षष्ठे मासि प्राशनं कुर्यादिति पैठीनसिः । सर्वस्यां स्मृतौ पञ्चमे कुमार्या इति । प्रथमं ऽभूमे मातःऽ (१२।१।६३) इत्यृचा भूम्यामुपवेश्य ततः ऽउद्वयं तमसस्परिऽ (७।५३।७) इत्यादित्यं दर्शयित्वा ततोऽन्नप्राशनं कुर्यात् पुण्याहान्ते । ततः ऽशिवौ ते स्तां व्रीहियवौऽ इति द्वाभ्यामृग्भ्यां व्रीहियवौ पिष्ट्वाभिमन्त्र्य कुमारं प्राशयति । आज्यतन्त्रे अन्नानि च सर्वाणि । ततः स्रुवं पुस्तकं ददाति । ऽशिवे ते स्ताम्ऽ (८।२।१४-१५) इति द्वाभ्यां ऽपार्थिवस्यऽ (२।२९।१-२) इति द्वे ऽमा प्र गामऽ (१३।१।५९-६०) इति द्वे एताभिः ऋग्भिर्व्रीह्यादि मूर्ध्नि ददाति । ऽद्यावापृथिवीभ्यां त्वा परिददामिऽ । ऽशिवौ ते स्ताम्ऽ इत्यादि । ऽव्रीहियवाभ्यां त्वा परिददामिऽ ॥ [अह्ने च त्वा (८।२।२०) इत्यहोरात्राभ्यां परिददाति
ṣaṣṭhe māsi prāśanaṃ kuryāditi paiṭhīnasiḥ | sarvasyāṃ smṛtau pañcame kumāryā iti | prathamaṃ 'bhūme mātaḥ' (12.1.63) ityṛcā bhūmyāmupaveśya tataḥ 'udvayaṃ tamasaspari' (7.53.7) ityādityaṃ darśayitvā tato'nnaprāśanaṃ kuryāt puṇyāhānte | tataḥ 'śivau te stāṃ vrīhiyavau' iti dvābhyāmṛgbhyāṃ vrīhiyavau piṣṭvābhimantrya kumāraṃ prāśayati | ājyatantre annāni ca sarvāṇi | tataḥ sruvaṃ pustakaṃ dadāti | 'śive te stām' (8.2.14-15) iti dvābhyāṃ 'pārthivasya' (2.29.1-2) iti dve 'mā pra gāma' (13.1.59-60) iti dve etābhiḥ ṛgbhirvrīhyādi mūrdhni dadāti | 'dyāvāpṛthivībhyāṃ tvā paridadāmi' | 'śivau te stām' ityādi | 'vrīhiyavābhyāṃ tvā paridadāmi' || [ahne ca tvā (8.2.20) ityahorātrābhyāṃ paridadāti
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.