskrit only: no published translation is held for this verse.

चवर्गस्य कवर्गादेशो भवति झलि परतः, पदान्ते च । पक्ता । पक्तुम् । पक्तव्यम् । ओदनपक् । वक्ता । वक्तुम् । वक्तव्यम् । वाक् । क्रुञ्चा इत्य् अत्र सिङि इति वचनाद् ञकारस्य चकारे झलि कुत्वं न भवति, युजिक्रुञ्चां च इति निपातनाद् वा । नकारोपधो वा धातुरयं रेफरहितश्च क्रुञ्च कौटिल्याल्पीभावयोः इति पठ्यते । नकारलोपे हि निकुचितिः इति दृश्यते । युजिक्रुञ्चां च इति तस्यैव रेफो ऽधिको नकारस्य लोपाभावश् च इति निपात्यते । तत्र अनुस्वारस्य परसवर्णस्य च असिद्धत्वात् ञकार एव न अस्ति इति कुत्वं न भविष्यति ॥ हो ढः

cavargasya kavargādeśo bhavati jhali parataḥ, padānte ca / paktā / paktum / paktavyam / odanapak / vaktā / vaktum / vaktavyam / vāk / kruñcā ity atra siṅi iti vacanād ñakārasya cakāre jhali kutvaṃ na bhavati, yujikruñcāṃ ca iti nipātanād vā / nakāropadho vā dhāturayaṃ repharahitaśca kruñca kauṭilyālpībhāvayoḥ iti paṭhyate / nakāralope hi nikucitiḥ iti dṛśyate / yujikruñcāṃ ca iti tasyaiva repho 'dhiko nakārasya lopābhāvaś ca iti nipātyate / tatra anusvārasya parasavarṇasya ca asiddhatvāt ñakāra eva na asti iti kutvaṃ na bhaviṣyati // ho ḍhaḥ

Sanskrit only: no published translation is held for this verse.

हकारस्य ढकारदेशो भवति झलि परतः पदान्ते च । सोढा । सोढुम् । सोढव्यम् । जलाषात् । वोढा । वोढुम् । वोढव्यम् । प्रष्ठवाट् । दिव्यवाट् ॥ दादेर् धातोर् घः

hakārasya ḍhakāradeśo bhavati jhali parataḥ padānte ca / soḍhā / soḍhum / soḍhavyam / jalāṣāt / voḍhā / voḍhum / voḍhavyam / praṣṭhavāṭ / divyavāṭ // dāder dhātor ghaḥ

Sanskrit only: no published translation is held for this verse.

किं कृतं भवति ? अधोक् इत्य् अत्र अपि घकारः सिद्धो भवति । कथं दोग्धा, दोग्धुम् इति ? व्यपदेशिवद्भावात् । अथ वा धातूपदेशे यो दादिः इत्य् एवं विज्ञायते । तथा च दामलिहमिच्छति दामलिह्यति, दामलिह्यतेः क्विप् प्रत्ययः दामलिट् इत्य् अत्र अपि न भवति ॥ वा द्रुह-मुह-ष्णुह-ष्णिहाम्

kiṃ kṛtaṃ bhavati ? adhok ity atra api ghakāraḥ siddho bhavati / kathaṃ dogdhā, dogdhum iti ? vyapadeśivadbhāvāt / atha vā dhātūpadeśe yo dādiḥ ity evaṃ vijñāyate / tathā ca dāmalihamicchati dāmalihyati, dāmalihyateḥ kvip pratyayaḥ dāmaliṭ ity atra api na bhavati // vā druha-muha-ṣṇuha-ṣṇihām

Sanskrit only: no published translation is held for this verse.

द्रुह मुह ष्णुह ष्णिह इत्य् एतेषां धातूनां हकारस्य वा घकारादेशो भवति झलि परतः पदान्ते च । द्रुह - द्रोग्धा, द्रोढा । मित्रध्रुक्, मित्रध्रुट् । मुह - उन्मोग्धा, उन्मोढा । उन्मुक्, उन्मुङ् । ष्णुह - उत्स्नोग्धा, उत्स्नोढा । उत्स्नुक्, उत्स्नुट् । ष्णिह - स्नेग्धा, स्नेढा । स्निक्, स्निट् । द्रुहेः दादित्वाद् घत्वंनित्यं प्राप्तम्, इतरेषाम् अप्राप्तम् एव घत्वं विकल्प्यते ॥ नहो धः

druha muha ṣṇuha ṣṇiha ity eteṣāṃ dhātūnāṃ hakārasya vā ghakārādeśo bhavati jhali parataḥ padānte ca / druha - drogdhā, droḍhā / mitradhruk, mitradhruṭ / muha - unmogdhā, unmoḍhā / unmuk, unmuṅ / ṣṇuha - utsnogdhā, utsnoḍhā / utsnuk, utsnuṭ / ṣṇiha - snegdhā, sneḍhā / snik, sniṭ / druheḥ dāditvād ghatvaṃnityaṃ prāptam, itareṣām aprāptam eva ghatvaṃ vikalpyate // naho dhaḥ

Sanskrit only: no published translation is held for this verse.

नहो हकारस्य धकारादेशो भवति झलि परे पदान्ते च । नद्धम् । नद्धुम् । नद्धव्यम् । उपानत् । परीणत् ॥ आहस्थः

naho hakārasya dhakārādeśo bhavati jhali pare padānte ca / naddham / naddhum / naddhavyam / upānat / parīṇat // āhasthaḥ

Sanskrit only: no published translation is held for this verse.

आहो हकारस्य थकारादेशो भवति झलि परतः । इदमात्थ । किमात्थ । आदेशान्तरकरणं झषस्तथोर्धो ऽधः (*८,२।४०) इत्य् अस्य निवृत्त्यर्थम् । झलि इत्य् एव, आह, आहतुः, आहुः । हृग्रहोर्भश्छन्दसि हस्येति वक्तव्यम् । गर्दभेन सम्भरति । ग्रभीता । जभ्रिरे । उद्ग्राभं च निग्राभं च ब्रह्म देवा अवीवृधन् ॥ व्रश्च-भ्रस्ज-सृज-मृज-यज-राज-भ्राज-च्छ-शां षः

āho hakārasya thakārādeśo bhavati jhali parataḥ / idamāttha / kimāttha / ādeśāntarakaraṇaṃ jhaṣastathordho 'dhaḥ (*8,2.40) ity asya nivṛttyartham / jhali ity eva, āha, āhatuḥ, āhuḥ / hṛgrahorbhaśchandasi hasyeti vaktavyam / gardabhena sambharati / grabhītā / jabhrire / udgrābhaṃ ca nigrābhaṃ ca brahma devā avīvṛdhan // vraśca-bhrasja-sṛja-mṛja-yaja-rāja-bhrāja-ccha-śāṃ ṣaḥ

Sanskrit only: no published translation is held for this verse.

एकाचो बशो भष् झषन्तस्य स्-ध्वोः

ekāco baśo bhaṣ jhaṣantasya s-dhvoḥ

Sanskrit only: no published translation is held for this verse.

धातोर् अवयवो य एकाच् झषन्तः तदवयवस्य बशः स्थाने भष् आदेशो भवति झलि सकारे ध्वशब्दे च परतः पदान्ते च । अत्र चत्वरो बशः स्थानिनो भषादेशाश्चत्वार एव, तत्र सङ्ख्यातानुदेशे प्राप्ते डकारस्य स्थानिनो ऽभावात् ढकारादेशो न भवति ? आन्तर्यतो व्यवस्था विज्ञास्यते । बुध - भोत्स्यन्ते । अभुद्ध्वम् । अर्थभुत् । गुह - निघोक्ष्यते । न्यघूढ्वम् । पर्णघुट् । दुह - धोक्ष्यते । अधुग्ध्वम् । गोधुक् । अजर्घाः - गुधेः यङ्लुगन्तस्य लङि सिपि लभूपधगुणे कृते सिपो हल्ङ्यादिलोपे च धातोः अवयवस्य एकाचो बशः स्थाने भष्भावः, ततो धकारस्य जश्त्वम्, दश् च (*८,२।७५) इति रुत्वम्, रो रि (*८,३।१४) इति पूर्वरेफस्य लोपः, ढ्रलोपे पूर्वस्य दीर्घो ऽणः (*६,३।१११) इति दीर्घत्वम् । गदर्भयतेः अप्रत्ययः - गर्धप् । एकाचः इति किम् ? दामलिहम् इच्छति दामलिह्यति, दामलिह्यतेर् अप्रत्ययः, दामलिट् । असति ह्य् एकाज्ग्रहणे धातोः इत्य् एतद् बशो विशेषणं स्यात् । बशः इति किम् ? क्रुध - क्रोत्स्यति । झषन्तस्य इति किम् ? दास्यति । स्ध्वोः इति किम् ? बोद्धा । वोद्धुम् । बोद्धव्यम् । धकारस्य बकारोपसृष्टस्य ग्रहणं किम् ? दादद्धि । दध धारणे इत्य् एतस्य यङ्लुकि लोटि हुझल्भ्यो हेर्धिः (*६,४।१०१) इति धिभावे सत्य् एतद् भवति ॥ दधस् त-थोश् च

dhātor avayavo ya ekāc jhaṣantaḥ tadavayavasya baśaḥ sthāne bhaṣ ādeśo bhavati jhali sakāre dhvaśabde ca parataḥ padānte ca / atra catvaro baśaḥ sthānino bhaṣādeśāścatvāra eva, tatra saṅkhyātānudeśe prāpte ḍakārasya sthānino 'bhāvāt ḍhakārādeśo na bhavati ? āntaryato vyavasthā vijñāsyate / budha - bhotsyante / abhuddhvam / arthabhut / guha - nighokṣyate / nyaghūḍhvam / parṇaghuṭ / duha - dhokṣyate / adhugdhvam / godhuk / ajarghāḥ - gudheḥ yaṅlugantasya laṅi sipi labhūpadhaguṇe kṛte sipo halṅyādilope ca dhātoḥ avayavasya ekāco baśaḥ sthāne bhaṣbhāvaḥ, tato dhakārasya jaśtvam, daś ca (*8,2.75) iti rutvam, ro ri (*8,3.14) iti pūrvarephasya lopaḥ, ḍhralope pūrvasya dīrgho 'ṇaḥ (*6,3.111) iti dīrghatvam / gadarbhayateḥ apratyayaḥ - gardhap / ekācaḥ iti kim ? dāmaliham icchati dāmalihyati, dāmalihyater apratyayaḥ, dāmaliṭ / asati hy ekājgrahaṇe dhātoḥ ity etad baśo viśeṣaṇaṃ syāt / baśaḥ iti kim ? krudha - krotsyati / jhaṣantasya iti kim ? dāsyati / sdhvoḥ iti kim ? boddhā / voddhum / boddhavyam / dhakārasya bakāropasṛṣṭasya grahaṇaṃ kim ? dādaddhi / dadha dhāraṇe ity etasya yaṅluki loṭi hujhalbhyo herdhiḥ (*6,4.101) iti dhibhāve saty etad bhavati // dadhas ta-thoś ca

Sanskrit only: no published translation is held for this verse.

