पद्म-मध्ये हरिं पूजयेत् । पूर्वादि-दिक्-केशरेषु हृद्-आद्य्-अङ्ग-चतुष्टयम् । आग्नेयादि-विदिक्-केशरेषु अस्त्रम् अङ्गम् पूजयेत् । वासुदेव इति । पूर्वादि-दिक्-पत्रेषु वासुदेवादीन् पूजयेत् । आग्नेयादि-विदिक्-पत्रेषु रुक्मिण्य्-आद्याः पूजयेत् । तद्-बाह्ये स्व-स्व-दिक्षु इन्दादीन्, तद् अनु वज्रादीन् पूजयेद् इत्य् अर्थः
padma-madhye hariṃ pūjayet | pūrvādi-dik-keśareṣu hṛd-ādy-aṅga-catuṣṭayam | āgneyādi-vidik-keśareṣu astram aṅgam pūjayet | vāsudeva iti | pūrvādi-dik-patreṣu vāsudevādīn pūjayet | āgneyādi-vidik-patreṣu rukmiṇy-ādyāḥ pūjayet | tad-bāhye sva-sva-dikṣu indādīn, tad anu vajrādīn pūjayed ity arthaḥ
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.