Library·Vamana: Kavyalamkarasutra, with Vrtti·13

Vamana: Kavyalamkarasutra, with Vrtti 13

रुदौ इत्यत्र प्रयोगे एकशेषो७न्वेष्योऽन्वेषणीयः । रुद्रश्च रुद्राणी चेति पुमान्स्त्रिया(पा १,२।६७) इत्येकशेषः । स च न प्राप्नोति । तत्र हि , तल्लक्षणश्चेदेव विशेषः इत्यनुवर्तत इति तत्रैवकारकरणात् स्त्रीपुंसकृत एव विशेषो भवतीति व्यवस्थितम् । अत्र तु पुंयोगादाख्यायाम्(पा ४,१।४८) इति विशेषान्तरमप्यस्तीति । एतेन इन्द्रौ भवौ शर्वौ इत्यादयः प्रयोगाः प्रत्युक्ताः

rudau ityatra prayoge ekaśeṣo7nveṣyo'nveṣaṇīyaḥ / rudraśca rudrāṇī ceti pumānstriyā(Pā 1,2.67) ityekaśeṣaḥ / sa ca na prāpnoti / tatra hi , tallakṣaṇaścedeva viśeṣaḥ ityanuvartata iti tatraivakārakaraṇāt strīpuṃsakṛta eva viśeṣo bhavatīti vyavasthitam / atra tu puṃyogādākhyāyām(Pā 4,1.48) iti viśeṣāntaramapyastīti / etena indrau bhavau śarvau ityādayaḥ prayogāḥ pratyuktāḥ

Sanskrit only: no published translation is held for this verse.

मिलति विक्लवति क्षपयतीत्यादयः प्रयोगाः । तत्र , मिलि-क्लबि-क्षपि-प्रभृतीनां कथं धातुत्वम् ? । गणपाठाद् गुणपठितानामेव धातुसंज्ञाविधानात् । त्रत्राह ---- धातुगणस्यापरिसमाप्तेः । वर्धते धातुगणः इति हि शब्दविद आचक्षते । तेनैषां गणपाठोऽनुमतः । शिष्टप्रयोगादिति

milati viklavati kṣapayatītyādayaḥ prayogāḥ / tatra , mili-klabi-kṣapi-prabhṛtīnāṃ kathaṃ dhātutvam ? / gaṇapāṭhād guṇapaṭhitānāmeva dhātusaṃjñāvidhānāt / tratrāha ---- dhātugaṇasyāparisamāpteḥ / vardhate dhātugaṇaḥ iti hi śabdavida ācakṣate / tenaiṣāṃ gaṇapāṭho'numataḥ / śiṣṭaprayogāditi

Sanskrit only: no published translation is held for this verse.

वलेरनुदात्तेत्त्वादात्मनेपदे यत् तदनित्यं दृश्यते ---- लज्जालोलं वलन्ती इत्यादिओरयोगेषु । तत् लथमित्याह ---- ज्ञायकात्

valeranudāttettvādātmanepade yat tadanityaṃ dṛśyate ---- lajjālolaṃ valantī ityādiorayogeṣu / tat lathamityāha ---- jñāyakāt

Sanskrit only: no published translation is held for this verse.

किं पुनस्तज्ज्ञापकमत आह ---- चक्षिङो द्वयनुबन्धकरणम् ॥ व्कल् ५,२।४ ॥ चक्षिङ् इकारेणैवानुदात्तेन सिद्धमात्मनेपदस्यानित्यत्वज्ञापनार्थम् । एतेन , वेदि-भर्त्सि-तर्जि-प्रभृतयो व्याख्याताः । आवेदयति-भर्त्सयति- तर्जयतीत्यादीनां प्रयोगाणां दर्शनात् । अन्यत्राप्यनुदात्तनिबन्धनस्यात्मनेपदस्यानित्यत्यं ज्ञापकेन द्रष्टव्यमिति

kiṃ punastajjñāpakamata āha ---- cakṣiṅo dvayanubandhakaraṇam // VKal 5,2.4 // cakṣiṅ ikāreṇaivānudāttena siddhamātmanepadasyānityatvajñāpanārtham / etena , vedi-bhartsi-tarji-prabhṛtayo vyākhyātāḥ / āvedayati-bhartsayati- tarjayatītyādīnāṃ prayogāṇāṃ darśanāt / anyatrāpyanudāttanibandhanasyātmanepadasyānityatyaṃ jñāpakena draṣṭavyamiti

Sanskrit only: no published translation is held for this verse.

