लभेर्गत्यर्थत्वाण्णिच्यणौ कर्तुः कर्मत्वाकर्मत्वे ॥ व्कल् ५,२।९ [*व्कल् ५,२।८] ॥ अस्त्ययं लभिर्यः प्राप्त्युपसर्जनां गतिमाह ---- अस्ति च गत्युपसर्जनां प्राप्तिमाहेति । अत्र पूर्वस्मिन्पक्षे गत्यर्थत्वाल्लभेर्णिच्यणौ यः कर्ता तस्य गत्यादिसूत्रेण कर्मसंज्ञा । यथा ---- दीर्घिकासु कुमुदानि विकासं लम्भयन्ति शिशिराः शशिभासः । द्वितीयपक्षे तु गत्यर्थात्वाभावाल्लभेर्णिच्यणौ कर्तुर्न कर्मसंज्ञा । यथा ---- सितं सितिम्ना सुतरां मुनेर्वपुर्विसारिभिः सौधमिवाथ लम्भयन् । द्विजावलिव्याजनिशाकरांशुभिः शुचिस्मितां वाचमवोचदच्युतः ॥
labhergatyarthatvāṇṇicyaṇau kartuḥ karmatvākarmatve // VKal 5,2.9 [*VKal 5,2.8] // astyayaṃ labhiryaḥ prāptyupasarjanāṃ gatimāha ---- asti ca gatyupasarjanāṃ prāptimāheti / atra pūrvasminpakṣe gatyarthatvāllabherṇicyaṇau yaḥ kartā tasya gatyādisūtreṇa karmasaṃjñā / yathā ---- dīrghikāsu kumudāni vikāsaṃ lambhayanti śiśirāḥ śaśibhāsaḥ / dvitīyapakṣe tu gatyarthātvābhāvāllabherṇicyaṇau karturna karmasaṃjñā / yathā ---- sitaṃ sitimnā sutarāṃ munervapurvisāribhiḥ saudhamivātha lambhayan / dvijāvalivyājaniśākarāṃśubhiḥ śucismitāṃ vācamavocadacyutaḥ //
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.