सेवसित (*८,३।७०) इति वक्ष्यति । प्राक् सितसंशब्दनाद् यान् इत ऊर्ध्वम् अनुक्रमिष्यामः तत्र अड्व्यवाये ऽपि मूर्धन्यो भवति इत्य् एवं तद् वेदितव्यम्, अपिशब्दाद् अनड्व्यवाये ऽपि । वक्ष्यति - उपसर्गात् सुनोतिसुवति इति षत्वम् । अभिषुणोति । परिषुणोति । वषुणोति । निषुणोति । अभ्यषुणोति । पर्यषुणोत् । व्यषुणोत् । न्यषुणोत् ॥ स्वादिष्व् अभ्यासेन च अभ्यासस्य
sevasita (*8,3.70) iti vakṣyati / prāk sitasaṃśabdanād yān ita ūrdhvam anukramiṣyāmaḥ tatra aḍvyavāye 'pi mūrdhanyo bhavati ity evaṃ tad veditavyam, apiśabdād anaḍvyavāye 'pi / vakṣyati - upasargāt sunotisuvati iti ṣatvam / abhiṣuṇoti / pariṣuṇoti / vaṣuṇoti / niṣuṇoti / abhyaṣuṇoti / paryaṣuṇot / vyaṣuṇot / nyaṣuṇot // svādiṣv abhyāsena ca abhyāsasya
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.