क्षीयत इति कर्मकर्तरि ॥ व्कल् ५,२।५ [*व्कल् ५,२।४] ॥ क्षीयती इति प्रयोगो दृश्यते , स कर्मकर्तरि द्रष्टव्यः । क्षीयतेरनात्मनेपदित्वात्

kṣīyata iti karmakartari // VKal 5,2.5 [*VKal 5,2.4] // kṣīyatī iti prayogo dṛśyate , sa karmakartari draṣṭavyaḥ / kṣīyateranātmanepaditvāt

Sanskrit only: no published translation is held for this verse.

खिद्यत इति च ॥ व्कल् ५,२।६ [*व्कल् ५,२।५] ॥ खिद्यत इति च प्रयोगो दृश्यते , सोऽकर्मकर्तर्येव द्रष्टव्या , न कर्तरि । अदैवादिकत्वात् खिदेः

khidyata iti ca // VKal 5,2.6 [*VKal 5,2.5] // khidyata iti ca prayogo dṛśyate , so'karmakartaryeva draṣṭavyā , na kartari / adaivādikatvāt khideḥ

Sanskrit only: no published translation is held for this verse.

मार्गेरात्मएपदमलक्ष्म ॥ व्कल् ५,२।७ [*व्कल् ५,२।६] ॥ चुरादौ मार्ग अन्वेपणे इति पठ्यते । आ धृषाद्वा इति विकल्पितणिच्कस्तस्याद्यदात्मनेपदं दृश्यते ---- मार्गन्तां देहभारमिति , तदलक्ष्म अलक्षणम् । परस्मैपदित्वान्मार्गेः । तथा च शिष्टप्रयोगः ---- करकिसलयं धूत्वा धूत्वा विमार्गति वाससी

mārgerātmaepadamalakṣma // VKal 5,2.7 [*VKal 5,2.6] // curādau mārga anvepaṇe iti paṭhyate / ā dhṛṣādvā iti vikalpitaṇickastasyādyadātmanepadaṃ dṛśyate ---- mārgantāṃ dehabhāramiti , tadalakṣma alakṣaṇam / parasmaipaditvānmārgeḥ / tathā ca śiṣṭaprayogaḥ ---- karakisalayaṃ dhūtvā dhūtvā vimārgati vāsasī

Sanskrit only: no published translation is held for this verse.

लोलमानादयश्चानशि ॥ व्कल् ५,२।८ [*व्कल् ५,२।७] ॥ लोलमानो वेल्लमान इत्यादयश्चानशि द्रष्टव्याः । शानचस्त्वभावः , परस्मैपदित्वाद्धातूनामिति

lolamānādayaścānaśi // VKal 5,2.8 [*VKal 5,2.7] // lolamāno vellamāna ityādayaścānaśi draṣṭavyāḥ / śānacastvabhāvaḥ , parasmaipaditvāddhātūnāmiti

Sanskrit only: no published translation is held for this verse.

लभेर्गत्यर्थत्वाण्णिच्यणौ कर्तुः कर्मत्वाकर्मत्वे ॥ व्कल् ५,२।९ [*व्कल् ५,२।८] ॥ अस्त्ययं लभिर्यः प्राप्त्युपसर्जनां गतिमाह ---- अस्ति च गत्युपसर्जनां प्राप्तिमाहेति । अत्र पूर्वस्मिन्पक्षे गत्यर्थत्वाल्लभेर्णिच्यणौ यः कर्ता तस्य गत्यादिसूत्रेण कर्मसंज्ञा । यथा ---- दीर्घिकासु कुमुदानि विकासं लम्भयन्ति शिशिराः शशिभासः । द्वितीयपक्षे तु गत्यर्थात्वाभावाल्लभेर्णिच्यणौ कर्तुर्न कर्मसंज्ञा । यथा ---- सितं सितिम्ना सुतरां मुनेर्वपुर्विसारिभिः सौधमिवाथ लम्भयन् । द्विजावलिव्याजनिशाकरांशुभिः शुचिस्मितां वाचमवोचदच्युतः ॥

labhergatyarthatvāṇṇicyaṇau kartuḥ karmatvākarmatve // VKal 5,2.9 [*VKal 5,2.8] // astyayaṃ labhiryaḥ prāptyupasarjanāṃ gatimāha ---- asti ca gatyupasarjanāṃ prāptimāheti / atra pūrvasminpakṣe gatyarthatvāllabherṇicyaṇau yaḥ kartā tasya gatyādisūtreṇa karmasaṃjñā / yathā ---- dīrghikāsu kumudāni vikāsaṃ lambhayanti śiśirāḥ śaśibhāsaḥ / dvitīyapakṣe tu gatyarthātvābhāvāllabherṇicyaṇau karturna karmasaṃjñā / yathā ---- sitaṃ sitimnā sutarāṃ munervapurvisāribhiḥ saudhamivātha lambhayan / dvijāvalivyājaniśākarāṃśubhiḥ śucismitāṃ vācamavocadacyutaḥ //

Sanskrit only: no published translation is held for this verse.

