तद्-अनन्तरं मध्ये-कमलं कमल-मध्ये शालीन् आढक-परिमितान् तथा शुभ्रान् शाल्य्-अष्ट-भाग-परिमितान् तण्डुलान् श्रेष्ठान् न्यस्येत् स्थापयेत् । यद् उक्तं- शालीन् वै कर्णिकायां च निक्षिप्याढक-संमितान् । तण्डुलांश् च तद्-अष्टांशान् दर्भैः कूर्चैः प्रविन्यसेत् ॥ इति । तद्-उपरि तण्डुलोपरि कूर्चाक्षत-युक्तान् दर्भान् विन्यसेत् । कुश-त्रय-घटितो ब्रह्म-ग्रन्थिः कूर्च-शब्देनोच्यते कूर्चः कुश-मुष्टिर् इति त्रिपाठिनः । तद्-उपरि कूर्चोपरि कृशानोर् वह्नेर् दश कला य-कारादयो दश-वर्णा आद्याः प्रथमा यासां ताः प्रादक्षिण्येन न्यसेत् तद्-अनन्तरं इमा दश कला गन्धादिभिः पूजयेत् । ताश् च- धूम्रार्चिर्-ऊष्मा-ज्वलिनी-ज्वालिनी-विस्फुलिङ्गिनी । सुश्रीः सुरूपा कपिला हव्य-वहा कव्यवहा ॥ इति । प्रयोगस् तु धूम्रार्चिषे नम इति
tad-anantaraṃ madhye-kamalaṃ kamala-madhye śālīn āḍhaka-parimitān tathā śubhrān śāly-aṣṭa-bhāga-parimitān taṇḍulān śreṣṭhān nyasyet sthāpayet | yad uktaṃ- śālīn vai karṇikāyāṃ ca nikṣipyāḍhaka-saṃmitān | taṇḍulāṃś ca tad-aṣṭāṃśān darbhaiḥ kūrcaiḥ pravinyaset || iti | tad-upari taṇḍulopari kūrcākṣata-yuktān darbhān vinyaset | kuśa-traya-ghaṭito brahma-granthiḥ kūrca-śabdenocyate kūrcaḥ kuśa-muṣṭir iti tripāṭhinaḥ | tad-upari kūrcopari kṛśānor vahner daśa kalā ya-kārādayo daśa-varṇā ādyāḥ prathamā yāsāṃ tāḥ prādakṣiṇyena nyaset tad-anantaraṃ imā daśa kalā gandhādibhiḥ pūjayet | tāś ca- dhūmrārcir-ūṣmā-jvalinī-jvālinī-visphuliṅginī | suśrīḥ surūpā kapilā havya-vahā kavyavahā || iti | prayogas tu dhūmrārciṣe nama iti
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.