दधः इति दधतिः कृतद्विर्वचनो निर्दिश्यते । तस्य झलन्तस्य बशः स्थाने भष् आदेशो भवति तकारथकारयोः परतः, चकारात् स्ध्वोश् च परतः । धत्तः । धत्थः । धत्से । धद्ध्वम् । वचनसामर्थ्यादातो लोपस्य स्थानिवद्भावो न भवति । अभ्यासजश्त्वस्य च असिद्धत्वम् । तथोः इति किम् ? आनन्तर्यात् स्ध्वोर् एव विज्ञायेत । चकारः तयोर् अनुवृत्त्यर्थः । झषन्तस्य इत्य् एव, दधाति ॥ झलां जशो ऽन्ते

dadhaḥ iti dadhatiḥ kṛtadvirvacano nirdiśyate / tasya jhalantasya baśaḥ sthāne bhaṣ ādeśo bhavati takārathakārayoḥ parataḥ, cakārāt sdhvoś ca parataḥ / dhattaḥ / dhatthaḥ / dhatse / dhaddhvam / vacanasāmarthyādāto lopasya sthānivadbhāvo na bhavati / abhyāsajaśtvasya ca asiddhatvam / tathoḥ iti kim ? ānantaryāt sdhvor eva vijñāyeta / cakāraḥ tayor anuvṛttyarthaḥ / jhaṣantasya ity eva, dadhāti // jhalāṃ jaśo 'nte

Sanskrit only: no published translation is held for this verse.

झलां जशः आदेशा भवन्ति पदस्यान्ते वर्तमानानाम् । वागत्र । श्वलिडत्र । अग्निचिदत्र । त्रिष्टुबत्र । अन्तग्रहणं झलि इत्य् एतस्य निवृत्त्यर्थम् । वस्ता । वस्तव्यम् ॥ झषस् त-थोर् धो ऽधः

jhalāṃ jaśaḥ ādeśā bhavanti padasyānte vartamānānām / vāgatra / śvaliḍatra / agnicidatra / triṣṭubatra / antagrahaṇaṃ jhali ity etasya nivṛttyartham / vastā / vastavyam // jhaṣas ta-thor dho 'dhaḥ

Sanskrit only: no published translation is held for this verse.

ष-ढोः कः सि

ṣa-ḍhoḥ kaḥ si

Sanskrit only: no published translation is held for this verse.

षकारढकारयोः ककारादेशो भवति सकारे परतः । षकारस्य पिष् - पेक्ष्यति अपेक्ष्यत् । पिपक्षति । धकारस्य - लिह - लेक्ष्यति । अलेक्ष्यत् । लिलिक्षति । सि इति किम् ? पिनष्ति । लेढि ॥ र-दाभ्यां निष्थातो नः पूर्वस्य च दः

ṣakāraḍhakārayoḥ kakārādeśo bhavati sakāre parataḥ / ṣakārasya piṣ - pekṣyati apekṣyat / pipakṣati / dhakārasya - liha - lekṣyati / alekṣyat / lilikṣati / si iti kim ? pinaṣti / leḍhi // ra-dābhyāṃ niṣthāto naḥ pūrvasya ca daḥ

Sanskrit only: no published translation is held for this verse.

रेफदकाराभ्याम् उत्तरस्य निष्थातकारस्य नकारः आदेशो भवति पूर्वस्य च दकारस्य । रेफान्तात् तावत् - आस्तीर्णम् । विस्तीर्णम् । विशीर्णम् । निगीर्णम् । अवगूर्णम् । दकारात् - भिन्नः । भिन्नवान् । धिन्नः । छिन्नवान् । रदाभ्याम् इति किम् ? कृतः । कृतवान् । रः इत्य् अत्र रश्रुतिसाम् अन्यं न+उपादीयते, किं तर्हि, व्यञ्जनमात्रम् । रेफसामान्यनिर्देशे ऽपि सति रेफात् परा या ऽज्भक्तिस् तद्व्यवधानान्नत्वं न भवति । निष्था इति किम् ? कर्ता । हर्ता । तः इति किम् ? चरितम् । मुदितम् । पूर्वस्य इति किम् ? परस्य मा भूत्, भिन्नवद्भ्याम् । भिन्नवद्भिः । इह कृतस्य अपत्यं कार्तिः इति वृद्धेः बहिरङ्गलक्षणाया असिद्धत्वान्नत्वे कर्तव्ये रेफस्य असिद्धत्वम् ॥ संयोगादेर् आतो धातोर् यण्वतः

rephadakārābhyām uttarasya niṣthātakārasya nakāraḥ ādeśo bhavati pūrvasya ca dakārasya / rephāntāt tāvat - āstīrṇam / vistīrṇam / viśīrṇam / nigīrṇam / avagūrṇam / dakārāt - bhinnaḥ / bhinnavān / dhinnaḥ / chinnavān / radābhyām iti kim ? kṛtaḥ / kṛtavān / raḥ ity atra raśrutisām anyaṃ na+upādīyate, kiṃ tarhi, vyañjanamātram / rephasāmānyanirdeśe 'pi sati rephāt parā yā 'jbhaktis tadvyavadhānānnatvaṃ na bhavati / niṣthā iti kim ? kartā / hartā / taḥ iti kim ? caritam / muditam / pūrvasya iti kim ? parasya mā bhūt, bhinnavadbhyām / bhinnavadbhiḥ / iha kṛtasya apatyaṃ kārtiḥ iti vṛddheḥ bahiraṅgalakṣaṇāyā asiddhatvānnatve kartavye rephasya asiddhatvam // saṃyogāder āto dhātor yaṇvataḥ

Sanskrit only: no published translation is held for this verse.

संयोगादिः यो धातुर् आकारान्तो यण्वान्, तस्माद् उत्तरस्य निष्थातकारस्य नकारदेशो भवति । प्रदाणः । प्रदाणवान् । म्लानः । म्लानवान् । संयोगादेः इति किम् ? यातः । यातवान् । आतः इति किम् ? च्युतः । च्युतवान् । ल्पुतः । प्लुतवान् । धातोः इति किम् ? निर्यातः । निर्वातः । यण्वतः इति किम् ? स्नातः । स्नातवान् ॥ ल्वादिभ्यः

saṃyogādiḥ yo dhātur ākārānto yaṇvān, tasmād uttarasya niṣthātakārasya nakāradeśo bhavati / pradāṇaḥ / pradāṇavān / mlānaḥ / mlānavān / saṃyogādeḥ iti kim ? yātaḥ / yātavān / ātaḥ iti kim ? cyutaḥ / cyutavān / lputaḥ / plutavān / dhātoḥ iti kim ? niryātaḥ / nirvātaḥ / yaṇvataḥ iti kim ? snātaḥ / snātavān // lvādibhyaḥ

Sanskrit only: no published translation is held for this verse.

दुग्वोर्दिर्घश् च+इति वक्तव्यम् । दु - आदूनः । दु - विगूनः । पूञो विनाश इति वक्तव्यम् । पूना यवाः । विनष्टाः इत्य् अर्थः । विनाशे इति किम् ? पूतम् धान्यम् । सिनोतेर् ग्रासकर्मकर्तृकस्य+इति वक्तव्यम् । सिनो ग्रासः स्वयम् एव । ग्रासकर्मकर्तृकस्य इति किम् ? सिता पाशेन सूकरी । ग्रासो ऽपि यदा कर्मैव भवति न कर्मकर्ता, तदा न भवति, सितो ग्रासो देवदत्तेन इति ॥ ओदितश् च

dugvordirghaś ca+iti vaktavyam / du - ādūnaḥ / du - vigūnaḥ / pūño vināśa iti vaktavyam / pūnā yavāḥ / vinaṣṭāḥ ity arthaḥ / vināśe iti kim ? pūtam dhānyam / sinoter grāsakarmakartṛkasya+iti vaktavyam / sino grāsaḥ svayam eva / grāsakarmakartṛkasya iti kim ? sitā pāśena sūkarī / grāso 'pi yadā karmaiva bhavati na karmakartā, tadā na bhavati, sito grāso devadattena iti // oditaś ca

Sanskrit only: no published translation is held for this verse.

ओकारेतो धातोर् उत्तरस्य निष्ठातकारस्य नकारादेशो भवति । ओलस्जी - लग्नः । लग्नवान् । ओविजी - उद्विग्नः । उद्विग्नवान् । ओप्यायी वृद्धौ - आपीनः । आपीनवान् । स्वादय ओदितः । षूङ् - सूनः । सूनवान् । दूङ् - दूनः । दूनवान् । दीङ् - दीनः । दीनवान् । डीङ् - डीनः । डीनवान् । धीङ् - धीनः । धीनवान् । मीङ् - मीनः । मीनवान् । रीङ् - रीणः । रीणवान् । लीङ् - लीनः । लीनवान् । व्रीङ् - व्रीणः । व्रीणवान् ॥ क्षियो दीर्घात्

okāreto dhātor uttarasya niṣṭhātakārasya nakārādeśo bhavati / olasjī - lagnaḥ / lagnavān / ovijī - udvignaḥ / udvignavān / opyāyī vṛddhau - āpīnaḥ / āpīnavān / svādaya oditaḥ / ṣūṅ - sūnaḥ / sūnavān / dūṅ - dūnaḥ / dūnavān / dīṅ - dīnaḥ / dīnavān / ḍīṅ - ḍīnaḥ / ḍīnavān / dhīṅ - dhīnaḥ / dhīnavān / mīṅ - mīnaḥ / mīnavān / rīṅ - rīṇaḥ / rīṇavān / līṅ - līnaḥ / līnavān / vrīṅ - vrīṇaḥ / vrīṇavān // kṣiyo dīrghāt

Sanskrit only: no published translation is held for this verse.

क्षियो धातोः दीर्घाद् उत्तरस्य निष्थातकारस्य नकारादेशो भवति । क्षीणाः क्लोशाः । क्षीणः जाल्मः । क्षीणः तपस्वी । क्षियः निष्ठायाम् अण्यदर्थे (*६,४।६०), वा+आक्रोशादैन्ययोः (*६,४।६१) इति दीर्घत्वं भवति । दीर्घात् इति किम् ? अक्षितमसि मामेक्षेष्ठाः । अक्षितम् इति क्तप्रत्ययो भावे, भावश् च ण्यदर्थः इति दीर्घाभावः । ह्रस्वस्य अपि हि धात्वनुकरणस्य इह इयङा निर्देशः । क्षियः निष्थायाम् अण्यदर्थे (*६,४।६०) इत्य् अत्र दीर्घग्रहणं क्रियते । विपराभ्यां जेः (*१,३।१९) इत्य् एवम् आदौ तु धातुत्वम् अनुकार्यगतं सदप्यविवक्षितत्वाद् जिरुपसामान्यानुकरणं द्रष्टव्यम् ॥ श्यो ऽस्पर्शे

kṣiyo dhātoḥ dīrghād uttarasya niṣthātakārasya nakārādeśo bhavati / kṣīṇāḥ klośāḥ / kṣīṇaḥ jālmaḥ / kṣīṇaḥ tapasvī / kṣiyaḥ niṣṭhāyām aṇyadarthe (*6,4.60), vā+ākrośādainyayoḥ (*6,4.61) iti dīrghatvaṃ bhavati / dīrghāt iti kim ? akṣitamasi māmekṣeṣṭhāḥ / akṣitam iti ktapratyayo bhāve, bhāvaś ca ṇyadarthaḥ iti dīrghābhāvaḥ / hrasvasya api hi dhātvanukaraṇasya iha iyaṅā nirdeśaḥ / kṣiyaḥ niṣthāyām aṇyadarthe (*6,4.60) ity atra dīrghagrahaṇaṃ kriyate / viparābhyāṃ jeḥ (*1,3.19) ity evam ādau tu dhātutvam anukāryagataṃ sadapyavivakṣitatvād jirupasāmānyānukaraṇaṃ draṣṭavyam // śyo 'sparśe

Sanskrit only: no published translation is held for this verse.

अञ्चो ऽनपादाने

añco 'napādāne

Sanskrit only: no published translation is held for this verse.

अञ्चतेः उत्तरपदस्य निष्थातकारस्य नकारादेशो भवति न चेद् अपादानं तत्र भवति । समक्नौ शकुनेः पादौ । तस्मात् पशवो न्यक्नाः । अनपादाने इति किम् ? उदक्तम् उदकं कूपात् । व्यक्तम् इत्य् एतद् अञ्जेः रूपम् ॥ दिवो ऽविजिगीषायाम्

añcateḥ uttarapadasya niṣthātakārasya nakārādeśo bhavati na ced apādānaṃ tatra bhavati / samaknau śakuneḥ pādau / tasmāt paśavo nyaknāḥ / anapādāne iti kim ? udaktam udakaṃ kūpāt / vyaktam ity etad añjeḥ rūpam // divo 'vijigīṣāyām

Sanskrit only: no published translation is held for this verse.

