सवर्णः इति वर्तते । उदः उत्तरयोः स्था स्तम्भ इत्य् एतयोः पूर्वसवर्णादेशो भवति । उत्थाता । उत्थातुम् । उत्थातव्यम् । स्तम्भेः खल्व् अपि - उत्तम्भिता । उत्तम्भितुम् । उत्तम्भितव्यम् । स्थास्तम्भोः इति किम् ? उत्स्नाता । उदः पूर्वसवर्नत्वे स्कन्देश् छन्दस्य् उपसङ्ख्यानम् । अग्ने दूरम् उत्कन्दः ॥ रोगे च+इति वक्तव्यम् । उत्कन्दको नाम रोगः । कन्दतेर् वा धात्वन्तरस्य+एतद् रूपम् ॥ झयो हो ऽन्यतरस्याम्
savarṇaḥ iti vartate / udaḥ uttarayoḥ sthā stambha ity etayoḥ pūrvasavarṇādeśo bhavati / utthātā / utthātum / utthātavyam / stambheḥ khalv api - uttambhitā / uttambhitum / uttambhitavyam / sthāstambhoḥ iti kim ? utsnātā / udaḥ pūrvasavarnatve skandeś chandasy upasaṅkhyānam / agne dūram utkandaḥ // roge ca+iti vaktavyam / utkandako nāma rogaḥ / kandater vā dhātvantarasya+etad rūpam // jhayo ho 'nyatarasyām
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.