भूयश्चास्यैतदभूत् - य इमे श्रमणब्राह्मणाः कामेभ्यो व्यपकृष्टकायचित्ता विहरन्ति, यापि तेषां कामेषु नन्दीति सर्वं कर्तव्यं यावज्ज्योतिं पर्येषत इति । स आर्द्रं काष्ठमादाय स्थले स्थापयित्वा आर्द्रां चोत्तरारणिं मथ्नीयात्, अभव्यो ऽसावग्निमुत्पादयितुम् । एवमेव ये इमे श्रमणब्राह्मणा इति सर्वं पूर्ववत्कार्यं यावदभव्या उत्तरिमनुष्यधर्मादलमार्यज्ञानदर्शनविशेषं साक्षात्कर्तुम् । इयं द्वितीया उपमा प्रतिभाति स्म पूर्वमश्रुता चाविज्ञाता च ॥ पुनरपरं य इमे श्रमणब्राह्मणा भवन्तः कामेभ्यो व्यपकृष्टकायचित्ता विहरन्ति, यापि तेषां कामेषु नन्दिः । इति सर्वं पेयालम् । तदप्येषामुपशान्तम् । किं चापि ते आत्मोपक्रमिकां शरीरोपतापिकां दुःखां तीव्रां खरां कटुकां वेदनां वेदयन्ते । अथ खलु पुनर्भव्या एव ते उत्तरिमनुष्यधर्मादलमार्यज्ञानदर्शनविशेषं साक्षात्कर्तुम् । तद्यथापि नाम इह स्यात्पुरुषो ऽग्न्यर्थी ज्योतिर्गवेषी ज्योतिः पर्येषमाणः, स शुष्कं काष्ठमादाय शुष्कां चोत्तरारणिं स्थले प्रतिष्ठाप्य मथ्नीयात्, स भव्यो ऽग्निमभिनिर्वर्तयितुं तेजः प्रादुष्कर्तुम् । एवमेव य इमे भवन्तः श्रमणब्राह्मणा इति सर्वं यावद्वेदनां वेदयन्त इति । अथ च पुनर्भव्या एव ते उत्तरिमनुष्यधर्मादलमार्यज्ञानदर्शनविशेषं साक्षात्कर्तुम् । इयं तृतीया उपमा प्रतिभाति स्म अश्रुतपूर्वा च अविज्ञातपूर्वा च ॥ अथ खलु भिक्षवो बोधिसत्त्वस्यैतदभूत् - अहं खल्वेतर्हि कामेभ्यो व्यपकृष्टकायो विहरामि व्यपकृष्टचित्तश्च । यापि मे कामेषु नन्दीति सर्वं यावत्तदपि मे उपशान्तम् । किं चापि अहमात्मोपक्रमिकां शरीरोपतापिकां दुःखामिति पेयालं यावद्वेदनां वेद्मि । अथ खल्वहं भव्य एवोत्तरिमनुष्यधर्मादलमार्यज्ञानदर्शनविशेषं साक्षात्कर्तुम् ॥ इति हि भिक्षवो बोधिसत्त्वो यथाभिप्रेतं गयायां विहृत्य गयाशीर्षे पर्वते जङ्गाविहारमनुचंक्रम्यमाणो येनोरुबिल्वा सेनापतिग्रामकस्तदनुसृतस्तदनुप्राप्तो ऽभूत् । तत्राद्राक्षीन्नदीं नैरञ्जनामच्छोदकां सूपतीर्थां प्रासादिकैश्च द्रुमगुल्मैरलंकृतां समन्ततश्च गोचरग्रामाम् । तत्र खल्वपि बोधिसत्त्वस्य मनो ऽतीव प्रसन्नमभूत् - समो बतायं भूमिप्रदेशो रमणीयः प्रतिसंलयनानुरूपः । पर्याप्तमिदं प्रहाणार्थिककुलपुत्रस्य । अहं च प्रहाणार्थी । यन्न्वहमिहैव तिष्ठेयम् ॥ इति हि भिक्षवो बोधिसत्त्वस्यैतदभूत् - पञ्चकषायकाले ऽहमिह जम्बुद्वीपे ऽवतीर्णो हीनाधिमुक्तिकेषु सत्त्वेष्वाकीर्णतीर्थ्यवर्गेषु नानादृष्टिप्रस्कन्नेषु कायपिण्डग्राहाभिनिविष्टेषु नानाविधैश्चातापनपरितापनैः कायशुद्धिं पर्येषन्ते, प्रज्ञापयन्ति च संमूढाः । तद्यथा - मन्त्रविचारकैर्हस्तप्रलेहकैर्नयाचनकैरनामन्त्रणकैरनेकमूलिकैरमत्स्यमांसकैरवार्षिकैः सुरातुषोदकर्वजनैरेकत्रिपञ्चसप्तकुलभिक्षाग्रहणैर्मूलफलशैवालककुशपत्रगोमयगोमूत्रपायसदधिसर्पिः फाणितामपिष्टकमभक्षणपानैः सारसिकापोतकसंदंशिकोत्सृष्टसंप्रक्षालकैः । ग्राम्यारण्याभिश्च वृत्तिभिः । गोव्रतमृगश्ववराहवानरहस्तिव्रतैश्च स्थानमौनवीरासनैश्च एकालापकैर्यावत्सप्तालापकैः । एकभक्ता एकाहोरात्रचातुर्थ्यपञ्चषट्कालान्तराश्च (वैद्य १८३) पक्षक्षपणमासक्षपणचान्द्रायणैश्च गृध्रोलूकपक्षधारणैश्च फलमुञ्जासनवल्कलदर्भबल्बजोष्ट्रकम्बलाजकम्बलकेशकम्बलचर्मनिवेशनैश्च आर्द्रपटास्तोपकजालशयनैश्च भस्मशर्करापाषाणफलककण्टकतृणमुसलशयनावाक्छिरोत्कुटुकस्थण्डिलशयनैश्च एकवासद्वित्रिचतुष्पञ्चषट्सप्तबहुवासोभिर्नग्नभावैश्च स्थानास्थानविधिभिश्च दीर्घकेशनखश्मश्रुजटामकुटधारणैश्च एककोलतिलतण्डुलाहारैश्च भस्ममसिनिर्माल्योद्धृततमोरजपांशुपङ्कपरिम्रक्षणैश्च लोममुञ्जकेशनखचीवरपञ्जरकरङ्कधारणैश्च उष्णोदकतण्डुलोदकपरिस्रावितकाम्बलिकस्थालीपानीयपानैश्च अङ्गारधातुकषायत्रिदण्डमुण्डिककुण्डिककपालखट्वाङ्गधारणैश्च शुद्धिं प्रत्यवगच्छन्ति संमूढाः । धूमपानाग्निपानादित्यनिरीक्षणपञ्चतपैकपादोर्ध्वबाहुस्थानैकचरणैश्च तपः संचिन्वन्ति । तुषाद्यङ्गारदाहनिकुम्भसाधनपक्वशिलापचनाग्निजलप्रवेशनमरुतीर्थगमनमरणैश्चेष्टां गतिं मृगयन्ते । ॐकारवषट्कारस्वधाकारस्वाहाकाराशीर्वचनस्तुतिचयनावाहनजप्यमन्त्राध्ययनधारणकरणैश्च शुद्धिं प्रत्यवगच्छन्ति । शुद्धं चात्मानं मन्यमाना इमानाश्रयन्ते । तद्यथा - ब्रह्मेन्द्ररुद्रविष्णुदेवीकुमारमातृकात्यायनीचन्द्रादित्यवैश्रवणवरुणवासवाश्विनौनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगराक्षसप्रेतभूतकुम्भाण्डपार्षदगणपतिपिशाचांश्च देवर्षिराजर्षिब्रह्मर्षीश्च नमस्यन्ति, तेषु च सारसंज्ञिनो भवन्ति । पृथिव्यप्तेजोवाय्वाकाशं चाश्रयन्ते । गिरीनदीनद्युत्ससरोह्रदतडागसागरसरःपल्वलपुष्करिणीकूपवृक्षगुल्मलतातृणस्थाणुगोष्ठश्मशान - चत्वरशृङ्गाटकान्तरापणमुखानि चाश्रयन्ते । गृहस्तम्भोपलमुसलासिधनुपरशुशरशक्तित्रिशूलांश्च नमस्यन्ति । दधिघृतसर्षपयवप्रतिसरादूर्वामणिकनकरजतादिभिश्च मङ्गलं प्रत्यवगच्छन्ति । एवंविधानि इमे तीर्थ्याः कुर्वन्ते, आश्रयन्ते च संसारभयभीताः ॥ इह च केचित्परत्र मन्यन्ते स्वर्गापवर्गावस्माकमेतेभ्यो निर्वर्त्स्येत इति मिथ्यामार्गप्रयाता अशरणे शरणसंज्ञिनो ऽमङ्गल्ये मङ्गलसंज्ञिनो ऽशुद्ध्या शुद्धिं मन्यतोयन्न्वहं तादृशं व्रततपोविशेषमालभेयं यथा सर्वपरप्रवादिनश्च निगृहीताः स्युः, कर्मक्रियाप्रणष्टानां च सत्त्वानां कर्मक्रियाविप्रणाशमादर्शयेयम् । ध्यानगोचराणां च रूपावचराणां च देवानां ध्यानविशेषोपदर्शनादावर्जनं कुर्यामिति ॥ इति हि भिक्षवो बोधिसत्त्व एवं चिन्तयित्वा षड्वर्षिकं महाघोरं व्रततपःसुदुष्करात्सुदुष्करां दुष्करचर्यामालभते स्म । केन कारणेनोच्यते दुष्करचर्येति? दुष्करकारिकैषा, तेनोच्यते दुष्करचर्येति । न स कश्चित्सत्त्वः सत्त्वनिकाये संविद्यते मनुष्यो वा अमनुष्यो वा, यः समर्थस्तथारूपं दुष्करं चरितुम्, अन्यत्र चरमभविकाद्बोधिसत्त्वात्, य आस्फानकध्यानं समापद्यते स्म । केन कारणेनोच्यते आस्फानकमिति? स चतुर्थध्यानमादित एव समापद्यमान आश्वासप्रश्वासानुपरोधयति संनिरोधयति । अकल्पं तद् ध्यानमविकल्पमनिञ्जनमपनीतमस्पन्दनं सर्वत्रानुगतं च सर्वत्र चानिश्रितम् । न च तद् ध्यानं जातु केनचित्समापन्नं पूर्वं शैष्येण वा अशैष्येण वा प्रत्येकबुद्धेन (वैद्य १८४) वा चर्याप्रतिपन्नेन वा बोधिसत्त्वेन । अतश्चास्फानकं नामोच्यते । आकाशमस्फरणमकरणमविकरणं तच्च सर्वं स्फरतीति ह्याकाशसमं तद् ध्यानम् । तेनोच्यते आस्फानकमिति ॥ अथ खलु भिक्षवो बोधिसत्त्वो लोकस्याश्चर्यसंदर्शनार्थं तीर्थिकानां च दर्पनिर्घातनार्थं परप्रवादिनां च निग्रहार्थं देवानां चावर्जनार्थमुच्छेदशाश्वतवादिनां च सत्त्वानां क्रर्मक्रियाप्रणष्टानां कर्मक्रियावतारणार्थं पुण्यफलोद्भावनार्थं ज्ञानफलसंदर्शनार्थं ध्यानाङ्गविभजनार्थ कायबलस्थामसंदर्शनार्थं चित्तशौर्यसंजननार्थं च असंस्कृतायां पृथिव्यां पर्यङ्कमाभुज्य निषीदति स्म । निषद्य च स्वकायं चेतसा निगृह्णीते स्म, निष्पीडयति स्म ॥ ततो मे भिक्षवो हैमन्तिकास्वष्टकरात्रिषु तथा कायं निगृह्णतो निष्पीडयतः कक्षाभ्यामपि स्वेदाः प्रश्रवन्ति स्म । ललाटादपि स्वेदाः प्रश्रवन्ति स्म । भूमौ निपतन्ति स्म अवश्यायन्त ऊष्मायन्तो बाष्पायन्तः । तद्यथापि नाम बलवान् पुरुषो दुर्बलतरं पुरुषं ग्रीवायां गृहीत्वा निष्पीडयेत्, एवमेव भिक्षव इमं कायं चेतसा निगृह्णतो निष्पीडयतः कक्षाभ्यामपि स्वेदाः प्रश्रवन्ति स्म । ललाटादपि स्वेदाः प्रश्रवन्ति स्म । भूभौ निपतन्ति स्म अवश्यायन्त ऊष्मायन्तो बाष्पायन्तः ॥ तस्य मे भिक्षव एतदभूत् - यन्न्वहमास्फानकं ध्यानं ध्यायेयम् । ततो मे भिक्षव आस्फानकं ध्यानं ध्यायतो मुखतो नासिकातश्चाश्वासप्रश्वासा उपनिरुद्धावभूताम् । कर्णछिद्राभ्यामुच्चशब्दा महाशब्दा निश्चरन्ति स्म । तद्यथापि नाम कर्मारगगया मथ्यमानायामुच्चशब्दो महाशब्दो निश्चरति, एवमेव मे भिक्षवो मुखनासिकाभ्यामाश्वासप्रश्वासावुपरुद्धावभूतां श्रोतछिद्राभ्यामुच्चशब्दो महाशब्दो निश्चरति स्म ॥ तस्य मे भिक्षव एतदभूत् - यन्न्वहं भूय आस्फानकं ध्यानं ध्यायेयमिति । ततो मे भिक्षवो मुखनासिकाश्रोत्राण्युपरुद्धानि चाभूवन् । तेषूपरुद्धेषु वायुरुर्ध्वं शिरःकपालमुपनिहन्ति स्म । तद्यथापि नाम भिक्षवः पुरुषः कुण्डया शक्त्या शिरःकपालमुपहन्याद्, एवमेव मे भिक्षवो मुखनासिकाश्रोत्रेषूपरुद्धेषु आश्वासप्रश्वासा उर्ध्वं शिरःकपालमुपनिघ्नन्ति स्म ॥ तां चावस्थां दृष्ट्वा बोधिसत्त्वस्य तत्र केचिद्देवा एवमाहु - कष्टं भोः कालगतो बतायं सिद्धार्थः कुमारः । अपरे एवमाहुः - नायं कालगतः । अपि तुध्यानविहार एषो ऽर्हतामेवंविध इति । तस्यां च वेलायमिमां गाथामभाषन्त - मा खल्वयं शाक्यनरेन्द्रगर्भो ह्यपूर्णसंकल्प इहैव रण्ये । कृत्वा त्रिलोकं दुखितं ह्यनाथं कालं करिष्यत्यकृतार्थ एव
bhūyaścāsyaitadabhūt - ya ime śramaṇabrāhmaṇāḥ kāmebhyo vyapakṛṣṭakāyacittā viharanti, yāpi teṣāṃ kāmeṣu nandīti sarvaṃ kartavyaṃ yāvajjyotiṃ paryeṣata iti / sa ārdraṃ kāṣṭhamādāya sthale sthāpayitvā ārdrāṃ cottarāraṇiṃ mathnīyāt, abhavyo 'sāvagnimutpādayitum / evameva ye ime śramaṇabrāhmaṇā iti sarvaṃ pūrvavatkāryaṃ yāvadabhavyā uttarimanuṣyadharmādalamāryajñānadarśanaviśeṣaṃ sākṣātkartum / iyaṃ dvitīyā upamā pratibhāti sma pūrvamaśrutā cāvijñātā ca // punaraparaṃ ya ime śramaṇabrāhmaṇā bhavantaḥ kāmebhyo vyapakṛṣṭakāyacittā viharanti, yāpi teṣāṃ kāmeṣu nandiḥ / iti sarvaṃ peyālam / tadapyeṣāmupaśāntam / kiṃ cāpi te ātmopakramikāṃ śarīropatāpikāṃ duḥkhāṃ tīvrāṃ kharāṃ kaṭukāṃ vedanāṃ vedayante / atha khalu punarbhavyā eva te uttarimanuṣyadharmādalamāryajñānadarśanaviśeṣaṃ sākṣātkartum / tadyathāpi nāma iha syātpuruṣo 'gnyarthī jyotirgaveṣī jyotiḥ paryeṣamāṇaḥ, sa śuṣkaṃ kāṣṭhamādāya śuṣkāṃ cottarāraṇiṃ sthale pratiṣṭhāpya mathnīyāt, sa bhavyo 'gnimabhinirvartayituṃ tejaḥ prāduṣkartum / evameva ya ime bhavantaḥ śramaṇabrāhmaṇā iti sarvaṃ yāvadvedanāṃ vedayanta iti / atha ca punarbhavyā eva te uttarimanuṣyadharmādalamāryajñānadarśanaviśeṣaṃ sākṣātkartum / iyaṃ tṛtīyā upamā pratibhāti sma aśrutapūrvā ca avijñātapūrvā ca // atha khalu bhikṣavo bodhisattvasyaitadabhūt - ahaṃ khalvetarhi kāmebhyo vyapakṛṣṭakāyo viharāmi vyapakṛṣṭacittaśca / yāpi me kāmeṣu nandīti sarvaṃ yāvattadapi me upaśāntam / kiṃ cāpi ahamātmopakramikāṃ śarīropatāpikāṃ duḥkhāmiti peyālaṃ yāvadvedanāṃ vedmi / atha khalvahaṃ bhavya