ते-मे-शब्दौ निपातेषु ॥ व्कल् ५,२।१० [*व्कल् ५,२।९] ॥ त्वया मयेत्यस्मिन्नर्थे ते मे शब्दौ निपातेषु द्रष्टव्यौ । यथा ---- श्रुतं ते वचनं तस्य , वेदानधीत इति नाधिगतं पुरा मे ।

te-me-śabdau nipāteṣu // VKal 5,2.10 [*VKal 5,2.9] // tvayā mayetyasminnarthe te me śabdau nipāteṣu draṣṭavyau / yathā ---- śrutaṃ te vacanaṃ tasya , vedānadhīta iti nādhigataṃ purā me /

Sanskrit only: no published translation is held for this verse.

तिरस्कृत इति परिभूते, अन्तर्ध्युपचारात् ॥ व्कल् ५,२।११ [*व्कल् ५,२।१०] ॥ तिरस्कृत इति शब्दः परिभूते दृश्यते । राज्ञा तिरस्कृतः इति । स च न प्राप्नोति । तिरःशब्दस्य हि , तिरोऽन्तर्धौ इत्यन्तर्धौ गतिसंज्ञा । तस्यां च सत्यां , तिरसोऽन्यतरस्याम्(पा ८,३।४२) इति सकारः । तत् कथं तिरस्कृत इति परिभूते ? , आह ---- अन्तर्ध्युपचारादिति । परिभूतो ह्यन्तर्हितवद्भवति । मुख्यस्तु प्रयोगो यथा ---- लावण्यप्रसरतिरस्कृताङ्गलेखाम् इति ।

tiraskṛta iti paribhūte, antardhyupacārāt // VKal 5,2.11 [*VKal 5,2.10] // tiraskṛta iti śabdaḥ paribhūte dṛśyate / rājñā tiraskṛtaḥ iti / sa ca na prāpnoti / tiraḥśabdasya hi , tiro'ntardhau ityantardhau gatisaṃjñā / tasyāṃ ca satyāṃ , tiraso'nyatarasyām(Pā 8,3.42) iti sakāraḥ / tat kathaṃ tiraskṛta iti paribhūte ? , āha ---- antardhyupacārāditi / paribhūto hyantarhitavadbhavati / mukhyastu prayogo yathā ---- lāvaṇyaprasaratiraskṛtāṅgalekhām iti /

Sanskrit only: no published translation is held for this verse.

नैकशब्दः, सुप्सुपेति समासात् ॥ व्कल् ५,२।१२ [*व्कल् ५,२।११] ॥ अरण्यानीस्थानं फलनमितनैकद्रुममिदम् इत्यादिषु नैकशब्दो दृश्यते , स च न सिद्ध्यति । नञ्समासे हि नलोपो नञ्(पा ६,३।६३) इति नलोपे , तस्मान्नुडचि(पा ६,३।७४) इति नुडागमे सत्यनेकमिति रूपं स्यात् । निरनुबन्धस्य नशब्दस्य समासे लक्षणं नास्ति । तत् कथं नैकशब्द इत्याह ---- सुप्सुपेति समातात्

naikaśabdaḥ, supsupeti samāsāt // VKal 5,2.12 [*VKal 5,2.11] // araṇyānīsthānaṃ phalanamitanaikadrumamidam ityādiṣu naikaśabdo dṛśyate , sa ca na siddhyati / nañsamāse hi nalopo nañ(Pā 6,3.63) iti nalope , tasmānnuḍaci(Pā 6,3.74) iti nuḍāgame satyanekamiti rūpaṃ syāt / niranubandhasya naśabdasya samāse lakṣaṇaṃ nāsti / tat kathaṃ naikaśabda ityāha ---- supsupeti samātāt

Sanskrit only: no published translation is held for this verse.