दिवः उत्तरस्य निष्थातकारस्य नकारादेशो भवति अविजिगीषायम् अर्थे । अद्यूनः । परिद्यूनः । अविजिगीषायाम् इति किम् ? द्यूतं वर्तते । विजिगीषया हि तत्र अक्षपातनादि क्रियते ॥ निर्वाणो ऽवाते

divaḥ uttarasya niṣthātakārasya nakārādeśo bhavati avijigīṣāyam arthe / adyūnaḥ / paridyūnaḥ / avijigīṣāyām iti kim ? dyūtaṃ vartate / vijigīṣayā hi tatra akṣapātanādi kriyate // nirvāṇo 'vāte

Sanskrit only: no published translation is held for this verse.

निर्वाणः इति निस्पूर्वाद् वातेर् उत्तरस्य निष्थतकारस्य नकारो निपात्यते, न चेद् वाताधिकरणो वात्यर्थो भवति । निर्वाणः अग्निः । निर्वाणः प्रदीपः । निर्वाणः भिक्षुः । अवाते इति किम् ? निर्वातः वातः । निर्वातं वातेन । निर्वाणः प्रदीपो वातेन इत्य् अत्र तु प्रदीपाधिकरणो वात्यर्थः, वातस्तु तस्य करणम् इति भवत्य् एव नत्वम् ॥ शुषः कः

nirvāṇaḥ iti nispūrvād vāter uttarasya niṣthatakārasya nakāro nipātyate, na ced vātādhikaraṇo vātyartho bhavati / nirvāṇaḥ agniḥ / nirvāṇaḥ pradīpaḥ / nirvāṇaḥ bhikṣuḥ / avāte iti kim ? nirvātaḥ vātaḥ / nirvātaṃ vātena / nirvāṇaḥ pradīpo vātena ity atra tu pradīpādhikaraṇo vātyarthaḥ, vātastu tasya karaṇam iti bhavaty eva natvam // śuṣaḥ kaḥ

Sanskrit only: no published translation is held for this verse.

शुषेः धातोर् उत्तरस्य निष्थातकारस्य ककारादेशो भवति । शुष्कः । शुष्कवान् ॥ पचो वः

śuṣeḥ dhātor uttarasya niṣthātakārasya kakārādeśo bhavati / śuṣkaḥ / śuṣkavān // paco vaḥ

Sanskrit only: no published translation is held for this verse.

पचेः धातोर् उत्तरस्य निष्थातकारस्य वकारादेशो भवति । पक्वः । पक्ववान् ॥ क्षायो मः

paceḥ dhātor uttarasya niṣthātakārasya vakārādeśo bhavati / pakvaḥ / pakvavān // kṣāyo maḥ

Sanskrit only: no published translation is held for this verse.

प्रस्त्यो ऽन्यतरस्याम्

prastyo 'nyatarasyām

Sanskrit only: no published translation is held for this verse.

प्रपूर्वात् स्त्यायतेः उत्तरस्य निष्थातकारस्य अन्यतरस्यां मकारादेशो भवति । प्रस्तीमः । प्रस्तीमवान् । प्रस्तीतः । प्रस्तीतवान् । यदा मत्वं न अस्ति, तदा संयोगादेर् आतो धातोर् यण्वतः (*८,२।४३) इत्य् अस्य पूर्वत्र असिद्धत्वात् संप्रसारणं प्रथमं क्रियते, तत्र कृते निमित्तव्याघातान् नत्वं न भवति ॥ अनुपसर्गात् फुल्ल-क्षीब-कृश-उल्लाघाः

prapūrvāt styāyateḥ uttarasya niṣthātakārasya anyatarasyāṃ makārādeśo bhavati / prastīmaḥ / prastīmavān / prastītaḥ / prastītavān / yadā matvaṃ na asti, tadā saṃyogāder āto dhātor yaṇvataḥ (*8,2.43) ity asya pūrvatra asiddhatvāt saṃprasāraṇaṃ prathamaṃ kriyate, tatra kṛte nimittavyāghātān natvaṃ na bhavati // anupasargāt phulla-kṣība-kṛśa-ullāghāḥ

Sanskrit only: no published translation is held for this verse.

फुल्ल क्षीब कृश उल्लाघ इत्य् एते निपात्यन्ते, न चेद् उपसर्गाद् उत्तरा भवन्ति । फुल्लः इति ञिफला विशरणे इत्य् एतस्माद् धातोर् उत्तरस्य निष्ठातकारस्य लकारो निपात्यते । उत्वमिडभावश् च सिद्ध एव । क्तवत्वन्तस्य अप्य् एतल् लत्वम् इष्यते, फुल्लः, फुल्लवान् इति । क्षीबकृशोल्लाधाः इति क्षीबिकृशिभ्याम् उत्पूर्वाच् च लाघेः क्त प्रत्ययस्य तलोपः इडभावश् च निपात्यते । कृते व इटि इच्छब्दलोपः । क्षीबः । कृशः । उल्लाघः । अनुपसर्गात् इति किम् ? प्रफुल्ताः सुमनसः । प्रक्षीबितः । प्रकृशितः । प्रोल्लाधितः । लाघेरुदो ऽन्यः उपसर्ग प्रतिषिध्यते । उत्फुल्लसम्फुल्लयोर् इति वक्तव्यम् । उत्फुल्लः । सम्फुल्लः । परिकृशः इत्य् अत्र यः परिशब्दः स क्रियान्तरयोगात् कृशिं प्रत्यनुपसर्ग एव, परिगतः कृशः परिकृशः इति ॥ नुद-विद-उन्द-त्रा-घ्रा-ह्रीभ्यो ऽन्यतरस्याम्

phulla kṣība kṛśa ullāgha ity ete nipātyante, na ced upasargād uttarā bhavanti / phullaḥ iti ñiphalā viśaraṇe ity etasmād dhātor uttarasya niṣṭhātakārasya lakāro nipātyate / utvamiḍabhāvaś ca siddha eva / ktavatvantasya apy etal latvam iṣyate, phullaḥ, phullavān iti / kṣībakṛśollādhāḥ iti kṣībikṛśibhyām utpūrvāc ca lāgheḥ kta pratyayasya talopaḥ iḍabhāvaś ca nipātyate / kṛte va iṭi icchabdalopaḥ / kṣībaḥ / kṛśaḥ / ullāghaḥ / anupasargāt iti kim ? praphultāḥ sumanasaḥ / prakṣībitaḥ / prakṛśitaḥ / prollādhitaḥ / lāgherudo 'nyaḥ upasarga pratiṣidhyate / utphullasamphullayor iti vaktavyam / utphullaḥ / samphullaḥ / parikṛśaḥ ity atra yaḥ pariśabdaḥ sa kriyāntarayogāt kṛśiṃ pratyanupasarga eva, parigataḥ kṛśaḥ parikṛśaḥ iti // nuda-vida-unda-trā-ghrā-hrībhyo 'nyatarasyām

Sanskrit only: no published translation is held for this verse.

नुद विद उन्द त्रा घ्रा ह्री इत्य् एतेभ्यः उत्तरस्य निष्ठातकारस्य नकार आदेशो भवति अन्यतरस्याम् । नुद - नुन्नः, नुत्तः । विद - विन्नः, नित्तः । उन्द - समुन्नः, समुत्तः । त्रा - त्राणः, त्रातः । घ्रा - घ्राणः, घ्रातः । ह्री - ह्रीणः, ग्रीतः । ह्री इत्य् एतस्माद् अप्राप्तं नत्वम्, इतरेषां नित्यं प्राप्तं विकल्प्यते । विद विचारणे इत्य् अस्य विदेर् इह ग्रहणम् इष्यते । एवं ह्य् उक्तम् - वेत्तेस्तु विदितो निष्ठा विद्यतेर् विन्न इष्यते । विनतेर् विन्नश् च वित्तश्च भोगवित्तश् च विन्दतेः ॥ इति ॥ न ध्या-ख्या-पॄ-मूर्च्छि-मदाम्

nuda vida unda trā ghrā hrī ity etebhyaḥ uttarasya niṣṭhātakārasya nakāra ādeśo bhavati anyatarasyām / nuda - nunnaḥ, nuttaḥ / vida - vinnaḥ, nittaḥ / unda - samunnaḥ, samuttaḥ / trā - trāṇaḥ, trātaḥ / ghrā - ghrāṇaḥ, ghrātaḥ / hrī - hrīṇaḥ, grītaḥ / hrī ity etasmād aprāptaṃ natvam, itareṣāṃ nityaṃ prāptaṃ vikalpyate / vida vicāraṇe ity asya vider iha grahaṇam iṣyate / evaṃ hy uktam - vettestu vidito niṣṭhā vidyater vinna iṣyate / vinater vinnaś ca vittaśca bhogavittaś ca vindateḥ // iti // na dhyā-khyā-pṝ-mūrcchi-madām

Sanskrit only: no published translation is held for this verse.

वित्तो भोग-प्रत्यययोः

vitto bhoga-pratyayayoḥ

Sanskrit only: no published translation is held for this verse.

वित्तः इति विदेर् लाभार्थात् उत्तरस्य क्तस्य नत्वाभावो निपात्यते भोगे प्रत्यये च अभिधेये । वित्तमस्य बहु । धनम् अस्य बहु इत्य् अर्थः । धनं हि भुज्यते इति भोगो ऽभिधीयते । प्रत्यये - वित्तो ऽयं मनुष्यः । प्रतीतः इत्य् अर्थः । प्रतीयते इति प्रत्ययः । भोगप्रत्यययोः इति किम् ? विन्नः ॥ भित्तं शकलम्

vittaḥ iti vider lābhārthāt uttarasya ktasya natvābhāvo nipātyate bhoge pratyaye ca abhidheye / vittamasya bahu / dhanam asya bahu ity arthaḥ / dhanaṃ hi bhujyate iti bhogo 'bhidhīyate / pratyaye - vitto 'yaṃ manuṣyaḥ / pratītaḥ ity arthaḥ / pratīyate iti pratyayaḥ / bhogapratyayayoḥ iti kim ? vinnaḥ // bhittaṃ śakalam

Sanskrit only: no published translation is held for this verse.

भित्तम् इति निपात्यते शकलं चेत् तद् भवति । भित्तं तिष्ठति । भित्तं प्रपतति । शकलपर्यायो ऽयम् । अत्र भिदिक्रिया शब्दव्युत्पत्तेर् एव निमित्तम् । भिदिक्रियाविवक्षायां हि शकलविषये भिन्नम् भित्तम् इत्य् एव भवति ॥ ऋणम् आधमर्ण्ये

bhittam iti nipātyate śakalaṃ cet tad bhavati / bhittaṃ tiṣṭhati / bhittaṃ prapatati / śakalaparyāyo 'yam / atra bhidikriyā śabdavyutpatter eva nimittam / bhidikriyāvivakṣāyāṃ hi śakalaviṣaye bhinnam bhittam ity eva bhavati // ṛṇam ādhamarṇye

Sanskrit only: no published translation is held for this verse.

