अम्ब आम्ब गो भूमि सव्य अप द्वि त्रि कु शेकु शङ्कु अङ्गु मञ्जि पुञ्जि परमे बर्हिस् दिवि अग्नि इत्य् एतेभः उत्तरस्य स्थशब्दसकारस्य मूर्धन्यादेशो भवति । अम्बष्ठः । आम्बष्थः । गोष्ठः । भूमिष्ठः । सव्येष्ठः । अपष्ठः । द्विष्ठः । त्रिष्ठः । कुष्ठः । शेकुष्ठः । शङ्कुष्ठः । अङ्गुष्ठः । मञ्जिष्ठः । पुञ्जिष्ठः । परमेष्ठः । वर्हिष्ठः । दिविष्ठः । अग्निष्ठः । स्थास्थिन्स्थॄणाम् इति वक्तव्यम् । सव्येष्ठाः । परमेष्ठी । सव्येष्ठृसारथिः ॥ सुषामादिषु च
amba āmba go bhūmi savya apa dvi tri ku śeku śaṅku aṅgu mañji puñji parame barhis divi agni ity etebhaḥ uttarasya sthaśabdasakārasya mūrdhanyādeśo bhavati / ambaṣṭhaḥ / āmbaṣthaḥ / goṣṭhaḥ / bhūmiṣṭhaḥ / savyeṣṭhaḥ / apaṣṭhaḥ / dviṣṭhaḥ / triṣṭhaḥ / kuṣṭhaḥ / śekuṣṭhaḥ / śaṅkuṣṭhaḥ / aṅguṣṭhaḥ / mañjiṣṭhaḥ / puñjiṣṭhaḥ / parameṣṭhaḥ / varhiṣṭhaḥ / diviṣṭhaḥ / agniṣṭhaḥ / sthāsthinsthṝṇām iti vaktavyam / savyeṣṭhāḥ / parameṣṭhī / savyeṣṭhṛsārathiḥ // suṣāmādiṣu ca
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.