* अस्मान् साधु विचिन्त्य संयमधनान् उच्चैः कुलं चात्मनस् * त्वय्य् अस्याः कथम् अप्य् बान्धवकृतां स्नेहप्रवृत्तिं च ताम् । * सामान्यप्रतिपत्तिपूर्वकम् इयं दारेषु दृश्या त्वया * भाग्यायत्तम् अतः परं न खलु तद्वाच्यं वधूबन्धुभिः
* asmān sādhu vicintya saṃyamadhanān uccaiḥ kulaṃ cātmanas * tvayy asyāḥ katham apy bāndhavakṛtāṃ snehapravṛttiṃ ca tām / * sāmānyapratipattipūrvakam iyaṃ dāreṣu dṛśyā tvayā * bhāgyāyattam ataḥ paraṃ na khalu tadvācyaṃ vadhūbandhubhiḥ
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.