Library·Lalitavistara·17

Lalitavistara 17

भूयश्चास्यैतदभूत् - य इमे श्रमणब्राह्मणाः कामेभ्यो व्यपकृष्टकायचित्ता विहरन्ति, यापि तेषां कामेषु नन्दीति सर्वं कर्तव्यं यावज्ज्योतिं पर्येषत इति । स आर्द्रं काष्ठमादाय स्थले स्थापयित्वा आर्द्रां चोत्तरारणिं मथ्नीयात्, अभव्यो ऽसावग्निमुत्पादयितुम् । एवमेव ये इमे श्रमणब्राह्मणा इति सर्वं पूर्ववत्कार्यं यावदभव्या उत्तरिमनुष्यधर्मादलमार्यज्ञानदर्शनविशेषं साक्षात्कर्तुम् । इयं द्वितीया उपमा प्रतिभाति स्म पूर्वमश्रुता चाविज्ञाता च ॥ पुनरपरं य इमे श्रमणब्राह्मणा भवन्तः कामेभ्यो व्यपकृष्टकायचित्ता विहरन्ति, यापि तेषां कामेषु नन्दिः । इति सर्वं पेयालम् । तदप्येषामुपशान्तम् । किं चापि ते आत्मोपक्रमिकां शरीरोपतापिकां दुःखां तीव्रां खरां कटुकां वेदनां वेदयन्ते । अथ खलु पुनर्भव्या एव ते उत्तरिमनुष्यधर्मादलमार्यज्ञानदर्शनविशेषं साक्षात्कर्तुम् । तद्यथापि नाम इह स्यात्पुरुषो ऽग्न्यर्थी ज्योतिर्गवेषी ज्योतिः पर्येषमाणः, स शुष्कं काष्ठमादाय शुष्कां चोत्तरारणिं स्थले प्रतिष्ठाप्य मथ्नीयात्, स भव्यो ऽग्निमभिनिर्वर्तयितुं तेजः प्रादुष्कर्तुम् । एवमेव य इमे भवन्तः श्रमणब्राह्मणा इति सर्वं यावद्वेदनां वेदयन्त इति । अथ च पुनर्भव्या एव ते उत्तरिमनुष्यधर्मादलमार्यज्ञानदर्शनविशेषं साक्षात्कर्तुम् । इयं तृतीया उपमा प्रतिभाति स्म अश्रुतपूर्वा च अविज्ञातपूर्वा च ॥ अथ खलु भिक्षवो बोधिसत्त्वस्यैतदभूत् - अहं खल्वेतर्हि कामेभ्यो व्यपकृष्टकायो विहरामि व्यपकृष्टचित्तश्च । यापि मे कामेषु नन्दीति सर्वं यावत्तदपि मे उपशान्तम् । किं चापि अहमात्मोपक्रमिकां शरीरोपतापिकां दुःखामिति पेयालं यावद्वेदनां वेद्मि । अथ खल्वहं भव्य एवोत्तरिमनुष्यधर्मादलमार्यज्ञानदर्शनविशेषं साक्षात्कर्तुम् ॥ इति हि भिक्षवो बोधिसत्त्वो यथाभिप्रेतं गयायां विहृत्य गयाशीर्षे पर्वते जङ्गाविहारमनुचंक्रम्यमाणो येनोरुबिल्वा सेनापतिग्रामकस्तदनुसृतस्तदनुप्राप्तो ऽभूत् । तत्राद्राक्षीन्नदीं नैरञ्जनामच्छोदकां सूपतीर्थां प्रासादिकैश्च द्रुमगुल्मैरलंकृतां समन्ततश्च गोचरग्रामाम् । तत्र खल्वपि बोधिसत्त्वस्य मनो ऽतीव प्रसन्नमभूत् - समो बतायं भूमिप्रदेशो रमणीयः प्रतिसंलयनानुरूपः । पर्याप्तमिदं प्रहाणार्थिककुलपुत्रस्य । अहं च प्रहाणार्थी । यन्न्वहमिहैव तिष्ठेयम् ॥ इति हि भिक्षवो बोधिसत्त्वस्यैतदभूत् - पञ्चकषायकाले ऽहमिह जम्बुद्वीपे ऽवतीर्णो हीनाधिमुक्तिकेषु सत्त्वेष्वाकीर्णतीर्थ्यवर्गेषु नानादृष्टिप्रस्कन्नेषु कायपिण्डग्राहाभिनिविष्टेषु नानाविधैश्चातापनपरितापनैः कायशुद्धिं पर्येषन्ते, प्रज्ञापयन्ति च संमूढाः । तद्यथा - मन्त्रविचारकैर्हस्तप्रलेहकैर्नयाचनकैरनामन्त्रणकैरनेकमूलिकैरमत्स्यमांसकैरवार्षिकैः सुरातुषोदकर्वजनैरेकत्रिपञ्चसप्तकुलभिक्षाग्रहणैर्मूलफलशैवालककुशपत्रगोमयगोमूत्रपायसदधिसर्पिः फाणितामपिष्टकमभक्षणपानैः सारसिकापोतकसंदंशिकोत्सृष्टसंप्रक्षालकैः । ग्राम्यारण्याभिश्च वृत्तिभिः । गोव्रतमृगश्ववराहवानरहस्तिव्रतैश्च स्थानमौनवीरासनैश्च एकालापकैर्यावत्सप्तालापकैः । एकभक्ता एकाहोरात्रचातुर्थ्यपञ्चषट्कालान्तराश्च (वैद्य १८३) पक्षक्षपणमासक्षपणचान्द्रायणैश्च गृध्रोलूकपक्षधारणैश्च फलमुञ्जासनवल्कलदर्भबल्बजोष्ट्रकम्बलाजकम्बलकेशकम्बलचर्मनिवेशनैश्च आर्द्रपटास्तोपकजालशयनैश्च भस्मशर्करापाषाणफलककण्टकतृणमुसलशयनावाक्छिरोत्कुटुकस्थण्डिलशयनैश्च एकवासद्वित्रिचतुष्पञ्चषट्सप्तबहुवासोभिर्नग्नभावैश्च स्थानास्थानविधिभिश्च दीर्घकेशनखश्मश्रुजटामकुटधारणैश्च एककोलतिलतण्डुलाहारैश्च भस्ममसिनिर्माल्योद्धृततमोरजपांशुपङ्कपरिम्रक्षणैश्च लोममुञ्जकेशनखचीवरपञ्जरकरङ्कधारणैश्च उष्णोदकतण्डुलोदकपरिस्रावितकाम्बलिकस्थालीपानीयपानैश्च अङ्गारधातुकषायत्रिदण्डमुण्डिककुण्डिककपालखट्वाङ्गधारणैश्च शुद्धिं प्रत्यवगच्छन्ति संमूढाः । धूमपानाग्निपानादित्यनिरीक्षणपञ्चतपैकपादोर्ध्वबाहुस्थानैकचरणैश्च तपः संचिन्वन्ति । तुषाद्यङ्गारदाहनिकुम्भसाधनपक्वशिलापचनाग्निजलप्रवेशनमरुतीर्थगमनमरणैश्चेष्टां गतिं मृगयन्ते । ॐकारवषट्कारस्वधाकारस्वाहाकाराशीर्वचनस्तुतिचयनावाहनजप्यमन्त्राध्ययनधारणकरणैश्च शुद्धिं प्रत्यवगच्छन्ति । शुद्धं चात्मानं मन्यमाना इमानाश्रयन्ते । तद्यथा - ब्रह्मेन्द्ररुद्रविष्णुदेवीकुमारमातृकात्यायनीचन्द्रादित्यवैश्रवणवरुणवासवाश्विनौनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगराक्षसप्रेतभूतकुम्भाण्डपार्षदगणपतिपिशाचांश्च देवर्षिराजर्षिब्रह्मर्षीश्च नमस्यन्ति, तेषु च सारसंज्ञिनो भवन्ति । पृथिव्यप्तेजोवाय्वाकाशं चाश्रयन्ते । गिरीनदीनद्युत्ससरोह्रदतडागसागरसरःपल्वलपुष्करिणीकूपवृक्षगुल्मलतातृणस्थाणुगोष्ठश्मशान - चत्वरशृङ्गाटकान्तरापणमुखानि चाश्रयन्ते । गृहस्तम्भोपलमुसलासिधनुपरशुशरशक्तित्रिशूलांश्च नमस्यन्ति । दधिघृतसर्षपयवप्रतिसरादूर्वामणिकनकरजतादिभिश्च मङ्गलं प्रत्यवगच्छन्ति । एवंविधानि इमे तीर्थ्याः कुर्वन्ते, आश्रयन्ते च संसारभयभीताः ॥ इह च केचित्परत्र मन्यन्ते स्वर्गापवर्गावस्माकमेतेभ्यो निर्वर्त्स्येत इति मिथ्यामार्गप्रयाता अशरणे शरणसंज्ञिनो ऽमङ्गल्ये मङ्गलसंज्ञिनो ऽशुद्ध्या शुद्धिं मन्यतोयन्न्वहं तादृशं व्रततपोविशेषमालभेयं यथा सर्वपरप्रवादिनश्च निगृहीताः स्युः, कर्मक्रियाप्रणष्टानां च सत्त्वानां कर्मक्रियाविप्रणाशमादर्शयेयम् । ध्यानगोचराणां च रूपावचराणां च देवानां ध्यानविशेषोपदर्शनादावर्जनं कुर्यामिति ॥ इति हि भिक्षवो बोधिसत्त्व एवं चिन्तयित्वा षड्वर्षिकं महाघोरं व्रततपःसुदुष्करात्सुदुष्करां दुष्करचर्यामालभते स्म । केन कारणेनोच्यते दुष्करचर्येति? दुष्करकारिकैषा, तेनोच्यते दुष्करचर्येति । न स कश्चित्सत्त्वः सत्त्वनिकाये संविद्यते मनुष्यो वा अमनुष्यो वा, यः समर्थस्तथारूपं दुष्करं चरितुम्, अन्यत्र चरमभविकाद्बोधिसत्त्वात्, य आस्फानकध्यानं समापद्यते स्म । केन कारणेनोच्यते आस्फानकमिति? स चतुर्थध्यानमादित एव समापद्यमान आश्वासप्रश्वासानुपरोधयति संनिरोधयति । अकल्पं तद् ध्यानमविकल्पमनिञ्जनमपनीतमस्पन्दनं सर्वत्रानुगतं च सर्वत्र चानिश्रितम् । न च तद् ध्यानं जातु केनचित्समापन्नं पूर्वं शैष्येण वा अशैष्येण वा प्रत्येकबुद्धेन (वैद्य १८४) वा चर्याप्रतिपन्नेन वा बोधिसत्त्वेन । अतश्चास्फानकं नामोच्यते । आकाशमस्फरणमकरणमविकरणं तच्च सर्वं स्फरतीति ह्याकाशसमं तद् ध्यानम् । तेनोच्यते आस्फानकमिति ॥ अथ खलु भिक्षवो बोधिसत्त्वो लोकस्याश्चर्यसंदर्शनार्थं तीर्थिकानां च दर्पनिर्घातनार्थं परप्रवादिनां च निग्रहार्थं देवानां चावर्जनार्थमुच्छेदशाश्वतवादिनां च सत्त्वानां क्रर्मक्रियाप्रणष्टानां कर्मक्रियावतारणार्थं पुण्यफलोद्भावनार्थं ज्ञानफलसंदर्शनार्थं ध्यानाङ्गविभजनार्थ कायबलस्थामसंदर्शनार्थं चित्तशौर्यसंजननार्थं च असंस्कृतायां पृथिव्यां पर्यङ्कमाभुज्य निषीदति स्म । निषद्य च स्वकायं चेतसा निगृह्णीते स्म, निष्पीडयति स्म ॥ ततो मे भिक्षवो हैमन्तिकास्वष्टकरात्रिषु तथा कायं निगृह्णतो निष्पीडयतः कक्षाभ्यामपि स्वेदाः प्रश्रवन्ति स्म । ललाटादपि स्वेदाः प्रश्रवन्ति स्म । भूमौ निपतन्ति स्म अवश्यायन्त ऊष्मायन्तो बाष्पायन्तः । तद्यथापि नाम बलवान् पुरुषो दुर्बलतरं पुरुषं ग्रीवायां गृहीत्वा निष्पीडयेत्, एवमेव भिक्षव इमं कायं चेतसा निगृह्णतो निष्पीडयतः कक्षाभ्यामपि स्वेदाः प्रश्रवन्ति स्म । ललाटादपि स्वेदाः प्रश्रवन्ति स्म । भूभौ निपतन्ति स्म अवश्यायन्त ऊष्मायन्तो बाष्पायन्तः ॥ तस्य मे भिक्षव एतदभूत् - यन्न्वहमास्फानकं ध्यानं ध्यायेयम् । ततो मे भिक्षव आस्फानकं ध्यानं ध्यायतो मुखतो नासिकातश्चाश्वासप्रश्वासा उपनिरुद्धावभूताम् । कर्णछिद्राभ्यामुच्चशब्दा महाशब्दा निश्चरन्ति स्म । तद्यथापि नाम कर्मारगगया मथ्यमानायामुच्चशब्दो महाशब्दो निश्चरति, एवमेव मे भिक्षवो मुखनासिकाभ्यामाश्वासप्रश्वासावुपरुद्धावभूतां श्रोतछिद्राभ्यामुच्चशब्दो महाशब्दो निश्चरति स्म ॥ तस्य मे भिक्षव एतदभूत् - यन्न्वहं भूय आस्फानकं ध्यानं ध्यायेयमिति । ततो मे भिक्षवो मुखनासिकाश्रोत्राण्युपरुद्धानि चाभूवन् । तेषूपरुद्धेषु वायुरुर्ध्वं शिरःकपालमुपनिहन्ति स्म । तद्यथापि नाम भिक्षवः पुरुषः कुण्डया शक्त्या शिरःकपालमुपहन्याद्, एवमेव मे भिक्षवो मुखनासिकाश्रोत्रेषूपरुद्धेषु आश्वासप्रश्वासा उर्ध्वं शिरःकपालमुपनिघ्नन्ति स्म ॥ तां चावस्थां दृष्ट्वा बोधिसत्त्वस्य तत्र केचिद्देवा एवमाहु - कष्टं भोः कालगतो बतायं सिद्धार्थः कुमारः । अपरे एवमाहुः - नायं कालगतः । अपि तुध्यानविहार एषो ऽर्हतामेवंविध इति । तस्यां च वेलायमिमां गाथामभाषन्त - मा खल्वयं शाक्यनरेन्द्रगर्भो ह्यपूर्णसंकल्प इहैव रण्ये । कृत्वा त्रिलोकं दुखितं ह्यनाथं कालं करिष्यत्यकृतार्थ एव

