विकल्पानाम् अन्:अन्तत्वाद् आनन्त्याच् च कौशल-विधेर् अभ्यासस्य च सर्व-गामित्वाद् रागात्मकत्वाच् छेद्यस्य प्रकारान् को ऽभिसमीक्षितुम् अर्हतीत्य् आचार्याः॥२।४।२५ भवति हि रागे ऽपि चित्रापेक्षा। वैचित्र्याच् च परस्परं रागो जनयितव्यः। वैचक्षण्य-युक्ताश् च गणिकास् तत्-कामिनश् च परस्परं प्रार्थनीया भवन्ति। धनुर्-वेदादिष्व् अपि हि शस्त्र-कर्म-शास्त्रेषु वैचित्र्यम् एवापेक्ष्यते किं पुनर् इहेति वात्स्यायनः।
vikalpānām an:antatvād ānantyāc ca kauśala-vidher abhyāsasya ca sarva-gāmitvād rāgātmakatvāc chedyasya prakārān ko 'bhisamīkṣitum arhatīty ācāryāḥ..2.4.25 bhavati hi rāge 'pi citrāpekṣā. vaicitryāc ca parasparaṃ rāgo janayitavyaḥ. vaicakṣaṇya-yuktāś ca gaṇikās tat-kāminaś ca parasparaṃ prārthanīyā bhavanti. dhanur-vedādiṣv api hi śastra-karma-śāstreṣu vaicitryam evāpekṣyate kiṃ punar iheti vātsyāyanaḥ.
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.