मधुपिपासुप्रभृतीनां समासो गमिगाम्यादिषु पाठात् ॥ व्कल् ५,२।१३ [*व्कल् ५,२।१२] ॥ मधुपिपासुमधुव्रतसेवितं मुकुलजालमजृम्भत वीरुधाम् इत्यादिषु मधुपिपासुप्रभृतीनां समासो गमिगाम्यादिषु पिपासुप्रभृतीनां पाठात् । श्रितादिषु गमिगाम्यादीनाम् इति द्वितीयासमासलक्षणं दर्शयति

madhupipāsuprabhṛtīnāṃ samāso gamigāmyādiṣu pāṭhāt // VKal 5,2.13 [*VKal 5,2.12] // madhupipāsumadhuvratasevitaṃ mukulajālamajṛmbhata vīrudhām ityādiṣu madhupipāsuprabhṛtīnāṃ samāso gamigāmyādiṣu pipāsuprabhṛtīnāṃ pāṭhāt / śritādiṣu gamigāmyādīnām iti dvitīyāsamāsalakṣaṇaṃ darśayati

Sanskrit only: no published translation is held for this verse.

त्रिवलीशब्दः सिद्धः संज्ञा चेत् ॥ व्कल् ५,२।१४ [*व्कल् ५,२।१३] ॥ त्रिवलीशब्दः सिद्धो यदि संज्ञा । दिक्सख्ये सञ्ज्ञायाम्(पा २,१।५०) इति संज्ञायामेव समासविधानात्

trivalīśabdaḥ siddhaḥ saṃjñā cet // VKal 5,2.14 [*VKal 5,2.13] // trivalīśabdaḥ siddho yadi saṃjñā / diksakhye sa.ñjñāyām(Pā 2,1.50) iti saṃjñāyāmeva samāsavidhānāt

Sanskrit only: no published translation is held for this verse.

बिम्बाधर इति वृत्तौ मध्यमपदलोपिन्याम् ॥ व्कल् ५,२।१५ [*व्कल् ५,२।१४] ॥ बिम्बाधरः पीयते इति प्रयोगो दृश्यते , स च न युक्तः । अधरबिम्ब इति भवितव्यम् । उपमितं व्याघ्रादिभिः ॥॥॥ (पा २,१।५६) इति समासे सति । तत्कथं बिम्बाधर इत्यत्राह ---- वृत्तौ मध्यमपदलोपिन्यां शाकपार्थिवादित्वात्समासे मध्यमपदलोपिनि समासे सति बिम्बाकारोऽधरो बिम्बाधर इति । तेन बिम्बोष्ठशब्दोऽपि व्याख्यातः । अत्रापि पूर्ववद्वृत्तिः । शिष्टप्रयोगेषु चैष विधिः । तेन नातिप्रसङ्गः

bimbādhara iti vṛttau madhyamapadalopinyām // VKal 5,2.15 [*VKal 5,2.14] // bimbādharaḥ pīyate iti prayogo dṛśyate , sa ca na yuktaḥ / adharabimba iti bhavitavyam / upamitaṃ vyāghrādibhiḥ ...... (Pā 2,1.56) iti samāse sati / tatkathaṃ bimbādhara ityatrāha ---- vṛttau madhyamapadalopinyāṃ śākapārthivāditvātsamāse madhyamapadalopini samāse sati bimbākāro'dharo bimbādhara iti / tena bimboṣṭhaśabdo'pi vyākhyātaḥ / atrāpi pūrvavadvṛttiḥ / śiṣṭaprayogeṣu caiṣa vidhiḥ / tena nātiprasaṅgaḥ

Sanskrit only: no published translation is held for this verse.

आमूललोलादिषु वृत्तिर्विस्पष्टपटुवत् ॥ व्कल् ५,२।१६ [*व्कल् ५,२।१५] ॥ आमूललोलम्, आमूलसरलम् इत्यादिषु वृत्तिर्विस्पष्टपटुवत् । मयूरव्यंसकादित्वात्

āmūlalolādiṣu vṛttirvispaṣṭapaṭuvat // VKal 5,2.16 [*VKal 5,2.15] // āmūlalolam, āmūlasaralam ityādiṣu vṛttirvispaṣṭapaṭuvat / mayūravyaṃsakāditvāt

Sanskrit only: no published translation is held for this verse.

न धान्यषष्ठादिषु षष्ठीसमासप्रतिषेधः, पूरणेन तद्धितान्तत्वात् ॥ व्कल् ५,२।१७ [*व्कल् ५,२।१६] ॥ धान्यपष्टम् , तान्युच्छषष्टाङ्कितसैकतानि इत्यादिषु न षष्टीसमासप्रतिषेधः । पूरणेन पूरणप्रत्ययान्तेनान्यतद्धितान्तत्वात् । षष्टो भागः षष्ट इति । पूरणाद्भागे तीयादन्(पा ५,३।४८) , षष्टाषष्टमाभ्यां(पा ५,३।५०) इत्यन्विधानात्

na dhānyaṣaṣṭhādiṣu ṣaṣṭhīsamāsapratiṣedhaḥ, pūraṇena taddhitāntatvāt // VKal 5,2.17 [*VKal 5,2.16] // dhānyapaṣṭam , tānyucchaṣaṣṭāṅkitasaikatāni ityādiṣu na ṣaṣṭīsamāsapratiṣedhaḥ / pūraṇena pūraṇapratyayāntenānyataddhitāntatvāt / ṣaṣṭo bhāgaḥ ṣaṣṭa iti / pūraṇādbhāge tīyādan(Pā 5,3.48) , ṣaṣṭāṣaṣṭamābhyāṃ(Pā 5,3.50) ityanvidhānāt

Sanskrit only: no published translation is held for this verse.

