यदि स्फोटति द्वेष्यो मृतो जानीयात् । अथवा एतत्सर्वं प्रतिकृतेः कर्तव्यमिति ॥ अभिचारतन्त्रमुच्यते - दक्षिणामुखः प्रयुङ्क्ते । ऽअव्यसश्चऽ (१९।६९।१) बर्हिर्लवनम्, वेदिः, उत्तरवेदिः, चाण्डालाग्निप्रणयनम्, अग्निप्रतिष्ठापनम्, ऽममाग्ने वर्चःऽ (५।३।१) इति व्रतग्रहणम्, इध्मप्रोक्षणम्, इध्मोपसमाधानम्, ब्रह्मासनं पश्चिमतः, ब्रह्मस्थापनम्, शरमयं बर्हिःप्रोक्षणम्, प्रसव्यं स्तरणम्, स्तीर्णप्रोक्षणम् प्रसव्यमात्मासनसंस्कारः, उदपात्रस्थापनम्, लोहमयस्रुवग्रहणम्, शाकपात्रेणेमामिङ्गिडविषमिश्राज्यं संस्कृत्य ग्रहग्रहणे विशेषः । ऽमहुमदस्य त्वा प्राणाय गृह्णेऽ इत्यादि पञ्चमग्रहग्रहणम् । ऽअग्ने यत्ते तपःऽ (२।१९-२३) इति पुरस्ताद्धोमाः । पञ्च सूक्तानि । ऽतथा तदग्ने कृणु जातवेदःऽ (५।२९।२-३) इति ऋचावाज्यभागौ । ततोऽभ्यातानान्तं पूर्वतन्त्रम् । आभिचारिके तन्त्रे पूर्वतन्त्रम्। अथोत्तरतन्त्रमुच्यते-स्विष्टकृदाद्युत्तरतन्त्रम् । सर्वत्राभिचारकर्मणि अभ्यातानानि हुत्वा ततः स्विष्टकृदाद्युत्तरतन्त्रम् । विष्णुक्रमा द्वादश । ऽनिरमुं नुदेऽ (६।७५) इति संस्थितहोमाः । उदपात्रे सम्पाता न भवन्ति । अभिचारतन्त्रे सर्वत्रास्मिन् - पश्चादग्नेः कर्ष्वां कूद्युपस्तीर्णायां द्वादशरात्रमपर्यावर्तमानः शयीत
yadi sphoṭati dveṣyo mṛto jānīyāt | athavā etatsarvaṃ pratikṛteḥ kartavyamiti || abhicāratantramucyate - dakṣiṇāmukhaḥ prayuṅkte | 'avyasaśca' (19.69.1) barhirlavanam, vediḥ, uttaravediḥ, cāṇḍālāgnipraṇayanam, agnipratiṣṭhāpanam, 'mamāgne varcaḥ' (5.3.1) iti vratagrahaṇam, idhmaprokṣaṇam, idhmopasamādhānam, brahmāsanaṃ paścimataḥ, brahmasthāpanam, śaramayaṃ barhiḥprokṣaṇam, prasavyaṃ staraṇam, stīrṇaprokṣaṇam prasavyamātmāsanasaṃskāraḥ, udapātrasthāpanam, lohamayasruvagrahaṇam, śākapātreṇemāmiṅgiḍaviṣamiśrājyaṃ saṃskṛtya grahagrahaṇe viśeṣaḥ | 'mahumadasya tvā prāṇāya gṛhṇe' ityādi pañcamagrahagrahaṇam | 'agne yatte tapaḥ' (2.19-23) iti purastāddhomāḥ | pañca sūktāni | 'tathā tadagne kṛṇu jātavedaḥ' (5.29.2-3) iti ṛcāvājyabhāgau | tato'bhyātānāntaṃ pūrvatantram | ābhicārike tantre pūrvatantram. athottaratantramucyate-sviṣṭakṛdādyuttaratantram | sarvatrābhicārakarmaṇi abhyātānāni hutvā tataḥ sviṣṭakṛdādyuttaratantram | viṣṇukramā dvādaśa | 'niramuṃ nude' (6.75) iti saṃsthitahomāḥ | udapātre sampātā na bhavanti | abhicāratantre sarvatrāsmin - paścādagneḥ karṣvāṃ kūdyupastīrṇāyāṃ dvādaśarātramaparyāvartamānaḥ śayīta
Sanskrit only: no published translation is held for this verse.