अनुस्वारस्य ययि परतः प्रस्वर्णः आदेशो भवति । शङ्किता । शङ्कितुम् । शङ्कितव्यम् । उञ्छिता । उञ्छितुम् । उञ्छितव्यम् । कुण्डिता । कुण्डितुम् । कुण्डितव्यम् । नन्दिता । नन्दितुम् । नन्दितव्यम् । कम्पिता । कम्पितुम् । कम्पितव्यम् । इह कुर्वन्ति, वृषन्ति इत्य् अत्र णत्वस्य असिद्धत्वात् पूर्वं नकारस्य अनुस्वारः क्रियते । तस्य अपि परसवर्णेन पुनर् नकार एव भवति । तस्य अपि असिद्धत्वात् पुनर् णत्वं न भवति । एवम् अनुस्वारीभूतो णत्वम् अतिक्रामति इति । ययि इति किम् ? आक्रंस्यते । आचिक्रंस्यते ॥ वा पदान्तस्य
anusvārasya yayi parataḥ prasvarṇaḥ ādeśo bhavati / śaṅkitā / śaṅkitum / śaṅkitavyam / uñchitā / uñchitum / uñchitavyam / kuṇḍitā / kuṇḍitum / kuṇḍitavyam / nanditā / nanditum / nanditavyam / kampitā / kampitum / kampitavyam / iha kurvanti, vṛṣanti ity atra ṇatvasya asiddhatvāt pūrvaṃ nakārasya anusvāraḥ kriyate / tasya api parasavarṇena punar nakāra eva bhavati / tasya api asiddhatvāt punar ṇatvaṃ na bhavati / evam anusvārībhūto ṇatvam atikrāmati iti / yayi iti kim ? ākraṃsyate / ācikraṃsyate // vā padāntasya
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.