ऋणम् इति ऋ इत्य् एतस्माद् धातोर् उत्तरस्य निष्ठातकारस्य नकारो निपात्यते आधमर्ण्यविषये । अधमः ऋणे अधमर्णः, एतस्माद् एव निपातनात् सप्तम्यन्तेन उत्तरपदेन समासः, तद्भावः आधमर्ण्यम् । यद्य् एवम्, उत्तमर्णः इति न सिध्यति ? न+एष दोषः । कालान्तरदेयविनिमयोपलक्षणार्थं चेदमुपात्तम् । तेन उत्तमर्णः इत्य् अपि हि भवति । ऋणं ददाति । ऋणं धारयति । आधमर्ण्ये इति किम् ? ऋतं वक्ष्यामि नानृतम् ॥ नसत्त-निषत्त-अनुत्त-प्रतूर्त-सूर्त-गूर्तानि छन्दसि

ṛṇam iti ṛ ity etasmād dhātor uttarasya niṣṭhātakārasya nakāro nipātyate ādhamarṇyaviṣaye / adhamaḥ ṛṇe adhamarṇaḥ, etasmād eva nipātanāt saptamyantena uttarapadena samāsaḥ, tadbhāvaḥ ādhamarṇyam / yady evam, uttamarṇaḥ iti na sidhyati ? na+eṣa doṣaḥ / kālāntaradeyavinimayopalakṣaṇārthaṃ cedamupāttam / tena uttamarṇaḥ ity api hi bhavati / ṛṇaṃ dadāti / ṛṇaṃ dhārayati / ādhamarṇye iti kim ? ṛtaṃ vakṣyāmi nānṛtam // nasatta-niṣatta-anutta-pratūrta-sūrta-gūrtāni chandasi

Sanskrit only: no published translation is held for this verse.

क्विन्प्रत्ययस्य कुः

kvinpratyayasya kuḥ

Sanskrit only: no published translation is held for this verse.

पदस्य इति वर्तते । क्विन्प्रत्ययस्य सर्वत्र पदान्ते कुत्वम् इष्यते । क्विन् प्रत्ययो यस्माद् धातोः स क्विन्प्रत्ययः, तस्य पदस्यालो ऽन्त्यस्य कवर्गादेशो भवति । स्पृशो ऽनुदके क्विन् (*३,२।५८) । घृतस्पृक् । हलस्पृक् । मन्त्रस्पृक् । क्विनः कुः इति वक्तव्ये प्रत्ययग्रहणं कृतं बहुव्रीहिविज्ञानार्थम् । क्विन् प्रत्ययो यस्माद् विहितस् तस्माद् अन्यस्मिन्न् अपि प्रत्यये कुत्वं यथा स्यात् । मा नो अस्राक् । मा नो अद्राक् । सृजिदृशिभ्यां हि क्विन् विहितः, तयोर् लुङि कुत्वम् एतत् । माङ्योगे ऽपि छन्दसत्वाद् अडागमः । ईट् च न भवति, बहुलं छन्दसि (*७।३।९७) इति । तथा दृग्भ्याम्, दृग्भिः इति क्विबन्तस्य अपि दृशेः कुत्वं भवति । एवं च सति रज्जुसृड्भ्याम् इत्य् अत्र अपि कुत्वं प्राप्नोति । अथ तु न+इष्यते, प्रतिविधानं कर्तव्यम् इति ॥ नशेर् वा

padasya iti vartate / kvinpratyayasya sarvatra padānte kutvam iṣyate / kvin pratyayo yasmād dhātoḥ sa kvinpratyayaḥ, tasya padasyālo 'ntyasya kavargādeśo bhavati / spṛśo 'nudake kvin (*3,2.58) / ghṛtaspṛk / halaspṛk / mantraspṛk / kvinaḥ kuḥ iti vaktavye pratyayagrahaṇaṃ kṛtaṃ bahuvrīhivijñānārtham / kvin pratyayo yasmād vihitas tasmād anyasminn api pratyaye kutvaṃ yathā syāt / mā no asrāk / mā no adrāk / sṛjidṛśibhyāṃ hi kvin vihitaḥ, tayor luṅi kutvam etat / māṅyoge 'pi chandasatvād aḍāgamaḥ / īṭ ca na bhavati, bahulaṃ chandasi (*7.3.97) iti / tathā dṛgbhyām, dṛgbhiḥ iti kvibantasya api dṛśeḥ kutvaṃ bhavati / evaṃ ca sati rajjusṛḍbhyām ity atra api kutvaṃ prāpnoti / atha tu na+iṣyate, pratividhānaṃ kartavyam iti // naśer vā

Sanskrit only: no published translation is held for this verse.

पदस्य इति वर्तते । नशेः पदस्य वा कवर्गादेशो भवति । सा वै जीवनगाहुतिः । स वे जीवनडा हुतिः । नशेरयं सम्पदादित्वाद् भावे क्विप् । जीवस्य नाशो जीवनक्, जीवनट् । षत्वे प्राप्ते कुत्वविकल्पः ॥ मो नो धातोः

padasya iti vartate / naśeḥ padasya vā kavargādeśo bhavati / sā vai jīvanagāhutiḥ / sa ve jīvanaḍā hutiḥ / naśerayaṃ sampadāditvād bhāve kvip / jīvasya nāśo jīvanak, jīvanaṭ / ṣatve prāpte kutvavikalpaḥ // mo no dhātoḥ

Sanskrit only: no published translation is held for this verse.

मकारन्तस्य धातोः पदस्य नकारादेशो भवति । प्रशान् प्रतान् । प्रदान् । शमितमिदमादीनां क्विप्, अनुनासिकस्य क्विझलोः क्ङिति (*६,४।१५) इति दीर्घत्वम् । नत्वस्य असिद्धत्वान् नलोपो न भवति । मः इति किम् ? भित् । छित् । धातोः इति किम् ? इदम् । किम् । पदस्य इत्य् एव, प्रतामौ । प्रतामः ॥ म्-वोश् च

makārantasya dhātoḥ padasya nakārādeśo bhavati / praśān pratān / pradān / śamitamidamādīnāṃ kvip, anunāsikasya kvijhaloḥ kṅiti (*6,4.15) iti dīrghatvam / natvasya asiddhatvān nalopo na bhavati / maḥ iti kim ? bhit / chit / dhātoḥ iti kim ? idam / kim / padasya ity eva, pratāmau / pratāmaḥ // m-voś ca

Sanskrit only: no published translation is held for this verse.

स-सजुषो रुः

sa-sajuṣo ruḥ

Sanskrit only: no published translation is held for this verse.

सकारान्तस्य पदस्य सजुष् इत्य् एतस्य च रुः भवति । सकारान्तस्य - अग्निर् अत्र । वायुरत्र । सजुषः - सजूरृतुभिः । सजूर्देवेभिः । जुषेः क्विपि सपूर्वस्य रुपम् एतत् ॥ अवयाः श्वेतवाः पूरोडाश् च

sakārāntasya padasya sajuṣ ity etasya ca ruḥ bhavati / sakārāntasya - agnir atra / vāyuratra / sajuṣaḥ - sajūrṛtubhiḥ / sajūrdevebhiḥ / juṣeḥ kvipi sapūrvasya rupam etat // avayāḥ śvetavāḥ pūroḍāś ca

Sanskrit only: no published translation is held for this verse.

अवयाः श्वेतवाः पुरोडाः इत्य् एते निपात्यन्ते । अवपूर्वस्य यजेः अवेतपूर्वस्य वहेः, पुरस् पूर्वस्य दाशतेः मन्त्रे श्वेतवहोक्थशस्पुरोडाशो ण्विन् (*३,२।७१), अवे यजः (*३,२।७२) इति ण्विनि कृते, श्वेतवहादीनां डस्पदस्य इति डस्प्रत्यये निपातनानि एतानि । किमर्थं तर्हि निपातनं यावता पूर्वेण+एव रुः सिद्धः, दीर्घत्वम् अपि अत्वसन्तस्य चाधातोः (*६,४।१४) इति ? सम्बुद्धौ दीर्घार्थम् एते निपात्यन्ते । अत्वसन्तस्य चाधातोः (*६,४।१४) इत्य् अत्र हि असम्बुद्धौ इति वर्तते । हे अवयाः । हे श्वेतवाः । हे पुरोडाः । चकारो ऽनुक्तसमुच्वयार्थः । हे उक्थशाः ॥ अहन्

avayāḥ śvetavāḥ puroḍāḥ ity ete nipātyante / avapūrvasya yajeḥ avetapūrvasya vaheḥ, puras pūrvasya dāśateḥ mantre śvetavahokthaśaspuroḍāśo ṇvin (*3,2.71), ave yajaḥ (*3,2.72) iti ṇvini kṛte, śvetavahādīnāṃ ḍaspadasya iti ḍaspratyaye nipātanāni etāni / kimarthaṃ tarhi nipātanaṃ yāvatā pūrveṇa+eva ruḥ siddhaḥ, dīrghatvam api atvasantasya cādhātoḥ (*6,4.14) iti ? sambuddhau dīrghārtham ete nipātyante / atvasantasya cādhātoḥ (*6,4.14) ity atra hi asambuddhau iti vartate / he avayāḥ / he śvetavāḥ / he puroḍāḥ / cakāro 'nuktasamucvayārthaḥ / he ukthaśāḥ // ahan

Sanskrit only: no published translation is held for this verse.

अहन् इत्य् एतस्य पदस्य रुः भवति । अहोभ्याम् । अहोभिः । नलोपम् अकृत्वा निर्देशो ज्ञापकः नलोपाभावो यथा स्यात् इति । दीर्घाहा निदाधः, हे दीर्घाहो ऽत्र इति । अहन् इत्य् अत्र तु लाक्षणिकत्वाद् अहन्शब्दस्य रुः न भवति । अह्नो रुविधौ रूपरात्रिरथन्तरेषूपसङ्ख्यानं कर्तव्यम् । अहोरूपम् । अहोरात्रः । अहोरथन्तरम् । रो ऽसुपि (*८,२।६९) इत्य् अस्य अपवादो रुत्वम् उपसङ्ख्यायते । अपर आह - सामान्येन रेफादौ रुत्वं भवति, अहोरम्यम्, अहोरत्नानि इति ॥ रो ऽसुपि

ahan ity etasya padasya ruḥ bhavati / ahobhyām / ahobhiḥ / nalopam akṛtvā nirdeśo jñāpakaḥ nalopābhāvo yathā syāt iti / dīrghāhā nidādhaḥ, he dīrghāho 'tra iti / ahan ity atra tu lākṣaṇikatvād ahanśabdasya ruḥ na bhavati / ahno ruvidhau rūparātrirathantareṣūpasaṅkhyānaṃ kartavyam / ahorūpam / ahorātraḥ / ahorathantaram / ro 'supi (*8,2.69) ity asya apavādo rutvam upasaṅkhyāyate / apara āha - sāmānyena rephādau rutvaṃ bhavati, ahoramyam, ahoratnāni iti // ro 'supi

Sanskrit only: no published translation is held for this verse.

अम्नर्-ऊधर्-अवर् इत्य् उभयथा छन्दसि

amnar-ūdhar-avar ity ubhayathā chandasi

Sanskrit only: no published translation is held for this verse.

अम्नस् ऊधस् अवस् इत्य् एतेषां छन्दसि विषये उभयथा भवति, रुर्वा रेफो वा । अम्नस् - अम्न एव, अम्नरेव । ऊधस् - ऊध एव, ऊधर् एव । अवस् - अवः एव, अवेरेव । यदा रुत्वं तदा भोभगो ऽघो ऽपूर्वस्य यो ऽशि (*८,३।१७) इति यकारः । छन्दसि भाषायां च विभाषा प्रचेतसो राजन्य् उपसङ्ख्यानं कर्तव्यम् । प्रचेता राजन्, प्रचेतो राजन् । अहरादीनां पत्यादिषु उपसङ्ख्यानं कर्तव्यम् । अहर्पतिः, अहः पतिः । गीर्पतिः, गीःपतिः । धूर्पतिः, धूःपतिः । विसर्जनीयबाधनार्थम् अत्र पक्षे रेफस्य+एव रेफो विधीयते ॥ भुवश् च महाव्याहृतेः

amnas ūdhas avas ity eteṣāṃ chandasi viṣaye ubhayathā bhavati, rurvā repho vā / amnas - amna eva, amnareva / ūdhas - ūdha eva, ūdhar eva / avas - avaḥ eva, avereva / yadā rutvaṃ tadā bhobhago 'gho 'pūrvasya yo 'śi (*8,3.17) iti yakāraḥ / chandasi bhāṣāyāṃ ca vibhāṣā pracetaso rājany upasaṅkhyānaṃ kartavyam / pracetā rājan, praceto rājan / aharādīnāṃ patyādiṣu upasaṅkhyānaṃ kartavyam / aharpatiḥ, ahaḥ patiḥ / gīrpatiḥ, gīḥpatiḥ / dhūrpatiḥ, dhūḥpatiḥ / visarjanīyabādhanārtham atra pakṣe rephasya+eva repho vidhīyate // bhuvaś ca mahāvyāhṛteḥ

Sanskrit only: no published translation is held for this verse.

