भोर् भगोर् अघोर् इत्य् एवं पूर्वस्य अवर्णपूर्वस्य च रोः रेफस्य यकारादेशो भवति अशि परतः । भो अत्र । भगो अत्र । अघो अत्र । अभो ददाति । भगो ददाति । अघो ददाति । अपूर्वस्य - क आस्ते, कयास्ते । ब्राह्मणा ददति । पुरुषा ददति । भोभगोअघोअपूर्वस्य इति किम् ? अग्निरत्र । वायुरत्र । अश्ग्रहणं किम् ? वृक्षः । प्लक्षः । न+एतद् अस्ति, संहितायाम् इत्य् अनुवर्तते । तर्हि अश्ग्रहणम् उत्तरार्थम् । हलि सर्वेषाम् (*८,३।२२) इत्य् अयं लोपः अशि हलि यथा स्यात्, इह मा भूत्, वृक्षं वृश्चति इति वृक्षवृट्, तमाचष्टे यः स वृक्षवयति, वृक्षवयतेर् अप्रत्ययः वृक्षव् करोति । अथ तत्र+एव अश्ग्रहणं कस्मान् न कृतम् ? उत्तरार्थम्, मो ऽनुस्वारः (*८,३।२३) इति हल्मात्रे यथा स्यात् । व्योर् लघुप्रत्यत्नतरः शाकटायनस्य (*८,३।१८), लोपः शाकल्यस्य (*८,३।१९) इत्य् एतच् च वृक्षव् करोति इत्य् अत्र मा भूत् इत्य् अश्ग्रहणम् । रोः इत्य् एव, प्रातरत्र । पुनरत्र ॥ व्-योर् लघुप्रयत्नतरः शाकटायनस्य
bhor bhagor aghor ity evaṃ pūrvasya avarṇapūrvasya ca roḥ rephasya yakārādeśo bhavati aśi parataḥ / bho atra / bhago atra / agho atra / abho dadāti / bhago dadāti / agho dadāti / apūrvasya - ka āste, kayāste / brāhmaṇā dadati / puruṣā dadati / bhobhagoaghoapūrvasya iti kim ? agniratra / vāyuratra / aśgrahaṇaṃ kim ? vṛkṣaḥ / plakṣaḥ / na+etad asti, saṃhitāyām ity anuvartate / tarhi aśgrahaṇam uttarārtham / hali sarveṣām (*8,3.22) ity ayaṃ lopaḥ aśi hali yathā syāt, iha mā bhūt, vṛkṣaṃ vṛścati iti vṛkṣavṛṭ, tamācaṣṭe yaḥ sa vṛkṣavayati, vṛkṣavayater apratyayaḥ vṛkṣav karoti / atha tatra+eva aśgrahaṇaṃ kasmān na kṛtam ? uttarārtham, mo 'nusvāraḥ (*8,3.23) iti halmātre yathā syāt / vyor laghupratyatnataraḥ śākaṭāyanasya (*8,3.18), lopaḥ śākalyasya (*8,3.19) ity etac ca vṛkṣav karoti ity atra mā bhūt ity aśgrahaṇam / roḥ ity eva, prātaratra / punaratra // v-yor laghuprayatnataraḥ śākaṭāyanasya
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.