पत्रपीतिमादिषु गुणवचनेन ॥ व्कल् ५,२।१८ [*व्कल् ५,२।१७] ॥ पत्रपीतिमा , पक्ष्मालीपिङ्गलिमा इत्यादिषु षष्टीसमासप्रतिषेधो गुणवचनेन प्राप्तो , वालिश्यात्तु न कृतः

patrapītimādiṣu guṇavacanena // VKal 5,2.18 [*VKal 5,2.17] // patrapītimā , pakṣmālīpiṅgalimā ityādiṣu ṣaṣṭīsamāsaprati.ṣedho guṇavacanena prāpto , vāliśyāttu na kṛtaḥ

Sanskrit only: no published translation is held for this verse.

अवर्ज्यो बहुव्रीहिर्व्यधिकरणो जन्माद्युत्तरपदः ॥ व्कल् ५,२।१९ [*व्कल् ५,२।१८] ॥ अवर्ज्यो न वर्जनीयो व्यधिकरणे बहुव्रीहिः । जन्माद्युत्तरपदं यस्य स जन्माद्युत्तरपदः । यथा ---- सच्छास्त्रजन्मा हि विवेकलाभः , कान्तवृत्तयः प्राणाः इति ।

avarjyo bahuvrīhirvyadhikaraṇo janmādyuttarapadaḥ // VKal 5,2.19 [*VKal 5,2.18] // avarjyo na varjanīyo vyadhikaraṇe bahuvrīhiḥ / janmādyuttarapadaṃ yasya sa janmādyuttarapadaḥ / yathā ---- sacchāstrajanmā hi vivekalābhaḥ , kāntavṛttayaḥ prāṇāḥ iti /

Sanskrit only: no published translation is held for this verse.

हस्ताग्राग्रहस्तादयो गुणगुणिनोर्भेदाभेदात् ॥ व्कल् ५,२।२० [*व्कल् ५,२।१९] ॥ हस्ताग्रम् अग्रहस्तः , पुष्पाग्रम् , अग्रपुष्पमित्यादयः प्रयोगाः कथम् ? आहिताग्न्यादिष्वपाठात् । पाठे वा तदनियमः स्यात् । आह ---- गुणगुणिनोर्भेदाभेदात् । तत्र भेदाद् , हस्ताग्रादयः । अभेदादग्रहस्तादयः

hastāgrāgrahastādayo guṇaguṇinorbhedābhedāt // VKal 5,2.20 [*VKal 5,2.19] // hastāgram agrahastaḥ , puṣpāgram , agrapuṣpamityādayaḥ prayogāḥ katham ? āhitāgnyādiṣvapāṭhāt / pāṭhe vā tadaniyamaḥ syāt / āha ---- guṇaguṇinorbhedābhedāt / tatra bhedād , hastāgrādayaḥ / abhedādagrahastādayaḥ

Sanskrit only: no published translation is held for this verse.

पूर्वनिपातेऽपभ्रंशो रक्ष्यः ॥ व्कल् ५,२।२१ [*व्कल् ५,२।२०] ॥ काष्ठतृणं तृणकाष्ठमिति यदृच्छया पूर्वनिपातं कुर्वन्ति । तत्रापभ्रंशो लक्ष्यः परिहरणीयः । अनित्यत्वज्ञापनन्तु न सर्वविषयमिति

pūrvanipāte'pabhraṃśo rakṣyaḥ // VKal 5,2.21 [*VKal 5,2.20] // kāṣṭhatṛṇaṃ tṛṇakāṣṭhamiti yadṛcchayā pūrvanipātaṃ kurvanti / tatrāpabhraṃśo lakṣyaḥ pariharaṇīyaḥ / anityatvajñāpanantu na sarvaviṣayamiti

Sanskrit only: no published translation is held for this verse.

