स्तनादीनां द्वित्वाविष्टा द्वित्वाध्यासिता जातिः प्रायेण बाहुल्येने ति । यथा ---- स्त्रीणां चक्षुः इति । अथ कथं द्वित्वाविष्टत्वं जातेः ? । तद्धि द्रव्ये , न जातौ । अतद्रूपत्वाज्जातेः । न दोषः ; तदतद्रूपत्वाज्जातेः । कथं तदतद्रूपत्वं जातेः ? । तद्धि जैमिनीया जानन्ति । वयं तु लक्ष्यसिद्धौ सिद्धपरमतामुवादिनः । न चैवमतिप्रसङ्गः । लक्ष्यानुसारित्वान्न्यायस्येति । एवमन्यापि व्यवस्थोह्या
stanādīnāṃ dvitvāviṣṭā dvitvādhyāsitā jātiḥ prāyeṇa bāhulyene ti / yathā ---- strīṇāṃ cakṣuḥ iti / atha kathaṃ dvitvāviṣṭatvaṃ jāteḥ ? / taddhi dravye , na jātau / atadrūpatvājjāteḥ / na doṣaḥ ; tadatadrūpatvājjāteḥ / kathaṃ tadatadrūpatvaṃ jāteḥ ? / taddhi jaiminīyā jānanti / vayaṃ tu lakṣyasiddhau siddhaparamatāmuvādinaḥ / na caivamatiprasaṅgaḥ / lakṣyānusāritvānnyāyasyeti / evamanyāpi vyavasthohyā
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.