भुवस् इत्य् एतस्य महाव्याहृतेः छन्दसि विषये उभयथा भवति, रुर्वा रेफो वा । भुव इत्य् अन्तरिक्षम्, भुवरित्यन्तरिक्षम् । महाव्याहृतेः इति किम् ? भुवो विश्वेषु सवनेषु यज्ञियः । भुवः इत्य् एतद् अव्यव्यम् अन्तरिक्षवाचि महाव्याहृतिः ॥ वसु-स्रंसु-ध्वंस्व्-अनडुहां दः

bhuvas ity etasya mahāvyāhṛteḥ chandasi viṣaye ubhayathā bhavati, rurvā repho vā / bhuva ity antarikṣam, bhuvarityantarikṣam / mahāvyāhṛteḥ iti kim ? bhuvo viśveṣu savaneṣu yajñiyaḥ / bhuvaḥ ity etad avyavyam antarikṣavāci mahāvyāhṛtiḥ // vasu-sraṃsu-dhvaṃsv-anaḍuhāṃ daḥ

Sanskrit only: no published translation is held for this verse.

ससजुषो रुः (*८,२।६६) इत्य् अतः सः इति वर्तते, तेन सम्भवात् व्यभिचाराच् च वसुर् एव विशेष्यते, न स्रंसुध्वंसू, व्यभिचाराभावात्, असम्भवाच् च न अनडुह्, शब्दः । वस्वन्तस्य पदस्य सकारान्तस्य स्रंसु, ध्वंसु, अनडुः इत्य् एतेषां च दकारादेशो भवति । वसु - विद्वद्भ्याम् । विद्वद्भिः । पपिवद्भ्याम् । पपिवद्भिः । स्रंसु - उरवास्रद्भ्याम् । उरवास्रद्भिः । ध्वंसु - पर्णध्वद्भ्याम् । पर्णध्वद्भिः । अनडुः - अनडुद्भ्याम् । अनडुद्भिः । सः इत्य् एव, विद्वान् । पपिवान् । नकारस्य न भवति । रुत्वे नाप्राप्ते इदम् आरभ्यते इति तद् बाध्यते । संयोगान्तलोपस् तु न+एवम् इति तेन एतद् एव दत्वं बाध्यते । अनडुहो ऽपि ढत्वम् अनेन बाध्यते । नुमस्तु विधानसामर्थ्यान्न भवति, अनड्वान्, हे अनड्वन् इति । पदस्य इत्य् एव, विद्वांसौ । विद्वांसः ॥ तिप्य् अनस्तेः

sasajuṣo ruḥ (*8,2.66) ity ataḥ saḥ iti vartate, tena sambhavāt vyabhicārāc ca vasur eva viśeṣyate, na sraṃsudhvaṃsū, vyabhicārābhāvāt, asambhavāc ca na anaḍuh, śabdaḥ / vasvantasya padasya sakārāntasya sraṃsu, dhvaṃsu, anaḍuḥ ity eteṣāṃ ca dakārādeśo bhavati / vasu - vidvadbhyām / vidvadbhiḥ / papivadbhyām / papivadbhiḥ / sraṃsu - uravāsradbhyām / uravāsradbhiḥ / dhvaṃsu - parṇadhvadbhyām / parṇadhvadbhiḥ / anaḍuḥ - anaḍudbhyām / anaḍudbhiḥ / saḥ ity eva, vidvān / papivān / nakārasya na bhavati / rutve nāprāpte idam ārabhyate iti tad bādhyate / saṃyogāntalopas tu na+evam iti tena etad eva datvaṃ bādhyate / anaḍuho 'pi ḍhatvam anena bādhyate / numastu vidhānasāmarthyānna bhavati, anaḍvān, he anaḍvan iti / padasya ity eva, vidvāṃsau / vidvāṃsaḥ // tipy anasteḥ

Sanskrit only: no published translation is held for this verse.

सिपि धातो रुर्वा

sipi dhāto rurvā

Sanskrit only: no published translation is held for this verse.

सिपि परतः सकारान्तस्य पदस्य धातोः रुः इत्य् अयम् आदेशो भवति, दकारो वा । अचकाः त्वम्, अचकात् त्वम् । अन्वशाः त्वम्, अन्वशात् त्वम् । धातुग्रहणं च+उत्तरार्थं रुग्रहणं च ॥ दश् च

sipi parataḥ sakārāntasya padasya dhātoḥ ruḥ ity ayam ādeśo bhavati, dakāro vā / acakāḥ tvam, acakāt tvam / anvaśāḥ tvam, anvaśāt tvam / dhātugrahaṇaṃ ca+uttarārthaṃ rugrahaṇaṃ ca // daś ca

Sanskrit only: no published translation is held for this verse.

दकारान्तस्य धातोः पदस्य सिपि परतो रुः भवति, दकारो वा । अभिनः त्वम्, अभिनत् त्वम् । अच्छिनः त्वम्, अच्छिनत् त्वम् ॥ र्-वोर् उपधाया दीर्घ इकः

dakārāntasya dhātoḥ padasya sipi parato ruḥ bhavati, dakāro vā / abhinaḥ tvam, abhinat tvam / acchinaḥ tvam, acchinat tvam // r-vor upadhāyā dīrgha ikaḥ

Sanskrit only: no published translation is held for this verse.

रेफवकारान्तस्य धातोः पदस्य उपधायाः इकः दीर्घो भवति । गीः । धूः । पूः आशीः । वकारग्रहणम् उत्तरार्थम् । उपधाग्रहणं किम् ? अबिभर् भवान् । अभ्यासेकारस्य मा भूत् । इकः इति किम् ? अत्र+एव प्रत्युदाहरणे भशब्दाकारस्य मा भूत् । धातोः इत्य् एव, अग्निः । वायुः । पदस्य इत्य् एव, गिरौ । गिरः ॥ हलि च

rephavakārāntasya dhātoḥ padasya upadhāyāḥ ikaḥ dīrgho bhavati / gīḥ / dhūḥ / pūḥ āśīḥ / vakāragrahaṇam uttarārtham / upadhāgrahaṇaṃ kim ? abibhar bhavān / abhyāsekārasya mā bhūt / ikaḥ iti kim ? atra+eva pratyudāharaṇe bhaśabdākārasya mā bhūt / dhātoḥ ity eva, agniḥ / vāyuḥ / padasya ity eva, girau / giraḥ // hali ca

Sanskrit only: no published translation is held for this verse.

हलि च परतो रेफवकारान्तस्य धातोः उपधायाः इकः दीर्घः भवति । आस्तीर्णम् । विस्तीर्णम् । विशीर्णम् । अवगूर्णम् । वकारान्तस्य - दीव्यति । सिव्यति । धातोः इत्य् एव, दिवम् इच्छति दिव्यति । चतुरः इच्छति चतुर्यति । इकः इत्य् एव, स्मर्यते । भव्यम् । अपदान्तार्थो ऽयम् आरम्भः ॥ उपधायां च

hali ca parato rephavakārāntasya dhātoḥ upadhāyāḥ ikaḥ dīrghaḥ bhavati / āstīrṇam / vistīrṇam / viśīrṇam / avagūrṇam / vakārāntasya - dīvyati / sivyati / dhātoḥ ity eva, divam icchati divyati / caturaḥ icchati caturyati / ikaḥ ity eva, smaryate / bhavyam / apadāntārtho 'yam ārambhaḥ // upadhāyāṃ ca

Sanskrit only: no published translation is held for this verse.

न भ-कुर्-छुराम्

na bha-kur-churām

Sanskrit only: no published translation is held for this verse.

रेफवकारान्तस्य भस्य कुर् छुर् इत्य् एतयोस् च दीर्घो न भवति । धुरं वहति धुर्यः । धुरि साधुः धुर्यः । दिव्यम् । कुर् - कुर्यात् । छुर् - धुर्यात् । रेफवकाराभ्यां भविशेषणं किम् ? प्रतिदीव्ना । प्रतिदीव्ने ॥ अदसो ऽसेर् दाद् उ दो मः

rephavakārāntasya bhasya kur chur ity etayos ca dīrgho na bhavati / dhuraṃ vahati dhuryaḥ / dhuri sādhuḥ dhuryaḥ / divyam / kur - kuryāt / chur - dhuryāt / rephavakārābhyāṃ bhaviśeṣaṇaṃ kim ? pratidīvnā / pratidīvne // adaso 'ser dād u do maḥ

Sanskrit only: no published translation is held for this verse.

अदसो ऽसकारान्तस्य वर्णस्य दात् परस्य उवर्णादेशो भवति, दकारस्य च मकारः । अमुम्, अमू, अमून् । अमुना, अमूभ्याम् । भाव्यमानेन अप्य् उकारेण सवर्णानां ग्रहणम् इष्यते इति एकमात्रिकस्य मात्रिकः, द्विमात्रिकस्य द्विमात्रिकः आदेशो भवति । असेः इति किम् ? अदः इच्छति अदस्यति । अदसो ऽनोस्र इति वक्तव्यम् । ओकाररेफयोर् अपि प्रतिषेधो यथा स्यात् इति । अदो ऽत्र । अदः । तदर्थं केचित् सूत्रं वर्णयन्ति, अः सेः यस्य सो ऽयम् असिः, यत्र सकारस्य अकारः क्रियते इति, तेन त्यदाद्यत्वविधाने एतद् अन्यत्र न भवितव्यम् एव इति । अद्र्यादेशे कथम् ? अदसो ऽद्रेः पृथङ् मुत्वं केचिद् इच्छन्ति लत्ववत् । केचिदन्त्यसदेशस्य नेत्येके ऽसेर्हि दृश्यते ॥ इति । यैः असेः इति सकारस्य प्रतिषेधः क्रियते, अनन्त्यविकारे अन्त्यसदेशस्य इति च परिभाषा न अश्रीयते, तेषाम् उभयोर् अपि मुत्वेन भवितव्यम्, अमुमुयङ्, अमुमुयञ्चौ, अमुमुयञ्चः इति , यथा चलीक्लृप्यते इति लत्वम् । ये तु परिभाषाम् आश्रयन्ति तेषाम् अन्त्यसदेशस्य एव भवितव्यम्, अदमुयङ्, अदमुयञ्चौ, अदमुयञ्चः इति । येषं तु त्यदाद्यत्वविषय एव मुत्वेन भवितव्यम् इति दर्शनम् तेषाम् अत्र न भवितव्यम्, अदद्र्यङ्, अदद्र्यञ्चौ, अदद्र्यञ्चः इति । दात् इति किम् ? अलो ऽन्त्यस्य मा भूत्, अमुया । अमुयोः ॥ एत ईद् बहुवचने

adaso 'sakārāntasya varṇasya dāt parasya uvarṇādeśo bhavati, dakārasya ca makāraḥ / amum, amū, amūn / amunā, amūbhyām / bhāvyamānena apy ukāreṇa savarṇānāṃ grahaṇam iṣyate iti ekamātrikasya mātrikaḥ, dvimātrikasya dvimātrikaḥ ādeśo bhavati / aseḥ iti kim ? adaḥ icchati adasyati / adaso 'nosra iti vaktavyam / okārarephayor api pratiṣedho yathā syāt iti / ado 'tra / adaḥ / tadarthaṃ kecit sūtraṃ varṇayanti, aḥ seḥ yasya so 'yam asiḥ, yatra sakārasya akāraḥ kriyate iti, tena tyadādyatvavidhāne etad anyatra na bhavitavyam eva iti / adryādeśe katham ? adaso 'dreḥ pṛthaṅ mutvaṃ kecid icchanti latvavat / kecidantyasadeśasya netyeke 'serhi dṛśyate // iti / yaiḥ aseḥ iti sakārasya pratiṣedhaḥ kriyate, anantyavikāre antyasadeśasya iti ca paribhāṣā na aśrīyate, teṣām ubhayor api mutvena bhavitavyam, amumuyaṅ, amumuyañcau, amumuyañcaḥ iti , yathā calīklṛpyate iti latvam / ye tu paribhāṣām āśrayanti teṣām antyasadeśasya eva bhavitavyam, adamuyaṅ, adamuyañcau, adamuyañcaḥ iti / yeṣaṃ tu tyadādyatvaviṣaya eva mutvena bhavitavyam iti darśanam teṣām atra na bhavitavyam, adadryaṅ, adadryañcau, adadryañcaḥ iti / dāt iti kim ? alo 'ntyasya mā bhūt, amuyā / amuyoḥ // eta īd bahuvacane

Sanskrit only: no published translation is held for this verse.

