अप्रतीतैरेव गुणैर्यत् सादृश्यं तदप्रतीतगुणासादृश्यमसादृश्यम् । यथा ---- ग्रथ्नामि काव्यशशिनं विततार्थरश्मिम् । काव्यस्य शशिना सह यत् सादृश्यं तदप्रतीतैरेव गुणैरिति । ननु च अर्थानां रश्मितुल्यत्वे सति काव्यस्य शशितुल्यत्वं भविष्यति । नैवम् । काव्यस्य शशितुल्यत्वे सिद्धेऽर्थानां रश्मितुल्यत्वं सिद्ध्यति । न ह्यर्थानां च कश्चित् सादृश्यहेतुः प्रतीतो गुणोऽस्ति । तदेवमितरेतराश्रयदोषो दुरुत्तर इति
apratītaireva guṇairyat sādṛśyaṃ tadapratītaguṇāsādṛśyamasādṛśyam / yathā ---- grathnāmi kāvyaśaśinaṃ vitatārtharaśmim / kāvyasya śaśinā saha yat sādṛśyaṃ tadapratītaireva guṇairiti / nanu ca arthānāṃ raśmitulyatve sati kāvyasya śaśitulyatvaṃ bhaviṣyati / naivam / kāvyasya śaśitulyatve siddhe'rthānāṃ raśmitulyatvaṃ siddhyati / na hyarthānāṃ ca kaścit sādṛśyahetuḥ pratīto guṇo'sti / tadevamitaretarāśrayadoṣo duruttara iti
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.