bhūyaścāsyaitadabhūt - ya ime śramaṇabrāhmaṇāḥ kāmebhyo vyapakṛṣṭakāyacittā viharanti, yāpi teṣāṃ kāmeṣu nandīti sarvaṃ kartavyaṃ yāvajjyotiṃ paryeṣata iti / sa ārdraṃ kāṣṭhamādāya sthale sthāpayitvā ārdrāṃ cottarāraṇiṃ mathnīyāt, abhavyo 'sāvagnimutpādayitum / evameva ye ime śramaṇabrāhmaṇā iti sarvaṃ pūrvavatkāryaṃ yāvadabhavyā uttarimanuṣyadharmādalamāryajñānadarśanaviśeṣaṃ sākṣātkartum / iyaṃ dvitīyā upamā pratibhāti sma pūrvamaśrutā cāvijñātā ca // punaraparaṃ ya ime śramaṇabrāhmaṇā bhavantaḥ kāmebhyo vyapakṛṣṭakāyacittā viharanti, yāpi teṣāṃ kāmeṣu nandiḥ / iti sarvaṃ peyālam / tadapyeṣāmupaśāntam / kiṃ cāpi te ātmopakramikāṃ śarīropatāpikāṃ duḥkhāṃ tīvrāṃ kharāṃ kaṭukāṃ vedanāṃ vedayante / atha khalu punarbhavyā eva te uttarimanuṣyadharmādalamāryajñānadarśanaviśeṣaṃ sākṣātkartum / tadyathāpi nāma iha syātpuruṣo 'gnyarthī jyotirgaveṣī jyotiḥ paryeṣamāṇaḥ, sa śuṣkaṃ kāṣṭhamādāya śuṣkāṃ cottarāraṇiṃ sthale pratiṣṭhāpya mathnīyāt, sa bhavyo 'gnimabhinirvartayituṃ tejaḥ prāduṣkartum / evameva ya ime bhavantaḥ śramaṇabrāhmaṇā iti sarvaṃ yāvadvedanāṃ vedayanta iti / atha ca punarbhavyā eva te uttarimanuṣyadharmādalamāryajñānadarśanaviśeṣaṃ sākṣātkartum / iyaṃ tṛtīyā upamā pratibhāti sma aśrutapūrvā ca avijñātapūrvā ca // atha khalu bhikṣavo bodhisattvasyaitadabhūt - ahaṃ khalvetarhi kāmebhyo vyapakṛṣṭakāyo viharāmi vyapakṛṣṭacittaśca / yāpi me kāmeṣu nandīti sarvaṃ yāvattadapi me upaśāntam / kiṃ cāpi ahamātmopakramikāṃ śarīropatāpikāṃ duḥkhāmiti peyālaṃ yāvadvedanāṃ vedmi / atha khalvahaṃ bhavya evottarimanuṣyadharmādalamāryajñānadarśanaviśeṣaṃ sākṣātkartum // iti hi bhikṣavo bodhisattvo yathābhipretaṃ gayāyāṃ vihṛtya gayāśīrṣe parvate jaṅgāvihāramanucaṃkramyamāṇo yenorubilvā senāpatigrāmakastadanusṛtastadanuprāpto 'bhūt / tatrādrākṣīnnadīṃ nairañjanāmacchodakāṃ sūpatīrthāṃ prāsādikaiśca drumagulmairalaṃkṛtāṃ samantataśca gocaragrāmām / tatra khalvapi bodhisattvasya mano 'tīva prasannamabhūt - samo batāyaṃ bhūmipradeśo ramaṇīyaḥ pratisaṃlayanānurūpaḥ / paryāptamidaṃ prahāṇārthikakulaputrasya / ahaṃ ca prahāṇārthī / yannvahamihaiva tiṣṭheyam // iti hi bhikṣavo bodhisattvasyaitadabhūt - pañcakaṣāyakāle 'hamiha jambudvīpe 'vatīrṇo hīnādhimuktikeṣu sattveṣvākīrṇatīrthyavargeṣu nānādṛṣṭipraskanneṣu kāyapiṇḍagrāhābhiniviṣṭeṣu nānāvidhaiścātāpanaparitāpanaiḥ kāyaśuddhiṃ paryeṣante, prajñāpayanti ca saṃmūḍhāḥ / tadyathā - mantravicārakairhastapralehakairnayācanakairanāmantraṇakairanekamūlikairamatsyamāṃsakairavārṣikaiḥ surātuṣodakarvajanairekatripañcasaptakulabhikṣāgrahaṇairmūlaphalaśaivālakakuśapatragomayagomūtrapāyasadadhisarpiḥ phāṇitāmapiṣṭakamabhakṣaṇapānaiḥ sārasikāpotakasaṃdaṃśikotsṛṣṭasaṃprakṣālakaiḥ / grāmyāraṇyābhiśca vṛttibhiḥ / govratamṛgaśvavarāhavānarahastivrataiśca sthānamaunavīrāsanaiśca ekālāpakairyāvatsaptālāpakaiḥ / ekabhaktā ekāhorātracāturthyapañcaṣaṭkālāntarāśca (Vaidya 183) pakṣakṣapaṇamāsakṣapaṇacāndrāyaṇaiśca gṛdhrolūkapakṣadhāraṇaiśca phalamuñjāsanavalkaladarbhabalbajoṣṭrakambalājakambalakeśakambalacarmaniveśanaiśca ārdrapaṭāstopakajālaśayanaiśca bhasmaśarkarāpāṣāṇaphalakakaṇṭakatṛṇamusalaśayanāvākchirotkuṭukasthaṇḍilaśayanaiśca ekavāsadvitricatuṣpañcaṣaṭsaptabahuvāsobhirnagnabhāvaiśca sthānāsthānavidhibhiśca dīrghakeśanakhaśmaśrujaṭāmakuṭadhāraṇaiśca ekakolatilataṇḍulāhāraiśca bhasmamasinirmālyoddhṛtatamorajapāṃśupaṅkaparimrakṣaṇaiśca lomamuñjakeśanakhacīvarapañjarakaraṅkadhāraṇaiśca uṣṇodakataṇḍulodakaparisrāvitakāmbalikasthālīpānīyapānaiśca aṅgāradhātukaṣāyatridaṇḍamuṇḍikakuṇḍikakapālakhaṭvāṅgadhāraṇaiśca śuddhiṃ pratyavagacchanti saṃmūḍhāḥ / dhūmapānāgnipānādityanirīkṣaṇapañcatapaikapādordhvabāhusthānaikacaraṇaiśca tapaḥ saṃcinvanti / tuṣādyaṅgāradāhanikumbhasādhanapakvaśilāpacanāgnijalapraveśanamarutīrthagamanamaraṇaiśceṣṭāṃ gatiṃ mṛgayante / oṃkāravaṣaṭkārasvadhākārasvāhākārāśīrvacanastuticayanāvāhanajapyamantrādhyayanadhāraṇakaraṇaiśca śuddhiṃ pratyavagacchanti / śuddhaṃ cātmānaṃ manyamānā imānāśrayante / tadyathā - brahmendrarudraviṣṇudevīkumāramātṛkātyāyanīcandrādityavaiśravaṇavaruṇavāsavāśvinaunāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasapretabhūtakumbhāṇḍapārṣadagaṇapatipiśācāṃśca devarṣirājarṣibrahmarṣīśca namasyanti, teṣu ca sārasaṃjñino bhavanti / pṛthivyaptejovāyvākāśaṃ cāśrayante / girīnadīnadyutsasarohradataḍāgasāgarasaraḥpalvalapuṣkariṇīkūpavṛkṣagulmalatātṛṇasthāṇugoṣṭhaśmaśāna - catvaraśṛṅgāṭakāntarāpaṇamukhāni cāśrayante / gṛhastambhopalamusalāsidhanuparaśuśaraśaktitriśūlāṃśca namasyanti / dadhighṛtasarṣapayavapratisarādūrvāmaṇikanakarajatādibhiśca maṅgalaṃ pratyavagacchanti / evaṃvidhāni ime tīrthyāḥ kurvante, āśrayante ca saṃsārabhayabhītāḥ // iha ca kecitparatra manyante svargāpavargāvasmākametebhyo nirvartsyeta iti mithyāmārgaprayātā aśaraṇe śaraṇasaṃjñino 'maṅgalye maṅgalasaṃjñino 'śuddhyā śuddhiṃ manyatoyannvahaṃ tādṛśaṃ vratatapoviśeṣamālabheyaṃ yathā sarvaparapravādinaśca nigṛhītāḥ syuḥ, karmakriyāpraṇaṣṭānāṃ ca sattvānāṃ karmakriyāvipraṇāśamādarśayeyam / dhyānagocarāṇāṃ ca rūpāvacarāṇāṃ ca devānāṃ dhyānaviśeṣopadarśanādāvarjanaṃ kuryāmiti // iti hi bhikṣavo bodhisattva evaṃ cintayitvā ṣaḍvarṣikaṃ mahāghoraṃ vratatapaḥsuduṣkarātsuduṣkarāṃ duṣkaracaryāmālabhate sma / kena kāraṇenocyate duṣkaracaryeti? duṣkarakārikaiṣā, tenocyate duṣkaracaryeti / na sa kaścitsattvaḥ sattvanikāye saṃvidyate manuṣyo vā amanuṣyo vā, yaḥ samarthastathārūpaṃ duṣkaraṃ caritum, anyatra caramabhavikādbodhisattvāt, ya āsphānakadhyānaṃ samāpadyate sma / kena kāraṇenocyate āsphānakamiti? sa caturthadhyānamādita eva samāpadyamāna āśvāsapraśvāsānuparodhayati saṃnirodhayati / akalpaṃ tad dhyānamavikalpamaniñjanamapanītamaspandanaṃ sarvatrānugataṃ ca sarvatra cāniśritam / na ca tad dhyānaṃ jātu kenacitsamāpannaṃ pūrvaṃ śaiṣyeṇa vā aśaiṣyeṇa vā pratyekabuddhena (Vaidya 184) vā caryāpratipannena vā bodhisattvena / ataścāsphānakaṃ nāmocyate / ākāśamaspharaṇamakaraṇamavikaraṇaṃ tacca sarvaṃ spharatīti hyākāśasamaṃ tad dhyānam / tenocyate āsphānakamiti // atha khalu bhikṣavo bodhisattvo lokasyāścaryasaṃdarśanārthaṃ tīrthikānāṃ ca darpanirghātanārthaṃ parapravādināṃ ca nigrahārthaṃ devānāṃ cāvarjanārthamucchedaśāśvatavādināṃ ca sattvānāṃ krarmakriyāpraṇaṣṭānāṃ karmakriyāvatāraṇārthaṃ puṇyaphalodbhāvanārthaṃ jñānaphalasaṃdarśanārthaṃ dhyānāṅgavibhajanārtha kāyabalasthāmasaṃdarśanārthaṃ cittaśauryasaṃjananārthaṃ ca asaṃskṛtāyāṃ pṛthivyāṃ paryaṅkamābhujya niṣīdati sma / niṣadya ca svakāyaṃ cetasā nigṛhṇīte sma, niṣpīḍayati sma // tato me bhikṣavo haimantikāsvaṣṭakarātriṣu tathā kāyaṃ nigṛhṇato niṣpīḍayataḥ kakṣābhyāmapi svedāḥ praśravanti sma / lalāṭādapi svedāḥ praśravanti sma / bhūmau nipatanti sma avaśyāyanta ūṣmāyanto bāṣpāyantaḥ / tadyathāpi nāma balavān puruṣo durbalataraṃ puruṣaṃ grīvāyāṃ gṛhītvā niṣpīḍayet, evameva bhikṣava imaṃ kāyaṃ cetasā nigṛhṇato niṣpīḍayataḥ kakṣābhyāmapi svedāḥ praśravanti sma / lalāṭādapi svedāḥ praśravanti sma / bhūbhau nipatanti sma avaśyāyanta ūṣmāyanto bāṣpāyantaḥ // tasya me bhikṣava etadabhūt - yannvahamāsphānakaṃ dhyānaṃ dhyāyeyam / tato me bhikṣava āsphānakaṃ dhyānaṃ dhyāyato mukhato nāsikātaścāśvāsapraśvāsā upaniruddhāvabhūtām / karṇachidrābhyāmuccaśabdā mahāśabdā niścaranti sma / tadyathāpi nāma karmāragagayā mathyamānāyāmuccaśabdo mahāśabdo niścarati, evameva me bhikṣavo mukhanāsikābhyāmāśvāsapraśvāsāvuparuddhāvabhūtāṃ śrotachidrābhyāmuccaśabdo mahāśabdo niścarati sma // tasya me bhikṣava etadabhūt - yannvahaṃ bhūya āsphānakaṃ dhyānaṃ dhyāyeyamiti / tato me bhikṣavo mukhanāsikāśrotrāṇyuparuddhāni cābhūvan / teṣūparuddheṣu vāyururdhvaṃ śiraḥkapālamupanihanti sma / tadyathāpi nāma bhikṣavaḥ puruṣaḥ kuṇḍayā śaktyā śiraḥkapālamupahanyād, evameva me bhikṣavo mukhanāsikāśrotreṣūparuddheṣu āśvāsapraśvāsā urdhvaṃ śiraḥkapālamupanighnanti sma // tāṃ cāvasthāṃ dṛṣṭvā bodhisattvasya tatra keciddevā evamāhu - kaṣṭaṃ bhoḥ kālagato batāyaṃ siddhārthaḥ kumāraḥ / apare evamāhuḥ - nāyaṃ kālagataḥ / api tudhyānavihāra eṣo 'rhatāmevaṃvidha iti / tasyāṃ ca velāyamimāṃ gāthāmabhāṣanta - mā khalvayaṃ śākyanarendragarbho hyapūrṇasaṃkalpa ihaiva raṇye / kṛtvā trilokaṃ dukhitaṃ hyanāthaṃ kālaṃ kariṣyatyakṛtārtha eva

