Library·Kesava: Kausikapaddhati [KKp]·24

Kesava: Kausikapaddhati [KKp] 24

KKp 24

सलिलगणः (कौश्स् १८।२५) । ऽब्रह्म जज्ञानम्ऽ, ऽअम्बयो यन्तिऽ गणः (कौश्स् १९।१) । ऽसं सं स्रवन्तुऽ (कौश्स् १९।४) ऽशेरभकऽ (कौश्स् १९।९) । ऽएह यन्तुऽ गणः (कौश्स् १९।१४) । ऽआयमगन्ऽ, ऽअयं प्रतिसरःऽ, ऽअयं मे वरणःऽ, ऽअरातीयोःऽ इति (कौश्स् १९।२२) । ऽउत्तमो असिऽ (कौश्स् १९।२६) । ऽअक्षितास्तेऽ (कौश्स् १९।२७) । ऽप्रथमा ह व्युवासऽ (कौश्स् १९।२८) । ऽसीरा युञ्जन्तिऽ (कौश्स् २०।१) । ऽपयस्वतीःऽ (कौश्स् २१।१-६) । ऽअयं नो नभसःऽ (कौश्स् २१।७) । ऽआ गावःऽ (कौश्स् २१।८) । ऽप्रजावतीःऽ (कौश्स् २१।१०) । ऽसूर्यस्य रश्मीन्ऽ (कौश्स् २१।११) । ऽयस्ते शोकायऽ (कौश्स् २१।१२) । ऽऋधङ्मन्त्रःऽ, ऽतदिदासऽ इति (कौश्स् २२।१) । ऽममाग्ने वर्चःऽ (कौश्स् २२।१४) । ऽयजूंषि यज्ञेऽ (कौश्स् २३।१) । ऽऊर्ध्वा अस्यऽ (कौश्स् २३।७) । ऽत्वष्टा मेऽ (कौश्स् २३।९) । ऽवायुरेनाःऽ (कौश्स् २३।१२) । ऽयस्येदमा रजःऽ (कौश्स् २३।१७) । ऽउच्छ्रयस्वऽ (कौश्स् २४।१) । ऽअभि त्यम्ऽ (कौश्स् २४।३) । ऽतां सवितुःऽ (कौश्स् २४।७) । ऽदिव्यं सुपर्णम्ऽ (कौश्स् २४।९) । ऽऊर्जं बिभ्रत्ऽ (कौश्स् २४।११) । ऽइन्द्रस्य कुक्षिःऽ, ऽसाहस्रःऽ (कौश्स् २४।१९) । ऽसत्यं बृहत्ऽ (कौश्स् २४।२४) । ऽयास्ते शिवाःऽ (कौश्स् २४।२९) । ऽयस्यां सदःऽ (कौश्स् २४।३७) । ऽयं त्वा पृषतीःऽ (कौश्स् २४।४२) इत्येते मन्त्राः पुष्टिकर्ममध्ये पठिताः । एते मन्त्राः पौष्टिकाः । पौष्टिकानां सर्वेषां मन्त्राणां हविरुपधानम् उपस्थानं वा करोति विकल्पेन पुष्टिकर्मणामुपधानोपस्थानम् (कौश्स् २४।४५) इति वचनात् । पुष्टिकर्मणाम् उपधानम् उपस्थानं वा करोति पुष्टिकामः । उपदधीतेत्यनादेशे आज्यं समित्पुरोडाशपयओदनपायसपशुव्रीहियवतिलाः धानाः करम्भशष्कुल्यः एतानि हवींषि जानीयात् । यत्र यत्र होमः कर्तव्यस्तत्र तत्र सर्वत्रोपधानं पौष्टिकानां मन्त्राणां कर्तव्यम् । उपस्थानं वा । गृहे बहिर्वा वृक्षार्थं पुरुषार्थं पश्वर्थं हस्त्यर्थम् अश्वार्थं गोअर्थं महिष्यर्थम् अजाविकादिगृहपशुधनधान्यमृगार्थम् । ग्रामे नगरे क्षेत्रे बहिर्वा । यत्र नित्यनैमित्तिककाम्यहोमस्तत्र सर्वत्र पौष्टिकहोमः कार्यः । नास्ति सङ्ख्याजातिनियमः पुष्टिकर्मणाम् । यत्रान्यप्रयोजनार्थं होमः न तत्र पौष्टिकहोमः कार्यः । सर्वत्र पुष्ट्यर्थप्रयोजनम्। यत्रयत्र च सङ्कीर्णमात्मानं मन्यते द्विजः। तत्रतत्र तिलैर्होमो नैरृतिर्न विधीयते ॥ न तत्र निरृतिकर्म कुर्यादित्यर्थः । पुष्टिकर्मणामुपधानोपस्थानमित्यर्थः । सलिलैः सर्वकामः । आज्यादि जुहोति सलिलगणेन । तन्त्रं यथासम्भवं योज्यम् । सर्वफलकाम इत्यर्थः । सलिलगणेनोपधानं वा कुर्यात् । उपस्थानं वा कुर्यात् सर्वकामः । पुष्टिशब्देन द्रव्यादिलाभो द्रव्यादिवृद्धिश्च पुष्टिशब्देनोच्यते । शरीरपुष्टिश्च धनादिपुष्टिश्च भवति आयुःपुष्टिश्च । अथ सलिलगण उच्यते - ऽआपो हि ष्ठाःऽ, ऽशन्नो देवीःऽ, ऽब्रह्म जज्ञानम्ऽ ऽअनाप्ता येऽ, ऽसहस्रधार एवऽ (५।६।१-३), ऽअस्य वामस्यऽ, ऽयो रोहितो वृषभऽ द्व्यर्चं, ऽउदस्य केतवःऽ, ऽमूर्धाहम्ऽ, ऽविषासहिम्ऽ इति सलिलगणः । अस्य गणस्य वा उपधानं आज्यादि वा करोति अथवा उपस्थानम् । पुत्रपशुधनधान्यरत्नगृहपदातिअश्वहस्तिगोमहिषी- अविवस्त्रजातद्रव्यादिहिरण्यभोजन-आरामदेवपूजादि-उच्चाटनवशीकरणस्तम्भनजम्भनादि सर्वं सलिलगणेन सिध्यति । उपधानोपस्थानं करोति सर्वफलकामः पुत्रपशुधान्यादिसर्वकामः । समाप्तानि पौष्टिकानि । तत्र श्लोकः - पूर्वं निरृतिकर्माणि सर्वपापापनुत्तये। पौष्टिकानि ततः पश्चात् तृतीये संहिताविधौ ॥ सप्तमी कण्डिका

