आशाप्रतीक्षे संगतं सूनृतां च इष्टापूर्ते पुत्रपशूंश् च सर्वान् । एतद् वृङ्क्ते पुरुषस्याल्पमेधसो यस्यानश्नन् वसति ब्राह्मणो गृहे ॥ आशाप्रतीक्ष अनिर्ज्ञातप्राप्येष्टार्थप्रार्थना आशा, निर्ज्ञातप्राप्यार्थप्रतीक्षणं प्रतीक्षा, त आशाप्रतीक्षे । सङ्गतं सत्संयोगजं फलम्, सूनृतां च सूनृता हि प्रिया वाक्तन्निमित्तजं च । इष्टापूर्ते इष्टं यागजं फलम्, पूर्तम् आरामादि क्रियाजं फलम् । पुत्रपशूंश् च पुत्रांश् च सर्वान् एतत् सर्वं यथोक्तं वृङ्क्ते वर्जयति विनाशयतीत्य् एतत्, पुरुषस्याल्पमेधसो ऽल्पप्रज्ञस्य । यस्यानश्नन्नभुञ्जानो ब्राह्मणो गृहे वसति । तस्माद् अनुपेक्षणीयः सर्वावस्थास्व् अप्य् अतिथिर् इत्य् अर्थः ॥ कउभ्_१।८।१,१।८ ॥
āśāpratīkṣe saṃgataṃ sūnṛtāṃ ca iṣṭāpūrte putrapaśūṃś ca sarvān / etad vṛṅkte puruṣasyālpamedhaso yasyānaśnan vasati brāhmaṇo gṛhe // āśāpratīkṣa anirjñātaprāpyeṣṭārthaprārthanā āśā, nirjñātaprāpyārthapratīkṣaṇaṃ pratīkṣā, ta āśāpratīkṣe / saṅgataṃ satsaṃyogajaṃ phalam, sūnṛtāṃ ca sūnṛtā hi priyā vāktannimittajaṃ ca / iṣṭāpūrte iṣṭaṃ yāgajaṃ phalam, pūrtam ārāmādi kriyājaṃ phalam / putrapaśūṃś ca putrāṃś ca sarvān etat sarvaṃ yathoktaṃ vṛṅkte varjayati vināśayatīty etat, puruṣasyālpamedhaso 'lpaprajñasya / yasyānaśnannabhuñjāno brāhmaṇo gṛhe vasati / tasmād anupekṣaṇīyaḥ sarvāvasthāsv apy atithir ity arthaḥ // KaUBh_1.8/1,1.8 //
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.