नॄन् इत्य् एतस्य नकारस्य रुर्भवति पशब्दे परतः । अकारः उच्चारणार्थः । नॄंः पाहि, नॄंः पाहि । नॄंः प्रीणीहि, नॄंः प्रीणीहि । पे इति किम् ? नॄन् भोजयति । उभयथा इत्य् अपि केचिद् अनुवर्तयन्ति नॄन् पाहि इत्य् अपि यथा स्यात् ॥ स्वतवान् पायौ
nṝn ity etasya nakārasya rurbhavati paśabde parataḥ / akāraḥ uccāraṇārthaḥ / nṝṃḥ pāhi, nṝṃḥ pāhi / nṝṃḥ prīṇīhi, nṝṃḥ prīṇīhi / pe iti kim ? nṝn bhojayati / ubhayathā ity api kecid anuvartayanti nṝn pāhi ity api yathā syāt // svatavān pāyau
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.