salilagaṇaḥ (KauśS 18.25) | 'brahma jajñānam', 'ambayo yanti' gaṇaḥ (KauśS 19.1) | 'saṃ saṃ sravantu' (KauśS 19.4) 'śerabhaka' (KauśS 19.9) | 'eha yantu' gaṇaḥ (KauśS 19.14) | 'āyamagan', 'ayaṃ pratisaraḥ', 'ayaṃ me varaṇaḥ', 'arātīyoḥ' iti (KauśS 19.22) | 'uttamo asi' (KauśS 19.26) | 'akṣitāste' (KauśS 19.27) | 'prathamā ha vyuvāsa' (KauśS 19.28) | 'sīrā yuñjanti' (KauśS 20.1) | 'payasvatīḥ' (KauśS 21.1-6) | 'ayaṃ no nabhasaḥ' (KauśS 21.7) | 'ā gāvaḥ' (KauśS 21.8) | 'prajāvatīḥ' (KauśS 21.10) | 'sūryasya raśmīn' (KauśS 21.11) | 'yaste śokāya' (KauśS 21.12) | 'ṛdhaṅmantraḥ', 'tadidāsa' iti (KauśS 22.1) | 'mamāgne varcaḥ' (KauśS 22.14) | 'yajūṃṣi yajñe' (KauśS 23.1) | 'ūrdhvā asya' (KauśS 23.7) | 'tvaṣṭā me' (KauśS 23.9) | 'vāyurenāḥ' (KauśS 23.12) | 'yasyedamā rajaḥ' (KauśS 23.17) | 'ucchrayasva' (KauśS 24.1) | 'abhi tyam' (KauśS 24.3) | 'tāṃ savituḥ' (KauśS 24.7) | 'divyaṃ suparṇam' (KauśS 24.9) | 'ūrjaṃ bibhrat' (KauśS 24.11) | 'indrasya kukṣiḥ', 'sāhasraḥ' (KauśS 24.19) | 'satyaṃ bṛhat' (KauśS 24.24) | 'yāste śivāḥ' (KauśS 24.29) | 'yasyāṃ sadaḥ' (KauśS 24.37) | 'yaṃ tvā pṛṣatīḥ' (KauśS 24.42) ityete mantrāḥ puṣṭikarmamadhye paṭhitāḥ | ete mantrāḥ pauṣṭikāḥ | pauṣṭikānāṃ sarveṣāṃ mantrāṇāṃ havirupadhānam upasthānaṃ vā karoti vikalpena puṣṭikarmaṇāmupadhānopasthānam (KauśS 24.45) iti vacanāt | puṣṭikarmaṇām upadhānam upasthānaṃ vā karoti puṣṭikāmaḥ | upadadhītetyanādeśe ājyaṃ samitpuroḍāśapayaodanapāyasapaśuvrīhiyavatilāḥ dhānāḥ karambhaśaṣkulyaḥ etāni havīṃṣi jānīyāt | yatra yatra homaḥ kartavyastatra tatra sarvatropadhānaṃ pauṣṭikānāṃ mantrāṇāṃ kartavyam | upasthānaṃ vā | gṛhe bahirvā vṛkṣārthaṃ puruṣārthaṃ paśvarthaṃ hastyartham aśvārthaṃ goarthaṃ mahiṣyartham ajāvikādigṛhapaśudhanadhānyamṛgārtham | grāme nagare kṣetre bahirvā | yatra nityanaimittikakāmyahomastatra sarvatra pauṣṭikahomaḥ kāryaḥ | nāsti saṅkhyājātiniyamaḥ puṣṭikarmaṇām | yatrānyaprayojanārthaṃ homaḥ na tatra pauṣṭikahomaḥ kāryaḥ | sarvatra puṣṭyarthaprayojanam. yatrayatra ca saṅkīrṇamātmānaṃ manyate