Sanskrit only: no published translation is held for this verse.

वयं पुरा ते तुषितेषु नाथा क्व सा प्रतिज्ञा तव शुद्धसत्त्व

vayaṃ purā te tuṣiteṣu nāthā kva sā pratijñā tava śuddhasattva

Sanskrit only: no published translation is held for this verse.

अथ ते देवपुत्रास्त्रायत्रिंशेषु देवेषु गत्वा मायादेव्या एवमर्थं श्रावयन्ति - कालगतः कुमारः । अथ मायादेवी अप्सरागणपरिवृता अर्धरात्रसमये नैरञ्जनायास्तीरे येन बोधिसत्त्वस्तेनोपसंक्रान्ता । सा पश्यति स्म बोधिसत्त्वं शुष्कगात्रम् । कालगतमिव दृष्ट्वा बाष्पगद्गदकण्ठा रोदितुमारब्धा । तस्यां च वेलायामिमां गाथामभाषत - यदा जातो ऽसि मे पुत्र वने लुम्बिनिसाह्वये । सिंहवच्चागृहीतस्त्वं प्रक्रान्तः सप्त पदा स्वयम्

atha te devaputrāstrāyatriṃśeṣu deveṣu gatvā māyādevyā evamarthaṃ śrāvayanti - kālagataḥ kumāraḥ / atha māyādevī apsarāgaṇaparivṛtā ardharātrasamaye nairañjanāyāstīre yena bodhisattvastenopasaṃkrāntā / sā paśyati sma bodhisattvaṃ śuṣkagātram / kālagatamiva dṛṣṭvā bāṣpagadgadakaṇṭhā roditumārabdhā / tasyāṃ ca velāyāmimāṃ gāthāmabhāṣata - yadā jāto 'si me putra vane lumbinisāhvaye / siṃhavaccāgṛhītastvaṃ prakrāntaḥ sapta padā svayam

Sanskrit only: no published translation is held for this verse.

दिशां चालोक्य चतुरे वाचा ते प्रव्याहृता शुभा । इयं मे पश्चिमा जातिः सा ते न परिपूरिता

diśāṃ cālokya cature vācā te pravyāhṛtā śubhā / iyaṃ me paścimā jātiḥ sā te na paripūritā

Sanskrit only: no published translation is held for this verse.

असितेनाभिनिर्दिष्टो बुद्धो लोके भविष्यसि । क्षुण्णं व्याकरणं तस्य न दृष्टा तेन नित्यता

asitenābhinirdiṣṭo buddho loke bhaviṣyasi / kṣuṇṇaṃ vyākaraṇaṃ tasya na dṛṣṭā tena nityatā

Sanskrit only: no published translation is held for this verse.

चक्रवर्तिश्रियं पुत्र नपि भुक्ता मनोरमा । न च बोधिमनुप्राप्तो यातो ऽसि निधनं वने

cakravartiśriyaṃ putra napi bhuktā manoramā / na ca bodhimanuprāpto yāto 'si nidhanaṃ vane

Sanskrit only: no published translation is held for this verse.

पुत्रार्थे कं प्रपद्यामि कं व क्रन्दामि दुःखिता । को मे दद्येकपुत्रस्य किंचित्प्राणस्य जीवितम्

putrārthe kaṃ prapadyāmi kaṃ va krandāmi duḥkhitā / ko me dadyekaputrasya kiṃcitprāṇasya jīvitam

Sanskrit only: no published translation is held for this verse.

बोधिसत्त्व आह - कैषा अति त्वां करुणं रुदासि प्रकीर्णकेशा विनिवृत्तशोभा । पुत्रं ह्यतीवा परिदेवयन्ती विचेष्टमाना धरणीतलस्था

bodhisattva āha - kaiṣā ati tvāṃ karuṇaṃ rudāsi prakīrṇakeśā vinivṛttaśobhā / putraṃ hyatīvā paridevayantī viceṣṭamānā dharaṇītalasthā

Sanskrit only: no published translation is held for this verse.

मायादेवी आह - मया तु दशमासां वै कुक्षौ वज्र इवा धृतः । सा ते ऽहं पुत्रका माता विलपामि सुदुःखिता

māyādevī āha - mayā tu daśamāsāṃ vai kukṣau vajra ivā dhṛtaḥ / sā te 'haṃ putrakā mātā vilapāmi suduḥkhitā

Sanskrit only: no published translation is held for this verse.

यस्मान्न शोको त्वयि अत्र कार्यो न वै चिराद् द्रक्ष्यसि बुद्धबोधिम्

yasmānna śoko tvayi atra kāryo na vai cirād drakṣyasi buddhabodhim

Sanskrit only: no published translation is held for this verse.

