अदन्तं यत् पूर्वपदं तत्स्थान् निमित्ताद् उत्तरस्य अह्नो नकारस्य णकार आदेशो भवति । पूर्वाह्णः । अपराह्णः । अदन्तात् इति किम् ? निरह्नः । दुरह्नः । अह्नो ऽह्न एतेभ्यः (*५,४।८८) इत्य् अह्नादेशः । अह्नः इत्य् अकारान्तग्रहणाद् दीर्घाह्नी शरद् इत्य् अत्र न भवति ॥ वाहनम् आहितात्
adantaṃ yat pūrvapadaṃ tatsthān nimittād uttarasya ahno nakārasya ṇakāra ādeśo bhavati / pūrvāhṇaḥ / aparāhṇaḥ / adantāt iti kim ? nirahnaḥ / durahnaḥ / ahno 'hna etebhyaḥ (*5,4.88) ity ahnādeśaḥ / ahnaḥ ity akārāntagrahaṇād dīrghāhnī śarad ity atra na bhavati // vāhanam āhitāt
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.