निपातेनाप्यभिहिते कर्मणि न कर्मविभक्तिः, परिगणनस्य प्रायिकत्वात् ॥ व्कल् ५,२।२२ [*व्कल् ५,२।२१] ॥ अनभिहिते इत्यत्र सूत्रे तिङ्कृत्तद्धितसमासैः इति परिगणनं कृतम् । तस्य प्रायिकत्वान्निपातेनाप्यभिहिते कर्मणि न कर्मविभक्तिर्भवति । यथा (कुमार। २-५५) ---- विषवृक्षोऽपि संवर्ध्य स्वयं छेत्तुमसांप्रतम् पण्डितं मूर्ज्ख इति मन्यते इति

nipātenāpyabhihite karmaṇi na karmavibhaktiḥ, parigaṇanasya prāyikatvāt // VKal 5,2.22 [*VKal 5,2.21] // anabhihite ityatra sūtre tiṅkṛttaddhitasamāsaiḥ iti parigaṇanaṃ kṛtam / tasya prāyikatvānnipātenāpyabhihite karmaṇi na karmavibhaktirbhavati / yathā (kumāra. 2-55) ---- viṣavṛkṣo'pi saṃvardhya svayaṃ chettumasāṃpratam paṇḍitaṃ mūrjkha iti manyate iti

Sanskrit only: no published translation is held for this verse.

शक्यमिति रूपं कर्माभिधायां लिङ्गवचनस्यापि सामान्योपक्रमात् ॥ व्कल् ५,२।२३ [*व्कल् ५,२।२२] ॥ शकेः शकिसहोश्च(पा ३,१।९९) इति कर्मणि यति सति शक्यमिति रूपं भवति । विलिङ्गवचनस्यापि विरुद्धलिङ्गवचनस्यापि , कर्माभिधायां कर्मवचने सामान्योपक्रमाद् विशेषानपेक्षायामिति । यथा ---- शक्यमोषधियतेर्नवोदयाः कर्णपूररचनाकृते तव । अप्रगल्भयवसूचिकोनलाश्छेत्तुमग्रनखसंपुटैः कराः ॥ अत्र भाष्यकृद्वचनं लिङ्गम् । यथा ---- शक्यं च श्वमांसादिभिरपि क्षुत् प्रतिअन्तुम् इति । न चैकान्तिकः सामान्योपक्रमः । तेन शक्या भङ्क्तुं झटिति विसिनीकन्दवच्चन्द्रपादाः इत्यपि भवति ॥२३॥++ हानिवदाधिक्यमप्यङ्गानां विकारः ॥ व्कल् ५,२।२४ [*व्कल् ५,२।२३] ॥ येनाङ्गविकारः(पा २,३।२०) इत्यत्र सूत्रे यथाङ्गानां हानिस्तथाधिक्यमपि विकारः । यथा ---- अक्ष्णाः काणः इति भवति , तथा मुखेन विलोचनः इत्यपि भवति

śakyamiti rūpaṃ karmābhidhāyāṃ liṅgavacanasyāpi sāmānyopakramāt // VKal 5,2.23 [*VKal 5,2.22] // śakeḥ śakisahośca(Pā 3,1.99) iti karmaṇi yati sati śakyamiti rūpaṃ bhavati / viliṅgavacanasyāpi viruddhaliṅgavacanasyāpi , karmābhidhāyāṃ karmavacane sāmānyopakramād viśeṣānapekṣāyāmiti / yathā ---- śakyamoṣadhiyaternavodayāḥ karṇapūraracanākṛte tava / apragalbhayavasūcikonalāśchettumagranakhasaṃpuṭaiḥ karāḥ // atra bhāṣyakṛdvacanaṃ liṅgam / yathā ---- śakyaṃ ca śvamāṃsādibhirapi kṣut pratiantum iti / na caikāntikaḥ sāmānyopakramaḥ / tena śakyā bhaṅktuṃ jhaṭiti visinīkandavaccandrapādāḥ ityapi bhavati //23//++ hānivadādhikyamapyaṅgānāṃ vikāraḥ // VKal 5,2.24 [*VKal 5,2.23] // yenāṅgavikāraḥ(Pā 2,3.20) ityatra sūtre yathāṅgānāṃ hānistathādhikyamapi vikāraḥ / yathā ---- akṣṇāḥ kāṇaḥ iti bhavati , tathā mukhena vilocanaḥ ityapi bhavati

Sanskrit only: no published translation is held for this verse.

न कृमिकीटानामिति, एकवद्भावप्रसङ्गात् ॥ व्कल् ५,२।२५ [*व्कल् ५,२।२४] ॥ आयुषः कृमिकीटानामलङ्करणमल्पता इत्यत्र कृमिकीटानामिति प्रयोगो न युक्तः । क्षुद्रजन्तवः इत्येकवद्भावप्रसङ्गात् । न च मध्यमपदलोपी समासो युक्तः । तस्यासर्वविषयत्वात्

na kṛmikīṭānāmiti, ekavadbhāvaprasaṅgāt // VKal 5,2.25 [*VKal 5,2.24] // āyuṣaḥ kṛmikīṭānāmalaṅkaraṇamalpatā ityatra kṛmikīṭānāmiti prayogo na yuktaḥ / kṣudrajantavaḥ ityekavadbhāvaprasaṅgāt / na ca madhyamapadalopī samāso yuktaḥ / tasyāsarvaviṣayatvāt

Sanskrit only: no published translation is held for this verse.

न खरोष्ट्रौ, उष्ट्रखरमिति पाठात् ॥ व्कल् ५,२।२६ [*व्कल् ५,२।२५] ॥ खरोष्ट्रौ वाहनं येषां इत्यत्र खरोष्ट्राविति प्रयोगो न युक्तः । गवाश्वप्रभृतिषु उष्ट्रखरम् इति पाठात्

na kharoṣṭrau, uṣṭrakharamiti pāṭhāt // VKal 5,2.26 [*VKal 5,2.25] // kharoṣṭrau vāhanaṃ yeṣāṃ ityatra kharoṣṭrāviti prayogo na yuktaḥ / gavāśvaprabhṛtiṣu uṣṭrakharam iti pāṭhāt

Sanskrit only: no published translation is held for this verse.

आसेत्यसतेः ॥ व्कल् ५,२।२७ [*व्कल् ५,२।२६] ॥ लावण्यमुत्याद्य इवास यत्नः इत्यत्रासेत्यसतेर्धातोः , अस गतिदीप्त्यादानेषु इत्यस्य प्रयोगः , नास्तेः ; भूभावविधानात्

āsetyasateḥ // VKal 5,2.27 [*VKal 5,2.26] // lāvaṇyamutyādya ivāsa yatnaḥ ityatrāsetyasaterdhātoḥ , asa gatidīptyādāneṣu ityasya prayogaḥ , nāsteḥ ; bhūbhāvavidhānāt

Sanskrit only: no published translation is held for this verse.

युध्येदिति युधः क्यचि ॥ व्कल् ५,२।२८ [*व्कल् ५,२।२७] ॥ यो भर्तृपिण्डस्य कृते न युद्ध्येद् इति प्रयोगः । स चायुक्तः । युधेरात्मनेपदित्वात् । तत् कथं युद्ध्येदित्याह युधः क्यचि युधमात्मन इच्छेद् युद्ध्येदिति

yudhyediti yudhaḥ kyaci // VKal 5,2.28 [*VKal 5,2.27] // yo bhartṛpiṇḍasya kṛte na yuddhyed iti prayogaḥ / sa cāyuktaḥ / yudherātmanepaditvāt / tat kathaṃ yuddhyedityāha yudhaḥ kyaci yudhamātmana icched yuddhyediti

Sanskrit only: no published translation is held for this verse.

विरलायमानादिषु क्यङ् निरूप्यः ॥ व्कल् ५,२।२९ [*व्कल् ५,२।२८] ॥ विरलायमाने मलयमारुते इत्यादिषु क्यङ् निरूप्यः । भृशादिषु पाठात् । नापि क्यष् । लोहितादिष्वपाठात्

viralāyamānādiṣu kyaṅ nirūpyaḥ // VKal 5,2.29 [*VKal 5,2.28] // viralāyamāne malayamārute ityādiṣu kyaṅ nirūpyaḥ / bhṛśādiṣu pāṭhāt / nāpi kyaṣ / lohitādiṣvapāṭhāt

Sanskrit only: no published translation is held for this verse.

अहेतौ हन्तेर्णिच्, चुरादिपाठात् ॥ व्कल् ५,२।३० [*व्कल् ५,२।२९] ॥ धातयित्वा दशास्यम् इत्यत्राहेतौ णिच् दृश्यते । स कथमित्याह । चुरादिपाटात् । चुरादिषु स्फुट भेदे , घट संघाते, हन्त्यर्थाश्च इति पाठात्

ahetau hanterṇic, curādipāṭhāt // VKal 5,2.30 [*VKal 5,2.29] // dhātayitvā daśāsyam ityatrāhetau ṇic dṛśyate / sa kathamityāha / curādipāṭāt / curādiṣu sphuṭa bhede , ghaṭa saṃghāte, hantyarthāśca iti pāṭhāt

Sanskrit only: no published translation is held for this verse.

