आधारो वृषणस्याधस् त्रिकोणं मूलाधार-स्थानम् । ध्वजो लिङ्गम् । नाभिः हृधयं गलः मुखं अंसोरु-द्वयम् । एतेष्व् एकावृत्तिः । कन्धरा घाटा कन्धरा कण्ठ इति लघु-दीपिका-कारः । नाभि-कुक्षि-हृदयम् उरोज-युगलं स्तन-द्वयम् । पार्श्वेति पार्श्व-युगम् । अपरं पृष्ठ-देशः । श्रोणिर् जघन-देशः । श्रोणिः कटिः । अपरं श्रोण्याः अपरभागः इति त्रिपाठिनः । एतेषु द्वितीयावृत्तिः । कं शिरः । आस्यं मुखम् । अक्षिणी नेत्र-युगलम् । श्रुती श्रवण-द्वयम् । न इति नासिका-द्वयं कपोल-द्वयम् एतेषु तृतीया वृत्तिः । कर-पदेति कर-पदयोः प्रत्येकं सन्धि-चतुष्टयं सन्धिष्व् अङ्गुल्य्-अग्रेषु अङ्गुलीषु च । अत्र दक्षिण-करे चतुर्था वृत्तिः । एवं वाम-करे पञ्चमा वृत्तिः । इति पक्ष-द्वयं च विद्याधरस् तु करयोर् एका वृत्तिः, पादयोर् एका वृत्तिर् इत्य् आह । तच् चिन्त्यम् । मूल-ग्रन्थात् तथाप्रतीतेः । पादयोः सन्धिष्व् अङ्गुल्य्-अग्रेष्व् अङ्गुलीषु च । अत्रापि दक्षिण-पादे षष्ठा वृत्तिः । वाम-पादे सप्तमा वृत्तिः । अत एव हस्त-पादयोर् न्यास-चतुष्टयम् इति त्रिपाठिनः । के मस्तक-मध्ये तत्-प्राच्यादि-दिशासु मस्तक-पूर्वादि-चतुर्दिक्षु सकले मूर्ध्नि सकले मस्तके प्रादक्षिण्येन व्यापकतया दोष्णोश् च बाहु-युगे तथा सक्थ्नोर् ऊरु-मूलस्याधिष्ठानयोर् मध्य-प्रदेशयोर् एतेष्व् अष्टमा वृत्तिः । मस्तकस्य पूर्वादि-दिशास्व् एका वृत्तिः । एका वृत्तिर् मूर्धादिष्व् इति विद्याधराचार्याः । तच् चिन्त्यम् । तथा पद-स्वरसात् शिरः-प्रभृतिष्व् एकावृत्ति-प्रतीतेः । शिरो मस्तकम् । अक्षीति नेत्र-युगलम् । आस्यं मुखम् । कण्ठं । हृदयं । तुन्दम् उदरम् । कन्दो मूलाधारः । स्वाधिष्ठानम् इति त्रिपाठिनः । अन्धुं लिङ्गं । जानु । प्रपद् इति पाद-युगलं तेषु, एतेषु नवमावृत्तिः । श्रोत्र-युगले गण्ड-युगले । अंस-युगले । स्तन-युगले । पार्श्व-युगले । स्फिग्-युगले नितम्ब-युगले । एवम् उरु-जानु-जङ्घाङ्घ्रि-युगले । एतेषु दशमावृत्तिः । इत्थम् अनेन प्रकारेण मनूत्थान् मन्त्र-सम्बन्धिनो वर्णान् न्यसेत् । प्रयोगश् च - ग्ॐ नमो मूलाधारे, पीं नमः लिङ्गे, जं नमः नाभौ इत्य् आदि
ādhāro vṛṣaṇasyādhas trikoṇaṃ mūlādhāra-sthānam | dhvajo liṅgam | nābhiḥ hṛdhayaṃ galaḥ mukhaṃ aṃsoru-dvayam | eteṣv ekāvṛttiḥ | kandharā ghāṭā kandharā kaṇṭha iti laghu-dīpikā-kāraḥ | nābhi-kukṣi-hṛdayam uroja-yugalaṃ stana-dvayam | pārśveti pārśva-yugam | aparaṃ pṛṣṭha-deśaḥ | śroṇir jaghana-deśaḥ | śroṇiḥ kaṭiḥ | aparaṃ śroṇyāḥ aparabhāgaḥ iti tripāṭhinaḥ | eteṣu dvitīyāvṛttiḥ | kaṃ śiraḥ | āsyaṃ mukham | akṣiṇī netra-yugalam | śrutī śravaṇa-dvayam | na iti nāsikā-dvayaṃ kapola-dvayam eteṣu tṛtīyā vṛttiḥ | kara-padeti kara-padayoḥ pratyekaṃ sandhi-catuṣṭayaṃ sandhiṣv aṅguly-agreṣu aṅgulīṣu ca | atra dakṣiṇa-kare caturthā vṛttiḥ | evaṃ vāma-kare pañcamā vṛttiḥ | iti pakṣa-dvayaṃ ca vidyādharas tu karayor ekā vṛttiḥ, pādayor ekā vṛttir ity āha | tac cintyam | mūla-granthāt tathāpratīteḥ | pādayoḥ sandhiṣv aṅguly-agreṣv aṅgulīṣu ca | atrāpi dakṣiṇa-pāde ṣaṣṭhā vṛttiḥ | vāma-pāde saptamā vṛttiḥ | ata eva hasta-pādayor nyāsa-catuṣṭayam iti tripāṭhinaḥ | ke mastaka-madhye tat-prācyādi-diśāsu mastaka-pūrvādi-caturdikṣu sakale mūrdhni sakale mastake prādakṣiṇyena vyāpakatayā doṣṇoś ca bāhu-yuge tathā sakthnor ūru-mūlasyādhiṣṭhānayor madhya-pradeśayor eteṣv aṣṭamā vṛttiḥ | mastakasya pūrvādi-diśāsv ekā vṛttiḥ | ekā vṛttir mūrdhādiṣv iti vidyādharācāryāḥ | tac cintyam | tathā pada-svarasāt śiraḥ-prabhṛtiṣv ekāvṛtti-pratīteḥ | śiro mastakam | akṣīti netra-yugalam | āsyaṃ mukham | kaṇṭhaṃ | hṛdayaṃ | tundam udaram | kando mūlādhāraḥ | svādhiṣṭhānam iti tripāṭhinaḥ | andhuṃ liṅgaṃ | jānu | prapad iti pāda-yugalaṃ teṣu, eteṣu navamāvṛttiḥ | śrotra-yugale gaṇḍa-yugale | aṃsa-yugale | stana-yugale | pārśva-yugale | sphig-yugale nitamba-yugale | evam uru-jānu-jaṅghāṅghri-yugale | eteṣu daśamāvṛttiḥ | ittham anena prakāreṇa manūtthān mantra-sambandhino varṇān nyaset | prayogaś ca - goṃ namo mūlādhāre, pīṃ namaḥ liṅge, jaṃ namaḥ nābhau ity ādi
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.