वाक्यस्य टेः प्लुत उदात्तः

vākyasya ṭeḥ pluta udāttaḥ

Sanskrit only: no published translation is held for this verse.

अधिकारो ऽयम् । वाक्यस्य टेः इति, प्लुतः इति च, उदात्तः इति च, एतत् त्रयम् अप्य् अधिकृतं वेदितव्यमापादपरिसमाप्तेः । यत् इति ऊर्ध्वम् अनुक्रमिष्यामः वाक्यस्य टेः प्लुत उदत्तः इत्य् एवं तद् वेदितव्यम् । वक्ष्यति - प्रत्यभिवादे ऽशूद्रे

adhikāro 'yam / vākyasya ṭeḥ iti, plutaḥ iti ca, udāttaḥ iti ca, etat trayam apy adhikṛtaṃ veditavyamāpādaparisamāpteḥ / yat iti ūrdhvam anukramiṣyāmaḥ vākyasya ṭeḥ pluta udattaḥ ity evaṃ tad veditavyam / vakṣyati - pratyabhivāde 'śūdre

Sanskrit only: no published translation is held for this verse.

अभिवादये देवदत्तो ऽहम्, भो आयुष्मानेधि देवदत्त३ । पदाधिकारो ऽनुवर्तते एव । वाक्यग्रहणम् अनन्त्यस्य पदस्य प्लुतनिवृत्त्यर्थम् । टिग्रहणं व्यञ्जनान्त्यस्य अपि टेरचः प्लुतो यथा स्यात्, अग्निचि३त् इति ॥ प्रत्यभिवादे ऽशूद्रे (*८,२।८३) । प्रत्यभिवादो नाम यदभिवाद्यमानो गुरुराशिषं प्रयुङ्क्ते, तत्र अशूद्रविषये यद् वाक्यं वर्तते तस्य टेः प्लुत उदात्तो भवति । अभिवादये देवदत्तो ऽहम्, भो आयुष्मानेधि देवदत्त३ । अशूद्रे इति किम् ? अभिवादये तुषजको ऽहन्, भो अयुष्मान् एधि तुषजक । स्त्रियाम् अपि प्रतिषेधो वक्तव्यः । अभिवादये गार्ग्यहम्, भो आयुष्मती भव गार्गि । असूयके ऽपि केचित् प्रतिषेधम् इच्छन्ति, अभिवादये स्थाल्यहं भोः, आयुष्मान् एधि स्थालिन् । यावच् च तस्य असूयकत्वं न ज्ञायते तावद् एव प्रत्यभिवादवाक्यम् । तस्मिंस्त्वसूयकत्वेन निर्ज्ञाते प्रत्यभिवादः एव न अस्ति, कुतः प्लुतः । तथा ह्य् उक्तम् - असूयकस्त्वं जाल्म, न त्वं प्रत्यभिवादनम् अर्हसि, भिद्यस्व वृषल स्थालिन् इति । अभिवादनवाक्ये यत् सङ्कीर्तितं नाम गोत्रं वा, तद् यत्र प्रत्यभिवादवाक्यान्ते प्रयुज्यते तत्र प्लुतिः इष्यते । इह न भवति, देवदत्त कुशल्यसि, देवदत्त आयुष्मान् एधि इति । भो राजन्यविशाः वेति वक्तव्यम् । भो अभिवादये देवदत्तो ऽहम्, आयुष्मानेधि देवदत्त भोः३, आयुष्मनेधि देवदत्त भोः । राजन्य - अभिवादये इन्द्रवर्मा अहं भोः, आयुष्मानेधि इन्द्रवर्म३न्, आयुष्मानेधि इन्द्रवर्मन् । विश् - अभिवादये इन्द्रपालितो ऽहम् भोः, आयुस्मानेधि इन्द्रपालित३, आयुष्मानेधि इन्द्रपालित ॥ दूराद् धूते च

abhivādaye devadatto 'ham, bho āyuṣmānedhi devadatta3 / padādhikāro 'nuvartate eva / vākyagrahaṇam anantyasya padasya plutanivṛttyartham / ṭigrahaṇaṃ vyañjanāntyasya api ṭeracaḥ pluto yathā syāt, agnici3t iti // pratyabhivāde 'śūdre (*8,2.83) / pratyabhivādo nāma yadabhivādyamāno gururāśiṣaṃ prayuṅkte, tatra aśūdraviṣaye yad vākyaṃ vartate tasya ṭeḥ pluta udātto bhavati / abhivādaye devadatto 'ham, bho āyuṣmānedhi devadatta3 / aśūdre iti kim ? abhivādaye tuṣajako 'han, bho ayuṣmān edhi tuṣajaka / striyām api pratiṣedho vaktavyaḥ / abhivādaye gārgyaham, bho āyuṣmatī bhava gārgi / asūyake 'pi kecit pratiṣedham icchanti, abhivādaye sthālyahaṃ bhoḥ, āyuṣmān edhi sthālin / yāvac ca tasya asūyakatvaṃ na jñāyate tāvad eva pratyabhivādavākyam / tasmiṃstvasūyakatvena nirjñāte pratyabhivādaḥ eva na asti, kutaḥ plutaḥ / tathā hy uktam - asūyakastvaṃ jālma, na tvaṃ pratyabhivādanam arhasi, bhidyasva vṛṣala sthālin iti / abhivādanavākye yat saṅkīrtitaṃ nāma gotraṃ vā, tad yatra pratyabhivādavākyānte prayujyate tatra plutiḥ iṣyate / iha na bhavati, devadatta kuśalyasi, devadatta āyuṣmān edhi iti / bho rājanyaviśāḥ veti vaktavyam / bho abhivādaye devadatto 'ham, āyuṣmānedhi devadatta bhoḥ3, āyuṣmanedhi devadatta bhoḥ / rājanya - abhivādaye indravarmā ahaṃ bhoḥ, āyuṣmānedhi indravarma3n, āyuṣmānedhi indravarman / viś - abhivādaye indrapālito 'ham bhoḥ, āyusmānedhi indrapālita3, āyuṣmānedhi indrapālita // dūrād dhūte ca

Sanskrit only: no published translation is held for this verse.

है-हेप्रयोगे है-हयोः

hai-heprayoge hai-hayoḥ

Sanskrit only: no published translation is held for this verse.

हैहेप्रयोगे यद् वाक्यं वर्तते तत्र हैहयोः एव प्लुतो भवति । है३ देवदत्त । हे३ देवदत्त । देवदत्त है३ । देवदत्त हे३ । पुनर् हैहयोर् ग्रहणम् अन्त्ययोर् अपि यथा स्यात् ॥ गुरोर् अनृतो ऽनन्त्यस्य अप्य् एकैकस्य प्राचाम्

haiheprayoge yad vākyaṃ vartate tatra haihayoḥ eva pluto bhavati / hai3 devadatta / he3 devadatta / devadatta hai3 / devadatta he3 / punar haihayor grahaṇam antyayor api yathā syāt // guror anṛto 'nantyasya apy ekaikasya prācām

Sanskrit only: no published translation is held for this verse.

प्रत्यभिवादे ऽशूद्रे (*८,२।८३) इत्य् एवम् आदिना यः प्लुतो विहितः, तस्य+एव अयं स्थानिविशेषः उच्यते । ऋकारवर्जितस्य गुरोः अनन्त्यस्य, अपिशब्दाद् अन्त्यस्य अपि टेः एकैकस्य सम्बोधने वर्तमानस्य प्लुतो भवति प्राचाम् आचार्याणां मतेन । देस्३वदत्त, देवद३त्त, देवदत्त३ । य३ज्ञदत्त, यज्ञद३त्त, यज्ञदत्त३ । गुरोः इति किम् ? वकारात् परस्य मा भूत् । अनृतः इति किम् ? कृष्णमि३त्र, कृष्णमित्र३ । एकैकग्रहणं पर्यायार्थम् । प्राचाम् इति ग्रहणं विकल्पार्थम् । आयुष्मानेधि देवदत्त । तद् अनेन यद् एतद् उच्यते, सर्व एव प्लुतः साहसमनिच्छता विभाषा कर्तव्यः इति तदुपपन्नं भवति ॥ ओम् अभ्यादाने

pratyabhivāde 'śūdre (*8,2.83) ity evam ādinā yaḥ pluto vihitaḥ, tasya+eva ayaṃ sthāniviśeṣaḥ ucyate / ṛkāravarjitasya guroḥ anantyasya, apiśabdād antyasya api ṭeḥ ekaikasya sambodhane vartamānasya pluto bhavati prācām ācāryāṇāṃ matena / des3vadatta, devada3tta, devadatta3 / ya3jñadatta, yajñada3tta, yajñadatta3 / guroḥ iti kim ? vakārāt parasya mā bhūt / anṛtaḥ iti kim ? kṛṣṇami3tra, kṛṣṇamitra3 / ekaikagrahaṇaṃ paryāyārtham / prācām iti grahaṇaṃ vikalpārtham / āyuṣmānedhi devadatta / tad anena yad etad ucyate, sarva eva plutaḥ sāhasamanicchatā vibhāṣā kartavyaḥ iti tadupapannaṃ bhavati // om abhyādāne

Sanskrit only: no published translation is held for this verse.

अभ्यादानं प्रारम्भः, तत्र यः ॐशब्दः तस्य प्लुतो भवति । ओ३म् अग्निमील्ले पुरोहितम् । अभ्यादाने इत् किम् ? ओम् इत्य् एतद् अक्षरम् उद्गीथम् उपासीत ॥ ये यज्ञकर्मणि

abhyādānaṃ prārambhaḥ, tatra yaḥ oṃśabdaḥ tasya pluto bhavati / o3m agnimīlle purohitam / abhyādāne it kim ? om ity etad akṣaram udgītham upāsīta // ye yajñakarmaṇi

Sanskrit only: no published translation is held for this verse.