तस्य मे भिक्षव एतदभूत् - यन्न्वहं भूयस्या मात्रयाल्पाहारतायै प्रतिपद्येयमिति । अभिजानाम्यहं भिक्षव एकमेव तिलमद्वितीयमाहारमाहारयितुम् । पेयालं । यावत्साप्यस्य शुभवर्णतनुरन्तर्हितेति ॥ तस्य मे भिक्षव एतदभूत् - सन्त्येके श्रमणब्राह्मणा ये ऽनाहारतया शुद्धिं मन्यन्ते । यन्न्वहं सर्वेण सर्वमनाहारतायै प्रतिपद्येयमिति । ततो ऽहं भिक्षवो ऽनाहारस्थितो ऽभूवन् । तस्य मे भिक्षवो ऽनाहारस्य कायो ऽतीव शुष्को ऽभूत् कृशो दुर्बलः, तद्यथापि नाम आसितकीपर्वाणि वा कालापर्वाणि वा । ततो द्विगुणत्रिगुणचतुर्गुणपञ्चगुणदशगुणं मे कृशान्यङ्गप्रत्यङ्गान्यभूवन् । तद्यथा कर्कटकपार्शुका वाहनशालायां वा गोपानसी (पार्श्वे) द्विपरिवर्तना वेणीवत्पृष्ठीकण्टकः । तिक्तालाबुवच्छिरःकपालम्, कूपतारका इवाक्षितारके । सो ऽहं भिक्षवः साधुकमुत्तिष्ठामीति गात्राण्यभिसंस्कुर्वन्नवकुब्जः प्रापतम् । कृच्छ्रेणापि चोत्थितः पांशुकृतानि मे गात्राणि प्रमृजतः पूतिमूलानि रोमाण्यशीर्यन्त । यापि मे साभूच्छुभवर्णतनुनिभा, साप्यन्तरधात् । तद्यथापि तद्रूक्षप्रधानप्रहितात्मकत्वात् । सामन्ताश्च मे गोचरग्रामवासिनो जना एवं संजानन्ते स्म - कालको बत भोः श्रमणो गौतमः । श्यामको बत भोः श्रमणो गौतमः । मद्गुरच्छविर्बत भोः श्रमणो गौतमः । याप्यस्य साभूत्पौराणी शुभवर्णनिभा साप्यन्तर्हितेति ॥ राजापि तदा शुद्धोदनः प्रतिप्रतिदिवसं बोधिसत्त्वस्यान्तिके दूतं प्रेषयति स्म ॥ इति हि भिक्षवो बोधिसत्त्वो लोकस्याद्भुतक्रियासंदर्शनार्थं पूर्ववद्यावत्कर्मक्रियाप्रणष्टानां सत्त्वानां कर्मक्रियावतारणार्थं पुण्यसंचयानां चोद्भावनार्थं महाज्ञानस्य च गुणसंदर्शनार्थं ध्यानाङ्गानां च विभजनार्थमेकतिलकोलतण्डुलेन षड्वर्षाणि दुष्करचर्यामनुवर्तयन्तमुपदर्शयति स्म । अदीनमानसः षड्वर्षा बोधिसत्त्वो यथा निषण्ण एवास्थात् पर्यङ्केन । न च ईर्यापथाच्च्यवते स्म । नातपाच्छायामगमन्न छायाया आतपम् । न च वातातपवृष्टिपरित्राणमकरोन्न च दंशमशकसरीसृपानपनयति स्म । न चोच्चारप्रश्रावश्लेष्मसिंहाणकानुत्सृजति स्म । न च समिञ्जनप्रसारणमकरोत् । न च पार्श्वोदरपृष्ठस्थानेनास्थात् । ये ऽपि च ते महामेघा दुर्दिनवर्षाशनिशरद्ग्रीष्महैमन्तिकाः, ते ऽपि बोधिसत्त्वस्य काये निपतन्ति स्म । न चान्ततो बोधिसत्त्वः पाणिनापि प्रच्छादनमकरोत् । न चेन्द्रियाणि पिथयति स्म । न चेन्द्रियार्थान् गृह्णिते स्म । ये च तत्रागमन् ग्रामकुमारका वा ग्रामकुमारिका वा गोपालका वा पशुपालका वा तृणहारिका वा काष्ठहारिका वा गोमयहारिका वा, ते बोधिसत्त्वं पांशुपिशाचमिति मन्यन्ते स्म । तेन च क्रीडन्ति स्म । पांशुभिश्चैनं म्रक्षयन्ति स्म ॥ तत्र बोधिसत्त्वस्तैः षड्भिर्वर्षैस्तावल्लूहन्यूनदुर्बलकायः संवृत्तो ऽभूत्, यदस्य कर्णश्रोताभ्यां तृणतूलकं प्रक्षिप्य नासाश्रोताभ्यां निष्कास्यते स्म । नासाश्रोताभ्यां प्रक्षिप्य कर्णश्रोताभ्यां (वैद्य १८८) निष्कास्यते स्म । कर्णश्रोताभ्यां प्रक्षिप्य मुखद्वारेण निष्कास्यते स्म । मुखद्वारेण प्रक्षिप्य कर्णनासिकाश्रोताभ्यो निष्कास्यते स्म । नासायां प्रक्षिप्य कर्णनासिकामुखद्वारेण निष्कास्यते स्म ॥ ये च ते देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगा मनुष्यामनुष्या बोधिसत्त्वस्य गुणेषु प्रत्यक्षाः, ते रात्रिंदिवं समधिष्ठा बोधिसत्त्वस्य पूजां कुर्वन्ति स्म । प्रणिधानानि च कुर्वन्ति स्म ॥ तत्र बोधिसत्त्वेन तै षड्भिर्वर्षैर्दुष्करचर्यां संदर्शयता परिपूर्णानि द्वादशनयुतानि देवमनुष्याणां त्रिभिर्यानैः परिपाचितान्यभूवन् ॥ तत्रेदमुच्यते - तस्य च गुणान्वितस्य पुराद्विनिष्क्रम्य बोधिसत्त्वस्य । चिन्ता उपाययुक्ता सत्त्वार्थहिताय उत्पन्ना

tasya me bhikṣava etadabhūt - yannvahaṃ bhūyasyā mātrayālpāhāratāyai pratipadyeyamiti / abhijānāmyahaṃ bhikṣava ekameva tilamadvitīyamāhāramāhārayitum / peyālaṃ / yāvatsāpyasya śubhavarṇatanurantarhiteti // tasya me bhikṣava etadabhūt - santyeke śramaṇabrāhmaṇā ye 'nāhāratayā śuddhiṃ manyante / yannvahaṃ sarveṇa sarvamanāhāratāyai pratipadyeyamiti / tato 'haṃ bhikṣavo 'nāhārasthito 'bhūvan / tasya me bhikṣavo 'nāhārasya kāyo 'tīva śuṣko 'bhūt kṛśo durbalaḥ, tadyathāpi nāma āsitakīparvāṇi vā kālāparvāṇi vā / tato dviguṇatriguṇacaturguṇapañcaguṇadaśaguṇaṃ me kṛśānyaṅgapratyaṅgānyabhūvan / tadyathā karkaṭakapārśukā vāhanaśālāyāṃ vā gopānasī (pārśve) dviparivartanā veṇīvatpṛṣṭhīkaṇṭakaḥ / tiktālābuvacchiraḥkapālam, kūpatārakā ivākṣitārake / so 'haṃ bhikṣavaḥ sādhukamuttiṣṭhāmīti gātrāṇyabhisaṃskurvannavakubjaḥ prāpatam / kṛcchreṇāpi cotthitaḥ pāṃśukṛtāni me gātrāṇi pramṛjataḥ pūtimūlāni romāṇyaśīryanta / yāpi me sābhūcchubhavarṇatanunibhā, sāpyantaradhāt / tadyathāpi tadrūkṣapradhānaprahitātmakatvāt / sāmantāśca me gocaragrāmavāsino janā evaṃ saṃjānante sma - kālako bata bhoḥ śramaṇo gautamaḥ / śyāmako bata bhoḥ śramaṇo gautamaḥ / madguracchavirbata bhoḥ śramaṇo gautamaḥ / yāpyasya sābhūtpaurāṇī śubhavarṇanibhā sāpyantarhiteti // rājāpi tadā śuddhodanaḥ pratipratidivasaṃ bodhisattvasyāntike dūtaṃ preṣayati sma // iti hi bhikṣavo bodhisattvo lokasyādbhutakriyāsaṃdarśanārthaṃ pūrvavadyāvatkarmakriyāpraṇaṣṭānāṃ sattvānāṃ karmakriyāvatāraṇārthaṃ puṇyasaṃcayānāṃ codbhāvanārthaṃ mahājñānasya ca guṇasaṃdarśanārthaṃ dhyānāṅgānāṃ ca vibhajanārthamekatilakolataṇḍulena ṣaḍvarṣāṇi duṣkaracaryāmanuvartayantamupadarśayati sma / adīnamānasaḥ ṣaḍvarṣā bodhisattvo yathā niṣaṇṇa evāsthāt paryaṅkena / na ca īryāpathāccyavate sma / nātapācchāyāmagamanna chāyāyā ātapam / na ca vātātapavṛṣṭiparitrāṇamakaronna ca daṃśamaśakasarīsṛpānapanayati sma / na coccārapraśrāvaśleṣmasiṃhāṇakānutsṛjati sma / na ca samiñjanaprasāraṇamakarot / na ca pārśvodarapṛṣṭhasthānenāsthāt / ye 'pi ca te mahāmeghā durdinavarṣāśaniśaradgrīṣmahaimantikāḥ, te 'pi bodhisattvasya kāye nipatanti sma / na cāntato bodhisattvaḥ pāṇināpi pracchādanamakarot / na cendriyāṇi pithayati sma / na cendriyārthān gṛhṇite sma / ye ca tatrāgaman grāmakumārakā vā grāmakumārikā vā gopālakā vā paśupālakā vā tṛṇahārikā vā kāṣṭhahārikā vā gomayahārikā vā, te bodhisattvaṃ pāṃśupiśācamiti manyante sma / tena ca krīḍanti sma / pāṃśubhiścainaṃ mrakṣayanti sma // tatra bodhisattvastaiḥ ṣaḍbhirvarṣaistāvallūhanyūnadurbalakāyaḥ saṃvṛtto 'bhūt, yadasya karṇaśrotābhyāṃ tṛṇatūlakaṃ prakṣipya nāsāśrotābhyāṃ niṣkāsyate sma / nāsāśrotābhyāṃ prakṣipya karṇaśrotābhyāṃ (Vaidya 188) niṣkāsyate sma / karṇaśrotābhyāṃ prakṣipya mukhadvāreṇa niṣkāsyate sma / mukhadvāreṇa prakṣipya karṇanāsikāśrotābhyo niṣkāsyate sma / nāsāyāṃ prakṣipya karṇanāsikāmukhadvāreṇa niṣkāsyate sma // ye ca te devanāgayakṣagandharvāsuragaruḍakinnaramahoragā manuṣyāmanuṣyā bodhisattvasya guṇeṣu pratyakṣāḥ, te rātriṃdivaṃ samadhiṣṭhā bodhisattvasya pūjāṃ kurvanti sma / praṇidhānāni ca kurvanti sma // tatra bodhisattvena tai ṣaḍbhirvarṣairduṣkaracaryāṃ saṃdarśayatā paripūrṇāni dvādaśanayutāni devamanuṣyāṇāṃ tribhiryānaiḥ paripācitānyabhūvan // tatredamucyate - tasya ca guṇānvitasya purādviniṣkramya bodhisattvasya / cintā upāyayuktā sattvārthahitāya utpannā

