हे अङ्ग । अस्माकं मतिर् अस्ति इति । अतः हेतोः । अस्माकं तया बुद्ध्या । सर्वशास्त्रैकवाक्यकरणं यतः फलितम् । अतः हेतोः । नः अस्माकं । संवेदनात् ज्ञानात् । अन्यत् प्रमाणं नास्ति । सर्वस्मिञ् शास्त्रे संवेदनम् एवास्माभिः प्रमाणं दृष्टम् । अतो ऽस्माकम् अपि तद् एव प्रमाणम् इति भावः । संवेदनात् कथंभूतात् । प्रातीतिकः प्रतीतेर् आगतः । न तु कल्पितः । यः अर्थः । तन्मयम् यत् शास्त्रं । तद् एव निजाङ्गम् उपकारकत्वात् स्वाङ्गं । तेन पुष्टात् वृद्धिं गतात्
he aṅga | asmākaṃ matir asti iti | ataḥ hetoḥ | asmākaṃ tayā buddhyā | sarvaśāstraikavākyakaraṇaṃ yataḥ phalitam | ataḥ hetoḥ | naḥ asmākaṃ | saṃvedanāt jñānāt | anyat pramāṇaṃ nāsti | sarvasmiñ śāstre saṃvedanam evāsmābhiḥ pramāṇaṃ dṛṣṭam | ato 'smākam api tad eva pramāṇam iti bhāvaḥ | saṃvedanāt kathaṃbhūtāt | prātītikaḥ pratīter āgataḥ | na tu kalpitaḥ | yaḥ arthaḥ | tanmayam yat śāstraṃ | tad eva nijāṅgam upakārakatvāt svāṅgaṃ | tena puṣṭāt vṛddhiṃ gatāt
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.