ये इत्य् एतस्य यज्ञकर्मणि प्लुतो भवति । ये३ यजामहे । यज्ञकर्मणि इति किम् ? ये यजामह इति पञ्चाक्षरम् इति स्वध्यायकाले मा भूत् । ये यजामहे इत्य् अत्र+एव अयं प्लुतः इष्यते । इह हि न भवति, ये देवासो दिव्येकादश स्थ इति ॥ प्रणवष् टेः

ye ity etasya yajñakarmaṇi pluto bhavati / ye3 yajāmahe / yajñakarmaṇi iti kim ? ye yajāmaha iti pañcākṣaram iti svadhyāyakāle mā bhūt / ye yajāmahe ity atra+eva ayaṃ plutaḥ iṣyate / iha hi na bhavati, ye devāso divyekādaśa stha iti // praṇavaṣ ṭeḥ

Sanskrit only: no published translation is held for this verse.

याज्यान्तः

yājyāntaḥ

Sanskrit only: no published translation is held for this verse.

याज्या नाम ये याज्याकाण्डे पठ्यन्ते मन्त्राः, तेषाम् अन्त्यो यः टिः स प्लवते यज्ञकर्मणि । स्तोमैर्विधेमाग्नये३ । जिह्वामग्ने चकृषे हव्यवाह३म् । अन्तग्रहणं किम् ? याज्या नाम ऋचः काश्चिद्वाक्यसमुदायरूपः, तत्र यावन्ति वाक्यानि तेषां सर्वेषां टेः प्लुतः प्राप्नोति । सर्वान्त्यस्य+एव इष्यते, तदर्थम् अन्तग्रहणम् ॥ ब्रूहि-प्रेष्य-श्रौषड्-वौषड्-आवहानाम् आदेः

yājyā nāma ye yājyākāṇḍe paṭhyante mantrāḥ, teṣām antyo yaḥ ṭiḥ sa plavate yajñakarmaṇi / stomairvidhemāgnaye3 / jihvāmagne cakṛṣe havyavāha3m / antagrahaṇaṃ kim ? yājyā nāma ṛcaḥ kāścidvākyasamudāyarūpaḥ, tatra yāvanti vākyāni teṣāṃ sarveṣāṃ ṭeḥ plutaḥ prāpnoti / sarvāntyasya+eva iṣyate, tadartham antagrahaṇam // brūhi-preṣya-śrauṣaḍ-vauṣaḍ-āvahānām ādeḥ

Sanskrit only: no published translation is held for this verse.

ब्रूहि प्रेष्य श्रौषट् वौषट् आवह इत्य् एतेषाम् आदेः प्लुतो भवति यज्ञकर्मणि । अग्नये ऽनुब्रू३हि । प्रेष्य - अग्नये गोमयान् प्रे३ष्य । श्रौषट् - अस्तु श्रौ३षट् । वौषट् - सोमस् ने वीहि वौ३षट् । आवह - आग्निमा३वह । आवह देवान् यजमानाय इत्य् एवम् आदावयं प्लुतो न भवति, सर्वे विधयः छन्दसि विकल्प्यन्ते इति ॥ अग्नीत्-प्रेषणे परस्य च

brūhi preṣya śrauṣaṭ vauṣaṭ āvaha ity eteṣām ādeḥ pluto bhavati yajñakarmaṇi / agnaye 'nubrū3hi / preṣya - agnaye gomayān pre3ṣya / śrauṣaṭ - astu śrau3ṣaṭ / vauṣaṭ - somas ne vīhi vau3ṣaṭ / āvaha - āgnimā3vaha / āvaha devān yajamānāya ity evam ādāvayaṃ pluto na bhavati, sarve vidhayaḥ chandasi vikalpyante iti // agnīt-preṣaṇe parasya ca

Sanskrit only: no published translation is held for this verse.

अग्नीधः प्रेषणम् अग्नीत्प्रेषणम् । तत्रादेः प्लुतो भवति परस्य च । आ३ श्रा३वय । ओ३ श्रा३वय । अत्र+एव अयं प्लुत इष्यते । तेन इह न भवति, अग्नीदग्नीन् वि हर बर्हिः स्तृणाहि इति । तदर्थं केचिद् वक्ष्यमाणं विभाष इत्य् अभिसम्बध्नन्ति, सा च व्यवस्थितविभाषा इति । अपर आह - सर्व एव प्लुतः साहसमनिच्छता विभाष विज्ञेयः इति । इह तु, उद्धर३ उद्धर, अभिहर३ अभिहर इति छान्दसः प्लुतव्यत्ययः । यज्ञकर्मणि इत्य् एव, ओ श्रावय ॥ विभाषा पृष्टप्रतिवचने हेः

agnīdhaḥ preṣaṇam agnītpreṣaṇam / tatrādeḥ pluto bhavati parasya ca / ā3 śrā3vaya / o3 śrā3vaya / atra+eva ayaṃ pluta iṣyate / tena iha na bhavati, agnīdagnīn vi hara barhiḥ stṛṇāhi iti / tadarthaṃ kecid vakṣyamāṇaṃ vibhāṣa ity abhisambadhnanti, sā ca vyavasthitavibhāṣā iti / apara āha - sarva eva plutaḥ sāhasamanicchatā vibhāṣa vijñeyaḥ iti / iha tu, uddhara3 uddhara, abhihara3 abhihara iti chāndasaḥ plutavyatyayaḥ / yajñakarmaṇi ity eva, o śrāvaya // vibhāṣā pṛṣṭaprativacane heḥ

Sanskrit only: no published translation is held for this verse.

पृष्टप्रतिवचने विभाषा हेः प्लुतो भवति । अकार्षीः कटं देवदत्त ? अकार्षं हि३, अकार्षं हि । अलावीः केदारं देवदत्त ? अलाविषं हि३, अलाविषं हि । पृष्टप्रतिवचने इति किम् ? कटं करिष्यति हि । हेः इति किम् ? करोमि ननु ॥ निगृह्य-अनुयोगे च

pṛṣṭaprativacane vibhāṣā heḥ pluto bhavati / akārṣīḥ kaṭaṃ devadatta ? akārṣaṃ hi3, akārṣaṃ hi / alāvīḥ kedāraṃ devadatta ? alāviṣaṃ hi3, alāviṣaṃ hi / pṛṣṭaprativacane iti kim ? kaṭaṃ kariṣyati hi / heḥ iti kim ? karomi nanu // nigṛhya-anuyoge ca

Sanskrit only: no published translation is held for this verse.

अद्य श्राद्धम् इत्य् आत्थ३, अद्य श्राद्धम् इत्य् आत्थ । अद्यामावास्य+इत्य् आत्थ३, अद्यामावास्य+इत्य् आत्थ । अद्य अमावास्या इत्य् एवं वादी युक्त्या प्रच्याव्य स्वमताद् एवम् अनुयुज्यते ॥ आम्रेडितं भर्त्सने

adya śrāddham ity āttha3, adya śrāddham ity āttha / adyāmāvāsya+ity āttha3, adyāmāvāsya+ity āttha / adya amāvāsyā ity evaṃ vādī yuktyā pracyāvya svamatād evam anuyujyate // āmreḍitaṃ bhartsane

Sanskrit only: no published translation is held for this verse.

वाक्यादेः आमन्त्रितस्य इति भर्त्सने द्विर्वचनम् उक्तम्, तस्य आम्रेडितं प्लवते । चौर चौर३, वृषल वृषल३, दस्यो दस्यो३, घातयिस्यामि त्वा, बन्धयिस्यामि त्वा । भर्त्सने पर्यायेण+इति वक्तव्यम् । चौर३ चौर, चौर चौर३ । तदर्थम् आम्रेडितग्रहणम् द्विरुक्तोपलक्षणार्थं वर्णयन्ति ॥ अङ्गयुक्तं तिङ् आकाङ्क्षम्

vākyādeḥ āmantritasya iti bhartsane dvirvacanam uktam, tasya āmreḍitaṃ plavate / caura caura3, vṛṣala vṛṣala3, dasyo dasyo3, ghātayisyāmi tvā, bandhayisyāmi tvā / bhartsane paryāyeṇa+iti vaktavyam / caura3 caura, caura caura3 / tadartham āmreḍitagrahaṇam dviruktopalakṣaṇārthaṃ varṇayanti // aṅgayuktaṃ tiṅ ākāṅkṣam

Sanskrit only: no published translation is held for this verse.

अङ्ग इत्य् अनेन युक्तं तिङन्तम् आकाङ्क्षं भर्त्सने प्लवते । अङ्ग क्ज३, अङ्ग व्याहर३, इदानीं ज्ञास्यसि जाल्म । तिङ् इति किम् ? अङ्ग देवदत्त, मिथ्या वदसि । आकाङ्क्षम् इति किम् ? अङ्ग पच । न+एतद् अपरमाकाङ्क्षति । भर्त्सने इत्य् एव, अगाधीष्व, ओदनं ते दास्यमि ॥ विचार्यमाणानाम्

aṅga ity anena yuktaṃ tiṅantam ākāṅkṣaṃ bhartsane plavate / aṅga kja3, aṅga vyāhara3, idānīṃ jñāsyasi jālma / tiṅ iti kim ? aṅga devadatta, mithyā vadasi / ākāṅkṣam iti kim ? aṅga paca / na+etad aparamākāṅkṣati / bhartsane ity eva, agādhīṣva, odanaṃ te dāsyami // vicāryamāṇānām

Sanskrit only: no published translation is held for this verse.

प्रमाणेन वस्तुपरीक्षणं विचारः, तस्य विषये विचर्यमाणानां वाक्यानां टेः प्लुतो भवति । होत्व्यं दीक्षितस्य घा३इ । होतव्यं न होतव्यम् इति विचार्यते । तिष्टेद्यूपा३इ । द्यूपा३इ । यूपे तिष्ठेत्, यूपे अनुप्रहरेत् इति विचार्यते ॥ पूर्वं तु भाषायाम्

pramāṇena vastuparīkṣaṇaṃ vicāraḥ, tasya viṣaye vicaryamāṇānāṃ vākyānāṃ ṭeḥ pluto bhavati / hotvyaṃ dīkṣitasya ghā3i / hotavyaṃ na hotavyam iti vicāryate / tiṣṭedyūpā3i / dyūpā3i / yūpe tiṣṭhet, yūpe anupraharet iti vicāryate // pūrvaṃ tu bhāṣāyām

Sanskrit only: no published translation is held for this verse.

भाषायां विषये विचार्यमाणानां पूर्वम् एव प्लवते । अहिर्नु३ रज्जुर्नु । लोष्ठो नु३ कपोतो नु । प्रयोगापेक्षं पूर्वत्वम् । इह भाषाग्रहणात् पूर्वयोगश् छन्दसि विज्ञायते ॥ प्रतिश्रवणे च

bhāṣāyāṃ viṣaye vicāryamāṇānāṃ pūrvam eva plavate / ahirnu3 rajjurnu / loṣṭho nu3 kapoto nu / prayogāpekṣaṃ pūrvatvam / iha bhāṣāgrahaṇāt pūrvayogaś chandasi vijñāyate // pratiśravaṇe ca

Sanskrit only: no published translation is held for this verse.

अनुदात्तं प्रश्नान्त-अभिपूजितयोः

anudāttaṃ praśnānta-abhipūjitayoḥ

Sanskrit only: no published translation is held for this verse.

अनुदात्तः प्लुतो भवति प्रश्नान्ते, अभिपूजिते च अगम३ः पूर्वा३न् ग्रामा३न् ग्रामा३न् अग्निभूता३इ, पटा३उ ? अग्निभूते, पंटो इत्य् एतयोः प्रश्नान्ते वर्तमानयोण् अनुदात्तः प्लुतो भवति । अगमः इत्य् एवम् आदीनां तु अनन्त्यस्य अपि प्रश्नाख्यानयोः (*८,२।१०५) इति स्वरितः प्लुतो भवति । अभिभूजिते - शोभनः खल्व् असि माणवक३ ॥ चिद् इति च+उपमार्थे प्रयुज्यमाने

anudāttaḥ pluto bhavati praśnānte, abhipūjite ca agama3ḥ pūrvā3n grāmā3n grāmā3n agnibhūtā3i, paṭā3u ? agnibhūte, paṃṭo ity etayoḥ praśnānte vartamānayoṇ anudāttaḥ pluto bhavati / agamaḥ ity evam ādīnāṃ tu anantyasya api praśnākhyānayoḥ (*8,2.105) iti svaritaḥ pluto bhavati / abhibhūjite - śobhanaḥ khalv asi māṇavaka3 // cid iti ca+upamārthe prayujyamāne

Sanskrit only: no published translation is held for this verse.

