आसनादि विभूषान्तं यथा स्याद् एवं पूजयेत् आसनम् आरभ्य भूषान्तैर् उपचारैः पूजयेद् इत्य् अर्थः । पुनर् न्यास-क्रमात् सृष्ट्य्-आदीन् यजेत् । प्रथमं सृष्ट्य्-आदीनां न्यासं विधाय ततस् तान् पूजयेत् । अथवा न्यास-क्रमाद् यथा तेषां न्यासः कृतस् तेन क्रमेणेत्य् अर्थः । गन्धाक्षतेति । अक्षता यवा गन्धाक्षत-पुष्पैश् च पूर्ववत् मूल-मन्त्रेण कृष्णं पूजयित्वा सप्तावृतीः सम्पूजयेद् इत्य् अर्थः
āsanādi vibhūṣāntaṃ yathā syād evaṃ pūjayet āsanam ārabhya bhūṣāntair upacāraiḥ pūjayed ity arthaḥ | punar nyāsa-kramāt sṛṣṭy-ādīn yajet | prathamaṃ sṛṣṭy-ādīnāṃ nyāsaṃ vidhāya tatas tān pūjayet | athavā nyāsa-kramād yathā teṣāṃ nyāsaḥ kṛtas tena krameṇety arthaḥ | gandhākṣateti | akṣatā yavā gandhākṣata-puṣpaiś ca pūrvavat mūla-mantreṇa kṛṣṇaṃ pūjayitvā saptāvṛtīḥ sampūjayed ity arthaḥ
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.