evottarimanuṣyadharmādalamāryajñānadarśanaviśeṣaṃ sākṣātkartum // iti hi bhikṣavo bodhisattvo yathābhipretaṃ gayāyāṃ vihṛtya gayāśīrṣe parvate jaṅgāvihāramanucaṃkramyamāṇo yenorubilvā senāpatigrāmakastadanusṛtastadanuprāpto 'bhūt / tatrādrākṣīnnadīṃ nairañjanāmacchodakāṃ sūpatīrthāṃ prāsādikaiśca drumagulmairalaṃkṛtāṃ samantataśca gocaragrāmām / tatra khalvapi bodhisattvasya mano 'tīva prasannamabhūt - samo batāyaṃ bhūmipradeśo ramaṇīyaḥ pratisaṃlayanānurūpaḥ / paryāptamidaṃ prahāṇārthikakulaputrasya / ahaṃ ca prahāṇārthī / yannvahamihaiva tiṣṭheyam // iti hi bhikṣavo bodhisattvasyaitadabhūt - pañcakaṣāyakāle 'hamiha jambudvīpe 'vatīrṇo hīnādhimuktikeṣu sattveṣvākīrṇatīrthyavargeṣu nānādṛṣṭipraskanneṣu kāyapiṇḍagrāhābhiniviṣṭeṣu nānāvidhaiścātāpanaparitāpanaiḥ kāyaśuddhiṃ paryeṣante, prajñāpayanti ca saṃmūḍhāḥ / tadyathā - mantravicārakairhastapralehakairnayācanakairanāmantraṇakairanekamūlikairamatsyamāṃsakairavārṣikaiḥ surātuṣodakarvajanairekatripañcasaptakulabhikṣāgrahaṇairmūlaphalaśaivālakakuśapatragomayagomūtrapāyasadadhisarpiḥ phāṇitāmapiṣṭakamabhakṣaṇapānaiḥ sārasikāpotakasaṃdaṃśikotsṛṣṭasaṃprakṣālakaiḥ / grāmyāraṇyābhiśca vṛttibhiḥ / govratamṛgaśvavarāhavānarahastivrataiśca sthānamaunavīrāsanaiśca ekālāpakairyāvatsaptālāpakaiḥ / ekabhaktā ekāhorātracāturthyapañcaṣaṭkālāntarāśca (Vaidya 183) pakṣakṣapaṇamāsakṣapaṇacāndrāyaṇaiśca gṛdhrolūkapakṣadhāraṇaiśca phalamuñjāsanavalkaladarbhabalbajoṣṭrakambalājakambalakeśakambalacarmaniveśanaiśca ārdrapaṭāstopakajālaśayanaiśca bhasmaśarkarāpāṣāṇaphalakakaṇṭakatṛṇamusalaśayanāvākchirotkuṭukasthaṇḍilaśayanaiśca ekavāsadvitricatuṣpañcaṣaṭsaptabahuvāsobhirnagnabhāvaiśca sthānāsthānavidhibhiśca dīrghakeśanakhaśmaśrujaṭāmakuṭadhāraṇaiśca ekakolatilataṇḍulāhāraiśca bhasmamasinirmālyoddhṛtatamorajapāṃśupaṅkaparimrakṣaṇaiśca lomamuñjakeśanakhacīvarapañjarakaraṅkadhāraṇaiśca uṣṇodakataṇḍulodakaparisrāvitakāmbalikasthālīpānīyapānaiśca aṅgāradhātukaṣāyatridaṇḍamuṇḍikakuṇḍikakapālakhaṭvāṅgadhāraṇaiśca śuddhiṃ pratyavagacchanti saṃmūḍhāḥ / dhūmapānāgnipānādityanirīkṣaṇapañcatapaikapādordhvabāhusthānaikacaraṇaiśca tapaḥ saṃcinvanti / tuṣādyaṅgāradāhanikumbhasādhanapakvaśilāpacanāgnijalapraveśanamarutīrthagamanamaraṇaiśceṣṭāṃ gatiṃ mṛgayante / oṃkāravaṣaṭkārasvadhākārasvāhākārāśīrvacanastuticayanāvāhanajapyamantrādhyayanadhāraṇakaraṇaiśca śuddhiṃ pratyavagacchanti / śuddhaṃ cātmānaṃ manyamānā imānāśrayante / tadyathā - brahmendrarudraviṣṇudevīkumāramātṛkātyāyanīcandrādityavaiśravaṇavaruṇavāsavāśvinaunāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasapretabhūtakumbhāṇḍapārṣadagaṇapatipiśācāṃśca devarṣirājarṣibrahmarṣīśca namasyanti, teṣu ca sārasaṃjñino bhavanti / pṛthivyaptejovāyvākāśaṃ cāśrayante / girīnadīnadyutsasarohradataḍāgasāgarasaraḥpalvalapuṣkariṇīkūpavṛkṣagulmalatātṛṇasthāṇugoṣṭhaśmaśāna - catvaraśṛṅgāṭakāntarāpaṇamukhāni cāśrayante / gṛhastambhopalamusalāsidhanuparaśuśaraśaktitriśūlāṃśca namasyanti / dadhighṛtasarṣapayavapratisarādūrvāmaṇikanakarajatādibhiśca maṅgalaṃ pratyavagacchanti / evaṃvidhāni ime tīrthyāḥ kurvante, āśrayante ca saṃsārabhayabhītāḥ // iha ca kecitparatra manyante svargāpavargāvasmākametebhyo nirvartsyeta iti mithyāmārgaprayātā aśaraṇe śaraṇasaṃjñino 'maṅgalye maṅgalasaṃjñino 'śuddhyā śuddhiṃ manyatoyannvahaṃ tādṛśaṃ vratatapoviśeṣamālabheyaṃ yathā sarvaparapravādinaśca nigṛhītāḥ syuḥ, karmakriyāpraṇaṣṭānāṃ ca sattvānāṃ karmakriyāvipraṇāśamādarśayeyam / dhyānagocarāṇāṃ ca rūpāvacarāṇāṃ ca devānāṃ dhyānaviśeṣopadarśanādāvarjanaṃ kuryāmiti // iti hi bhikṣavo bodhisattva evaṃ cintayitvā ṣaḍvarṣikaṃ mahāghoraṃ vratatapaḥsuduṣkarātsuduṣkarāṃ duṣkaracaryāmālabhate sma / kena kāraṇenocyate duṣkaracaryeti? duṣkarakārikaiṣā, tenocyate duṣkaracaryeti / na sa kaścitsattvaḥ sattvanikāye saṃvidyate manuṣyo vā amanuṣyo vā, yaḥ samarthastathārūpaṃ duṣkaraṃ caritum, anyatra caramabhavikādbodhisattvāt, ya āsphānakadhyānaṃ samāpadyate sma / kena kāraṇenocyate āsphānakamiti? sa caturthadhyānamādita eva samāpadyamāna āśvāsapraśvāsānuparodhayati saṃnirodhayati / akalpaṃ tad dhyānamavikalpamaniñjanamapanītamaspandanaṃ sarvatrānugataṃ ca sarvatra cāniśritam / na ca tad dhyānaṃ jātu kenacitsamāpannaṃ pūrvaṃ śaiṣyeṇa vā aśaiṣyeṇa vā pratyekabuddhena (Vaidya 184) vā caryāpratipannena vā bodhisattvena / ataścāsphānakaṃ nāmocyate / ākāśamaspharaṇamakaraṇamavikaraṇaṃ tacca sarvaṃ spharatīti hyākāśasamaṃ tad dhyānam / tenocyate āsphānakamiti // atha khalu bhikṣavo bodhisattvo lokasyāścaryasaṃdarśanārthaṃ tīrthikānāṃ ca darpanirghātanārthaṃ parapravādināṃ ca nigrahārthaṃ devānāṃ cāvarjanārthamucchedaśāśvatavādināṃ ca sattvānāṃ krarmakriyāpraṇaṣṭānāṃ karmakriyāvatāraṇārthaṃ puṇyaphalodbhāvanārthaṃ jñānaphalasaṃdarśanārthaṃ dhyānāṅgavibhajanārtha kāyabalasthāmasaṃdarśanārthaṃ cittaśauryasaṃjananārthaṃ ca asaṃskṛtāyāṃ pṛthivyāṃ paryaṅkamābhujya niṣīdati sma / niṣadya ca svakāyaṃ cetasā nigṛhṇīte sma, niṣpīḍayati sma // tato me bhikṣavo haimantikāsvaṣṭakarātriṣu tathā kāyaṃ nigṛhṇato niṣpīḍayataḥ kakṣābhyāmapi svedāḥ praśravanti sma / lalāṭādapi svedāḥ praśravanti sma / bhūmau nipatanti sma avaśyāyanta ūṣmāyanto bāṣpāyantaḥ / tadyathāpi nāma balavān puruṣo durbalataraṃ puruṣaṃ grīvāyāṃ gṛhītvā niṣpīḍayet, evameva bhikṣava imaṃ kāyaṃ cetasā nigṛhṇato niṣpīḍayataḥ kakṣābhyāmapi svedāḥ praśravanti sma / lalāṭādapi svedāḥ praśravanti sma / bhūbhau nipatanti sma avaśyāyanta ūṣmāyanto bāṣpāyantaḥ // tasya me bhikṣava etadabhūt - yannvahamāsphānakaṃ dhyānaṃ dhyāyeyam / tato me bhikṣava āsphānakaṃ dhyānaṃ dhyāyato mukhato nāsikātaścāśvāsapraśvāsā upaniruddhāvabhūtām / karṇachidrābhyāmuccaśabdā mahāśabdā niścaranti sma / tadyathāpi nāma karmāragagayā mathyamānāyāmuccaśabdo mahāśabdo niścarati, evameva me bhikṣavo mukhanāsikābhyāmāśvāsapraśvāsāvuparuddhāvabhūtāṃ śrotachidrābhyāmuccaśabdo mahāśabdo niścarati sma // tasya me bhikṣava etadabhūt - yannvahaṃ bhūya āsphānakaṃ dhyānaṃ dhyāyeyamiti / tato me bhikṣavo mukhanāsikāśrotrāṇyuparuddhāni cābhūvan / teṣūparuddheṣu vāyururdhvaṃ śiraḥkapālamupanihanti sma / tadyathāpi nāma bhikṣavaḥ puruṣaḥ kuṇḍayā śaktyā śiraḥkapālamupahanyād, evameva me bhikṣavo mukhanāsikāśrotreṣūparuddheṣu āśvāsapraśvāsā urdhvaṃ śiraḥkapālamupanighnanti sma // tāṃ cāvasthāṃ dṛṣṭvā bodhisattvasya tatra keciddevā evamāhu - kaṣṭaṃ bhoḥ kālagato batāyaṃ siddhārthaḥ kumāraḥ / apare evamāhuḥ - nāyaṃ kālagataḥ / api tudhyānavihāra eṣo 'rhatāmevaṃvidha iti / tasyāṃ ca velāyamimāṃ gāthāmabhāṣanta - mā khalvayaṃ śākyanarendragarbho hyapūrṇasaṃkalpa ihaiva raṇye / kṛtvā trilokaṃ dukhitaṃ hyanāthaṃ kālaṃ kariṣyatyakṛtārtha eva
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.