अनुदात्तम् इति वर्तते । चित् इत्य् एतस्मिन् निपाते उपमार्थे प्रयुज्यमाने वाक्यस्य टेः अनुदात्तः प्लुतो भवति । प्लुतो ऽप्य् अत्र विधीयते, न गुणमात्रम् अग्निचिद् भाया३त् । राजचिद् भाया३त् । अग्निरिव भायात्, राजेव भायात् इत्य् अर्थः । उपमार्थे इति किम् ? कथञ्चिद् आहुः । प्रयुज्यमाने इति किम् ? अग्निर्माणवको भायात् ॥ उपरिस्विद् आसीद् इति च

anudāttam iti vartate / cit ity etasmin nipāte upamārthe prayujyamāne vākyasya ṭeḥ anudāttaḥ pluto bhavati / pluto 'py atra vidhīyate, na guṇamātram agnicid bhāyā3t / rājacid bhāyā3t / agniriva bhāyāt, rājeva bhāyāt ity arthaḥ / upamārthe iti kim ? kathañcid āhuḥ / prayujyamāne iti kim ? agnirmāṇavako bhāyāt // uparisvid āsīd iti ca

Sanskrit only: no published translation is held for this verse.

अनुदात्तम् इति वर्तते । उपरिस्विदासीत् इत्य् एतस्य टेः अनुदत्तः प्लुतो भवति । अंधः स्विदासी३त् उपरि स्विदासी३त् । अधः स्विदासीद् इत्य् अत्र विचार्यमाणानाम् (*८,२।९७) इति उदात्तः प्लुतः, उपरि स्विदासीत् इत्य् अत्र तु अनेन अनुदात्तः ॥ स्वरितम् आम्रेडिते ऽसूया-सम्मति-कोप-कुत्सनेषु

anudāttam iti vartate / uparisvidāsīt ity etasya ṭeḥ anudattaḥ pluto bhavati / aṃdhaḥ svidāsī3t upari svidāsī3t / adhaḥ svidāsīd ity atra vicāryamāṇānām (*8,2.97) iti udāttaḥ plutaḥ, upari svidāsīt ity atra tu anena anudāttaḥ // svaritam āmreḍite 'sūyā-sammati-kopa-kutsaneṣu

Sanskrit only: no published translation is held for this verse.

क्षिया-आशीः-प्रैषेषु तिङ् आकाङ्क्षम्

kṣiyā-āśīḥ-praiṣeṣu tiṅ ākāṅkṣam

Sanskrit only: no published translation is held for this verse.

स्वरितः इति वर्तते । क्षिया आचरभेदः, आशीः प्रार्थनाविशेषः, शब्देन व्यापारणम् प्रैषः, एतेषु गम्यमानेषु तिङन्तम् आकाङ्क्षणं यत् तस्य स्वरितः प्लुतो भवति । आकाङ्क्षति इति आकाङ्क्षम्, तिङन्तम् उत्तरपदम् आकाङ्क्षति इत्य् अर्थः । क्षियायां तावत् - स्वयं रथेन याति३, उपाध्यायं पदातिं गमयति इति । स्वयम् ओदनं ह भुङ्क्ते३, उपाध्यायं सक्तून् पाययति । पूर्वम् अत्र तिङन्तम् उत्तरपदम् आकाङ्क्षति इति साकाङ्क्षं भवति । आशिषि - सुतांश् च लप्सीष्ट३ धनं च तात । छन्दो ऽध्येषीष्ट३ व्याकरणम् च भद्र । प्रैषे - कटं कुरु३ ग्रामं च गच्छ । यवान् लुनीहि३ सक्तूंश् च पिब । आकाङ्क्षम् इति किम् ? दीर्घं ते आयुरस्तु । अग्नीन् विहर ॥ अनन्त्यस्य अपि प्रश्नाख्यानयोः

svaritaḥ iti vartate / kṣiyā ācarabhedaḥ, āśīḥ prārthanāviśeṣaḥ, śabdena vyāpāraṇam praiṣaḥ, eteṣu gamyamāneṣu tiṅantam ākāṅkṣaṇaṃ yat tasya svaritaḥ pluto bhavati / ākāṅkṣati iti ākāṅkṣam, tiṅantam uttarapadam ākāṅkṣati ity arthaḥ / kṣiyāyāṃ tāvat - svayaṃ rathena yāti3, upādhyāyaṃ padātiṃ gamayati iti / svayam odanaṃ ha bhuṅkte3, upādhyāyaṃ saktūn pāyayati / pūrvam atra tiṅantam uttarapadam ākāṅkṣati iti sākāṅkṣaṃ bhavati / āśiṣi - sutāṃś ca lapsīṣṭa3 dhanaṃ ca tāta / chando 'dhyeṣīṣṭa3 vyākaraṇam ca bhadra / praiṣe - kaṭaṃ kuru3 grāmaṃ ca gaccha / yavān lunīhi3 saktūṃś ca piba / ākāṅkṣam iti kim ? dīrghaṃ te āyurastu / agnīn vihara // anantyasya api praśnākhyānayoḥ

Sanskrit only: no published translation is held for this verse.

पदस्य इति वर्तते, स्वरितम् इति च । अनन्त्यस्य अपि अन्त्यस्यापि पदस्य टेः प्लुतो भवति प्रश्ने आख्याने च । अगम३ः पूर्वा३न् ग्रामा३न् अग्निभूता३इ, पटा३उ । सर्वेषम् एव पदानाम् एष स्वरितः प्लुतः । अन्त्यस्य अनुदात्तं प्रश्नान्ताभिपूजितयोः (*८,२।१००) इति अनुदत्तो ऽपि पक्षे भवति । आख्याने - अगम३ः पूर्वा३न् ग्रामा३न् भो३ः ॥ प्लुताव् ऐच इदुतौ

padasya iti vartate, svaritam iti ca / anantyasya api antyasyāpi padasya ṭeḥ pluto bhavati praśne ākhyāne ca / agama3ḥ pūrvā3n grāmā3n agnibhūtā3i, paṭā3u / sarveṣam eva padānām eṣa svaritaḥ plutaḥ / antyasya anudāttaṃ praśnāntābhipūjitayoḥ (*8,2.100) iti anudatto 'pi pakṣe bhavati / ākhyāne - agama3ḥ pūrvā3n grāmā3n bho3ḥ // plutāv aica idutau

Sanskrit only: no published translation is held for this verse.

दूराद्धूतादिषु प्लुतो विहितः । तत्र ऐचः प्लुतप्रसङ्गे तदवयवभूतौ इदुतौ प्लुतौ । ऐ३तिकायन । औ३पमन्यव । अत्र यदेवर्णोवर्णयोः अवर्णस्य च संविभागः, तदा इदुतौ द्विमात्रावनेन प्लुतौ क्रियेते । प्लुतौ इति हि क्रियानिमित्तो ऽयं व्यपदेशः । इदुतौ प्लवेते वृद्धिं गच्छतः इत्य् अर्थः । तावती च सा प्लुतिर् भवति यया तावेचौ त्रिमात्रौ सम्पद्येते । यदा तु अर्धमात्रा अवर्णस्य अध्यर्धमात्रा इवर्णोवर्णयोः, तदा तौ अर्धतृतीयमात्रौ क्रियेते इति । भष्ये तु उक्तम्, इष्यते एव चतुर्मात्रः प्लुतः इति । तत् कथम् ? समप्रविभागपक्षे इदुतोर् अनेन त्रिमात्रः प्लुतो विधीयते ॥ एचो ऽप्रगृह्यस्य अदूराध्दूते पूर्वस्य अर्धस्य अद् उत्तरस्य+इदुतौ

dūrāddhūtādiṣu pluto vihitaḥ / tatra aicaḥ plutaprasaṅge tadavayavabhūtau idutau plutau / ai3tikāyana / au3pamanyava / atra yadevarṇovarṇayoḥ avarṇasya ca saṃvibhāgaḥ, tadā idutau dvimātrāvanena plutau kriyete / plutau iti hi kriyānimitto 'yaṃ vyapadeśaḥ / idutau plavete vṛddhiṃ gacchataḥ ity arthaḥ / tāvatī ca sā plutir bhavati yayā tāvecau trimātrau sampadyete / yadā tu ardhamātrā avarṇasya adhyardhamātrā ivarṇovarṇayoḥ, tadā tau ardhatṛtīyamātrau kriyete iti / bhaṣye tu uktam, iṣyate eva caturmātraḥ plutaḥ iti / tat katham ? samapravibhāgapakṣe idutor anena trimātraḥ pluto vidhīyate // eco 'pragṛhyasya adūrādhdūte pūrvasya ardhasya ad uttarasya+idutau

Sanskrit only: no published translation is held for this verse.

प्रश्नान्ते - अगम३ः पूर्वा३न् ग्रामा३न् अग्निभूता३इ, पटा३उ । अभिपूजिते - भद्रं करोषि माणवक३ अग्निभूता३इ, पटा३उ । विचार्यमाणे - होतव्यं दीक्षितस्य गृहा३इ प्रत्यभिवादे - आयुष्मान् एधि अग्निभूता३इ, पटा३उ । याज्यान्ते - उक्षन्नाय वशान्नाय सोमपृष्ठाय वेधसे । स्तोवैर्विधेमाग्नया३इ । सो ऽयम् आकरः प्लुतो यथाविषयम् उदात्तो ऽनुदात्तः स्वरितो वेदितव्यः । इदुतौ पुनर् उदात्ताव् एव भवतः । परिगणनं किम् ? विष्णुभूते विष्णुभूते३ घातयिष्यामि त्वा । आगच्छ भो माणवक विष्णुभूते । परिगणने च सति अदूराद् धूते इति न वक्तव्यम् । पदान्तग्रहणं तु कर्तव्यम् । इह मा भूत्, भद्रं करोषि गौः इति । अप्रगृह्यस्य इति किम् ? शोभने खलु स्तः खट्वे३ । आमन्त्रिते छन्दसि प्लुतविकरो ऽयं वक्तव्यः । अग्ना३इ पत्नी वा३इ ॥ तयोर् य्-व्-आव् अचि संहितायाम्

praśnānte - agama3ḥ pūrvā3n grāmā3n agnibhūtā3i, paṭā3u / abhipūjite - bhadraṃ karoṣi māṇavaka3 agnibhūtā3i, paṭā3u / vicāryamāṇe - hotavyaṃ dīkṣitasya gṛhā3i pratyabhivāde - āyuṣmān edhi agnibhūtā3i, paṭā3u / yājyānte - ukṣannāya vaśānnāya somapṛṣṭhāya vedhase / stovairvidhemāgnayā3i / so 'yam ākaraḥ pluto yathāviṣayam udātto 'nudāttaḥ svarito veditavyaḥ / idutau punar udāttāv eva bhavataḥ / parigaṇanaṃ kim ? viṣṇubhūte viṣṇubhūte3 ghātayiṣyāmi tvā / āgaccha bho māṇavaka viṣṇubhūte / parigaṇane ca sati adūrād dhūte iti na vaktavyam / padāntagrahaṇaṃ tu kartavyam / iha mā bhūt, bhadraṃ karoṣi gauḥ iti / apragṛhyasya iti kim ? śobhane khalu staḥ khaṭve3 / āmantrite chandasi plutavikaro 'yaṃ vaktavyaḥ / agnā3i patnī vā3i // tayor y-v-āv aci saṃhitāyām

Sanskrit only: no published translation is held for this verse.