dvijaḥ. tatratatra tilairhomo nairṛtirna vidhīyate || na tatra nirṛtikarma kuryādityarthaḥ | puṣṭikarmaṇāmupadhānopasthānamityarthaḥ | salilaiḥ sarvakāmaḥ | ājyādi juhoti salilagaṇena | tantraṃ yathāsambhavaṃ yojyam | sarvaphalakāma ityarthaḥ | salilagaṇenopadhānaṃ vā kuryāt | upasthānaṃ vā kuryāt sarvakāmaḥ | puṣṭiśabdena dravyādilābho dravyādivṛddhiśca puṣṭiśabdenocyate | śarīrapuṣṭiśca dhanādipuṣṭiśca bhavati āyuḥpuṣṭiśca | atha salilagaṇa ucyate - 'āpo hi ṣṭhāḥ', 'śanno devīḥ', 'brahma jajñānam' 'anāptā ye', 'sahasradhāra eva' (5.6.1-3), 'asya vāmasya', 'yo rohito vṛṣabha' dvyarcaṃ, 'udasya ketavaḥ', 'mūrdhāham', 'viṣāsahim' iti salilagaṇaḥ | asya gaṇasya vā upadhānaṃ ājyādi vā karoti athavā upasthānam | putrapaśudhanadhānyaratnagṛhapadātiaśvahastigomahiṣī- avivastrajātadravyādihiraṇyabhojana-ārāmadevapūjādi-uccāṭanavaśīkaraṇastambhanajambhanādi sarvaṃ salilagaṇena sidhyati | upadhānopasthānaṃ karoti sarvaphalakāmaḥ putrapaśudhānyādisarvakāmaḥ | samāptāni pauṣṭikāni | tatra ślokaḥ - pūrvaṃ nirṛtikarmāṇi sarvapāpāpanuttaye. pauṣṭikāni tataḥ paścāt tṛtīye saṃhitāvidhau || saptamī kaṇḍikā

Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.

Sanskrit only: no published translation is held for this verse.

Permanent address: hreem.cc/library/KKp/24

Cite as: Kesava: Kausikapaddhati [KKp] 24, in HREEM (hreem.cc/library/KKp/24), after GRETIL, Kesava: Kausikapaddhati Based on the ed.: Keśava's Kauśikapaddhati on the Kauśikasūtra of the….

Edition, numbering and licence

GRETIL 1_veda/5_vedang/2_grhya/keskaupu.htm — Kesava: Kausikapaddhati Based on the ed.: Keśava's Kauśikapaddhati on the Kauśikasūtra of the Atharvaveda. Critically edited by V.P. Limaye, R.N. Dandekar, C.G. Kashikar, V.V. Bhide, S.S. Bahulkar, Pune: Tilak Maharashtra Vidyapeeth 1982. Input in LEAP by Keta

GRETIL (SUB Göttingen), CC BY-NC-SA 4.0 — non-commercial use with attribution; the Companion is kept free while this corpus is held. Devanagari generated mechanically from GRETIL's IAST.

More about this text