पूर्वं सिद्धं पश्चाद् अवतारितम्, पश्चात् सिद्धं पूर्वम् अवतारितम्, साध्यं न सिद्धम्, असाध्यं सिद्धम्, सिद्धम् असिद्धं कृतम्, असिद्धं सिद्धं कृतम्, अल्पसिद्धं बहु कृतम्, बहुसिद्धम् अल्पं कृतम्, अन्यत् सिद्धम् अन्यत् कृतम्, अन्यतः सिद्धम् अन्यतः कृतम्,- देयं न दत्तम्, अदेयं दत्तम्, काले न दत्तम्, अकाले दत्तम्, अल्पं दत्तं बहु कृतम्, बहु दत्तम् अल्पं कृतम्, अन्यद् दत्तम् अन्यत् कृतम्, अन्यतो दत्तम् अन्यतः कृतम्,- प्रविष्टम् अप्रविष्टं कृतम्, अप्रविष्टं प्रविष्टं कृतम्, कुप्यम् अदत्तमूल्यं प्रविष्टम्, दत्तमूल्यं न प्रविष्टं - संक्षेपो विक्षेपः कृतः, विक्षेपः संक्षेपो वा, महाअर्घम् अल्पअर्घेण परिवर्तितम्, अल्पअर्घं महाअर्घेण वा - समारोपितो^अर्घः, प्रत्यवरोपितो वा, संवत्सरो मासविषमः कृतः, मासो दिवसविषमो वा, समागमविषमः, मुखविषमः, कार्मिकविषमः - निर्वर्तनविषमः, पिण्डविषमः, वर्णविषमः, अर्घविषमः, मानविषमः, मापनविषमः, भाजनविषमः - इति हरणौपायाः ॥ -
pūrvaṃ siddhaṃ paścād avatāritam, paścāt siddhaṃ pūrvam avatāritam, sādhyaṃ na siddham, asādhyaṃ siddham, siddham asiddhaṃ kṛtam, asiddhaṃ siddhaṃ kṛtam, alpa.siddhaṃ bahu kṛtam, bahu.siddham alpaṃ kṛtam, anyat siddham anyat kṛtam, anyataḥ siddham anyataḥ kṛtam,- deyaṃ na dattam, adeyaṃ dattam, kāle na dattam, akāle dattam, alpaṃ dattaṃ bahu kṛtam, bahu dattam alpaṃ kṛtam, anyad dattam anyat kṛtam, anyato dattam anyataḥ kṛtam,- praviṣṭam apraviṣṭaṃ kṛtam, apraviṣṭaṃ praviṣṭaṃ kṛtam, kupyam adatta.mūlyaṃ praviṣṭam, datta.mūlyaṃ na praviṣṭaṃ - saṃkṣepo vikṣepaḥ kṛtaḥ, vikṣepaḥ saṃkṣepo vā, mahā.argham alpa.argheṇa parivartitam, alpa.arghaṃ mahā.argheṇa vā - samāropito^arghaḥ, pratyavaropito vā, saṃvatsaro māsa.viṣamaḥ kṛtaḥ, māso divasa.viṣamo vā, samāgama.viṣamaḥ, mukha.viṣamaḥ, kārmika.viṣamaḥ - nirvartana.viṣamaḥ, piṇḍa.viṣamaḥ, varṇa.viṣamaḥ, argha.viṣamaḥ, māna.viṣamaḥ, māpana.viṣamaḥ, bhājana.viṣamaḥ - iti haraṇa.upāyāḥ // -
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.