Sanskrit only: no published translation is held for this verse.

पञ्चसु कषायकाले हीने ऽधर्माधिमुक्तिके लोके । जातो ऽस्मि जम्बुद्विपे धर्मक्रियौद्धुरे लोके

pañcasu kaṣāyakāle hīne 'dharmādhimuktike loke / jāto 'smi jambudvipe dharmakriyauddhure loke

Sanskrit only: no published translation is held for this verse.

आकीर्ण तीर्थिकगणैः कौतूहलमङ्गलैरिमे युक्ता । कायोपक्रमकरणैर्मन्यन्ते बालिशाः शुद्धिम्

ākīrṇa tīrthikagaṇaiḥ kautūhalamaṅgalairime yuktā / kāyopakramakaraṇairmanyante bāliśāḥ śuddhim

Sanskrit only: no published translation is held for this verse.

अग्निप्रवेशमरुप्रपातपांशुभस्मादिमक्षिता नग्नाः । कायपरितापनार्थं पञ्चातपयोगमनुयुक्ताः

agnipraveśamaruprapātapāṃśubhasmādimakṣitā nagnāḥ / kāyaparitāpanārthaṃ pañcātapayogamanuyuktāḥ

Sanskrit only: no published translation is held for this verse.

मन्त्राविचारकरणा केचिद्धस्तावलेहका अबुधाः । न च कुम्भमुखकरोटान्न धारकुशलान्तराच्च गृह्णन्ति

mantrāvicārakaraṇā keciddhastāvalehakā abudhāḥ / na ca kumbhamukhakaroṭānna dhārakuśalāntarācca gṛhṇanti

Sanskrit only: no published translation is held for this verse.

न च यत्र स्वानुभवती न चाहितं तेन तिष्ठवाक्यस्य । कुलभिक्ष एक गृह्या शुद्धं मन्यन्तिहात्मानम्

na ca yatra svānubhavatī na cāhitaṃ tena tiṣṭhavākyasya / kulabhikṣa eka gṛhyā śuddhaṃ manyantihātmānam

Sanskrit only: no published translation is held for this verse.

वर्जेन्ति सर्पितैलं फाणितदधिदुग्धमत्स्यमांसानि । श्यामाकशाकभक्षा मृणालगर्डुलकणाभक्षाः

varjenti sarpitailaṃ phāṇitadadhidugdhamatsyamāṃsāni / śyāmākaśākabhakṣā mṛṇālagarḍulakaṇābhakṣāḥ

Sanskrit only: no published translation is held for this verse.

मूलफलपत्रभक्षाः कुशचीवरचर्मकम्बलधराश्च । अपरे भ्रमन्ति नग्नाः सत्यमिदं मोहमन्यदिति मूढाः

mūlaphalapatrabhakṣāḥ kuśacīvaracarmakambaladharāśca / apare bhramanti nagnāḥ satyamidaṃ mohamanyaditi mūḍhāḥ

Sanskrit only: no published translation is held for this verse.

धारेन्ति ऊर्ध्वहस्ता उर्ध्वंकेशा जटाश्च धारेन्ति । मार्गानतिप्रनष्टा अमार्गसंस्थाः सुगतिगमनकामाः

dhārenti ūrdhvahastā urdhvaṃkeśā jaṭāśca dhārenti / mārgānatipranaṣṭā amārgasaṃsthāḥ sugatigamanakāmāḥ

Sanskrit only: no published translation is held for this verse.

तृणमुसलभस्मशयनाः कण्टकशयनाश्च उत्कुटध्यायि । स्थित केचिदेकपादे ऊर्ध्वमुखाश्चन्द्रसूर्य पश्यन्तः

tṛṇamusalabhasmaśayanāḥ kaṇṭakaśayanāśca utkuṭadhyāyi / sthita kecidekapāde ūrdhvamukhāścandrasūrya paśyantaḥ

Sanskrit only: no published translation is held for this verse.

उत्सां सरसतडागां सागरसरितश्च चन्द्रसूर्यौ च । वृक्षगिरिशैलशिखरां कुम्भं धरणीं नमस्यन्ते

utsāṃ sarasataḍāgāṃ sāgarasaritaśca candrasūryau ca / vṛkṣagiriśailaśikharāṃ kumbhaṃ dharaṇīṃ namasyante

Sanskrit only: no published translation is held for this verse.

विविधैश्च कारणैस्ते कायं परिशोधयन्ति संमूढाः । मिथ्यादृष्टिपरीताः क्षिप्रं प्रपतन्त्यपायेषु

vividhaiśca kāraṇaiste kāyaṃ pariśodhayanti saṃmūḍhāḥ / mithyādṛṣṭiparītāḥ kṣipraṃ prapatantyapāyeṣu

Sanskrit only: no published translation is held for this verse.

यन्नूनमहं व्रततप दुष्करचर्यां समारभे घोराम् । यं दुष्करं न शक्यं चरितुं देवैर्मनुष्यैर्वा

yannūnamahaṃ vratatapa duṣkaracaryāṃ samārabhe ghorām / yaṃ duṣkaraṃ na śakyaṃ carituṃ devairmanuṣyairvā

Sanskrit only: no published translation is held for this verse.