अनुचरीति चरेष्टित्त्वात् ॥ व्कल् ५,२।३१ [*व्कल् ५,२।३०] ॥ अनुचरी प्रियतमा मदालसा इत्यत्रानुचरीति न युक्तः । इकारलक्षणाभावात् । तत् कथम् ? । आह ---- चरेष्टित्वात् । पचादिषु चरडिति पठ्यते

anucarīti careṣṭittvāt // VKal 5,2.31 [*VKal 5,2.30] // anucarī priyatamā madālasā ityatrānucarīti na yuktaḥ / ikāralakṣaṇābhāvāt / tat katham ? / āha ---- careṣṭitvāt / pacādiṣu caraḍiti paṭhyate

Sanskrit only: no published translation is held for this verse.

केसरालमित्यलतेरणि ॥ व्कल् ५,२।३२ [*व्कल् ५,२।३१] ॥ केसरालं शिलीन्ध्रं इत्यत्र केसरालमिति कथम् ? । आह ---- अलतेरणि । अलभूषणपर्याप्तिवारणेषु इत्यस्माद्धातोः केसरशब्दे कर्मण्युपपदे , कर्मण्यण् इत्यनेनाणि सति केसरालमिति सिद्ध्यति

kesarālamityalateraṇi // VKal 5,2.32 [*VKal 5,2.31] // kesarālaṃ śilīndhraṃ ityatra kesarālamiti katham ? / āha ---- alateraṇi / alabhūṣaṇaparyāptivāraṇeṣu ityasmāddhātoḥ kesaraśabde karmaṇyupapade , karmaṇyaṇ ityanenāṇi sati kesarālamiti siddhyati

Sanskrit only: no published translation is held for this verse.

पत्रलमिति लातेः के ॥ व्कल् ५,२।३३ [*व्कल् ५,२।३२] ॥ पत्रलं वनमिदं विराजते इत्यत्र पत्रलमिति कथम् ? । आह ---- लातेः के । ला आदाने इत्येतस्माद्धातोरादानार्थात् पत्रशब्दे कर्मण्युपपदे , आतोऽनुपसर्गे कः(पा ३,२।३) इति कप्रत्यये सतीति

patralamiti lāteḥ ke // VKal 5,2.33 [*VKal 5,2.32] // patralaṃ vanamidaṃ virājate ityatra patralamiti katham ? / āha ---- lāteḥ ke / lā ādāne ityetasmāddhātorādānārthāt patraśabde karmaṇyupapade , āto'nupasarge kaḥ(Pā 3,2.3) iti kapratyaye satīti

Sanskrit only: no published translation is held for this verse.

महीध्रादयो मूलविभुजादिदर्शनात् ॥ व्कल् ५,२।३४ [*व्कल् ५,२।३३] ॥ महीध्र-धरणीध्रादयः शब्दाः मूलविभुजादिदर्शनात् कप्रत्यये सतीति । गर्हीं धरतीति महीध्र इति । एवमादयोऽन्येऽपि द्रष्टव्याः

mahīdhrādayo mūlavibhujādidarśanāt // VKal 5,2.34 [*VKal 5,2.33] // mahīdhra-dharaṇīdhrādayaḥ śabdāḥ mūlavibhujādidarśanāt kapratyaye satīti / garhīṃ dharatīti mahīdhra iti / evamādayo'nye'pi draṣṭavyāḥ

Sanskrit only: no published translation is held for this verse.

ब्रह्मादिषु हन्तेर्नियमादरिहाद्यसिद्धिः ॥ व्कल् ५,२।३५ [*व्कल् ५,२।३४] ॥ ब्रह्मादिषूपपदेषु हन्तेः क्विब्विधौ ब्रह्मभ्रूणवृत्रेषु ॥॥॥(पा ३,२।८७) इत्यत्रारिहारिपुहा इत्येवमादीनामसिद्धिः । नियमात् । ब्रह्मादिष्वेव , हन्तेरेव , क्विबेव , भूतकाल एवेति चतुर्विधश्चात्र नियमः इति नियमान्यतरविषयो निरूप्यः

brahmādiṣu hanterniyamādarihādyasiddhiḥ // VKal 5,2.35 [*VKal 5,2.34] // brahmādiṣūpapadeṣu hanteḥ kvibvidhau brahmabhrūṇavṛtreṣu ......(Pā 3,2.87) ityatrārihāripuhā ityevamādīnāmasiddhiḥ / niyamāt / brahmādiṣveva , hantereva , kvibeva , bhūtakāla eveti caturvidhaścātra niyamaḥ iti niyamānyataraviṣayo nirūpyaḥ

Sanskrit only: no published translation is held for this verse.