एकम् केवलम् । आत्मज्ञानं प्रतिपाद्यत्वेन यस्मिन् । तादृशं यत् शास्त्रं । तस्य यो ऽर्थः । तस्य वेदनात् विचारात् । उत्पन्नया महावाक्यार्थसंवित्त्या । गर्भीकृतावान्तरवाक्यमहावाक्यार्थपरिच्छेदेन । सिद्धा शान्तिः मनःक्षोभराहित्यं । पण्डितैः निर्वाणम् उच्यते । वेदनात् कथंभूतात् । दृष्टान्तैः बुद्धात् ज्ञातात् सिद्धाद् इति यावत्
ekam kevalam | ātmajñānaṃ pratipādyatvena yasmin | tādṛśaṃ yat śāstraṃ | tasya yo 'rthaḥ | tasya vedanāt vicārāt | utpannayā mahāvākyārthasaṃvittyā | garbhīkṛtāvāntaravākyamahāvākyārthaparicchedena | siddhā śāntiḥ manaḥkṣobharāhityaṃ | paṇḍitaiḥ nirvāṇam ucyate | vedanāt kathaṃbhūtāt | dṛṣṭāntaiḥ buddhāt jñātāt siddhād iti yāvat
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.