हन्त नूनं विजानामि हतांस् तान् विद्धि राक्षसान् । [राम् इ १८, १३च्द्] न ह्य् अस्मदादयः प्राज्ञाः सन्दिग्धे सम्प्रवृत्तयः हन्त हर्षे । नूनं निश्चये । अहं तान् राक्षसान् हतान् जानामि । त्वम् अपि विद्धि । ननु कथम् अहं त्वत्कथनमात्रेण जानामीत्य् । अत्राह न हीति । सं सम्यक् । प्रवृत्तिः । येषां । ते तादृशाः
hanta nūnaṃ vijānāmi hatāṃs tān viddhi rākṣasān | [Rām I 18, 13cd] na hy asmadādayaḥ prājñāḥ sandigdhe sampravṛttayaḥ hanta harṣe | nūnaṃ niścaye | ahaṃ tān rākṣasān hatān jānāmi | tvam api viddhi | nanu katham ahaṃ tvatkathanamātreṇa jānāmīty | atrāha na hīti | saṃ samyak | pravṛttiḥ | yeṣāṃ | te tādṛśāḥ
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.