आस्फानकं च ध्यानं ध्यायेयं वज्रकल्पदृढस्थानम् । यं ध्यानं न समर्थाः प्रत्येकजिनापि दर्शयितुम्

āsphānakaṃ ca dhyānaṃ dhyāyeyaṃ vajrakalpadṛḍhasthānam / yaṃ dhyānaṃ na samarthāḥ pratyekajināpi darśayitum

Sanskrit only: no published translation is held for this verse.

सन्तीह देवमनुजाः तीर्थिक लूहव्रतेन हृष्यन्ते । तेष परिपाकहेतो दुष्करव्रततप रभेय सूतीव्रम्

santīha devamanujāḥ tīrthika lūhavratena hṛṣyante / teṣa paripākaheto duṣkaravratatapa rabheya sūtīvram

Sanskrit only: no published translation is held for this verse.

पर्यङ्कमाभुजित्वा उपविष्टो ऽभूत्स्थले असंस्तीर्णे । कोलतिलतण्डुलेना आहारविधिं विदर्शयति

paryaṅkamābhujitvā upaviṣṭo 'bhūtsthale asaṃstīrṇe / kolatilataṇḍulenā āhāravidhiṃ vidarśayati

Sanskrit only: no published translation is held for this verse.

आश्वासविप्रहीनः प्रश्वासवर्जितु न चेञ्जते बालवान् । षड्वर्षाणि प्रवरं ध्यायत्यास्फानकं ध्यानम्

āśvāsaviprahīnaḥ praśvāsavarjitu na ceñjate bālavān / ṣaḍvarṣāṇi pravaraṃ dhyāyatyāsphānakaṃ dhyānam

Sanskrit only: no published translation is held for this verse.

कल्पं नो न विकल्पं न चेञ्जनं नापिमन्येन प्रचारम् । आकाशधातुस्फरणं ध्यायत्यास्फानकं ध्यानम्

kalpaṃ no na vikalpaṃ na ceñjanaṃ nāpimanyena pracāram / ākāśadhātuspharaṇaṃ dhyāyatyāsphānakaṃ dhyānam

Sanskrit only: no published translation is held for this verse.

न च आतपातु छायां छायाया नातपं गतश्चासौ । मेरुरिव निष्प्रकम्प्यो ध्यायत्यास्फानकं ध्यानम्

na ca ātapātu chāyāṃ chāyāyā nātapaṃ gataścāsau / meruriva niṣprakampyo dhyāyatyāsphānakaṃ dhyānam

Sanskrit only: no published translation is held for this verse.

न च वातवृष्टिछदनं न दंशमशकासरीसृपात्राणम् । अविकोपितया चर्या ध्यायत्यास्फानकं ध्यानम्

na ca vātavṛṣṭichadanaṃ na daṃśamaśakāsarīsṛpātrāṇam / avikopitayā caryā dhyāyatyāsphānakaṃ dhyānam

Sanskrit only: no published translation is held for this verse.

न च केवलमात्मार्थं ध्यायत्यास्फानकं ध्यानम् । अन्यत्र करुणचित्तो भावी लोकस्य विपुलार्थम्

na ca kevalamātmārthaṃ dhyāyatyāsphānakaṃ dhyānam / anyatra karuṇacitto bhāvī lokasya vipulārtham

Sanskrit only: no published translation is held for this verse.

ये ग्रामदारकाश्च गोपालाः काष्ठहारतृणहाराः । पांशुपिशाचकमिति तं मन्यन्ते पांशुना च म्रक्षन्ति

ye grāmadārakāśca gopālāḥ kāṣṭhahāratṛṇahārāḥ / pāṃśupiśācakamiti taṃ manyante pāṃśunā ca mrakṣanti

Sanskrit only: no published translation is held for this verse.

अशुचीना च किरन्ते विविधास्ते कारणाश्च कारेन्ति । न च इञ्जते भ्रमति वा ध्यायत्यास्फानकं ध्यानम्

aśucīnā ca kirante vividhāste kāraṇāśca kārenti / na ca iñjate bhramati vā dhyāyatyāsphānakaṃ dhyānam

Sanskrit only: no published translation is held for this verse.

न च नमति नो विनमते न कायपरिरक्षणा स्पृशति । किंचिन्नोच्चारप्रस्रवं शब्देषु न संत्रसी न परप्रेक्षी

na ca namati no vinamate na kāyaparirakṣaṇā spṛśati / kiṃcinnoccāraprasravaṃ śabdeṣu na saṃtrasī na paraprekṣī

Sanskrit only: no published translation is held for this verse.

संशुष्कमांसरुधिरं चर्मस्नाय्वस्थिकाश्च अवशिष्टा । उदराच्च पृष्ठिवंशो विदृश्यते वर्तिता यथा वेणी

saṃśuṣkamāṃsarudhiraṃ carmasnāyvasthikāśca avaśiṣṭā / udarācca pṛṣṭhivaṃśo vidṛśyate vartitā yathā veṇī

Sanskrit only: no published translation is held for this verse.

ये ते कृताधिकारा देवाः सुरनागयक्षगन्धर्वाः । प्रत्यक्षगुणधरस्या करोन्ति पूजां दिवारात्रौ

ye te kṛtādhikārā devāḥ suranāgayakṣagandharvāḥ / pratyakṣaguṇadharasyā karonti pūjāṃ divārātrau

Sanskrit only: no published translation is held for this verse.

प्रणिधिं च कुर्वते ते वयमपि तादृश भवामहे क्षिप्रम् । यथ एष गगनचित्तो ध्यायत्यास्फानकं ध्यानम्

praṇidhiṃ ca kurvate te vayamapi tādṛśa bhavāmahe kṣipram / yatha eṣa gaganacitto dhyāyatyāsphānakaṃ dhyānam

Sanskrit only: no published translation is held for this verse.

न च केवलमात्मार्थं न ध्यानस्वादनान्न सुखबुद्ध्या । अन्यत्र करुणबुद्ध्या करिष्यत्यर्थं विपुल लोके

na ca kevalamātmārthaṃ na dhyānasvādanānna sukhabuddhyā / anyatra karuṇabuddhyā kariṣyatyarthaṃ vipula loke

Sanskrit only: no published translation is held for this verse.

निहताः परप्रवादा ध्यामीकृत तीर्थिका मतिविहीनाः । कर्मक्रिया च दर्शित या प्रोक्ता काश्यपे वाचा

nihatāḥ parapravādā dhyāmīkṛta tīrthikā mativihīnāḥ / karmakriyā ca darśita yā proktā kāśyape vācā

Sanskrit only: no published translation is held for this verse.

क्रकुच्छन्दकस्य बोधि बोधिरिह सुदुर्लभा बहुभि कल्पैः । जनताया इत्यर्थं ध्यायत्यास्फानकं ध्यानम्

krakucchandakasya bodhi bodhiriha sudurlabhā bahubhi kalpaiḥ / janatāyā ityarthaṃ dhyāyatyāsphānakaṃ dhyānam

Sanskrit only: no published translation is held for this verse.

द्वादशनयुता पूर्णा विनीत मरुमानुषास्त्रिभिर्यानैः । एतदधिकृत्य सुमति ध्यायत्यास्फानकं ध्यानम्

dvādaśanayutā pūrṇā vinīta marumānuṣāstribhiryānaiḥ / etadadhikṛtya sumati dhyāyatyāsphānakaṃ dhyānam

Sanskrit only: no published translation is held for this verse.