अशून्यत्वासम्भवेन शून्यत्वनिरासम् आह अशून्यापेक्षया शून्यशब्दार्थपरिकल्पना । अशून्यत्वासम्भवतः शून्यत्वाशून्यते कुतः ॥मु ३,१०।१४॥अशून्यत्वापेक्षयाशून्यत्वस्य किञ्चिद्रूपत्वस्यापेक्सया तद् अपेक्ष्येत्य् अर्थः । शून्यत्वपरिकल्पना । शून्यत्वस्य नकिञ्चिद्रूपत्वस्य । परिकल्पना कल्पनं । भवति । ततः किम् इत्य् । अत्राह अशून्यत्वेति । अशून्यत्वासम्भवतः उक्तयुक्त्या किञ्चिद्रूपत्वासम्भवेन । शून्यत्वाशून्यते नकिञ्चित्त्वकिञ्चित्त्वे । कुतः । न स्त इत्य् अर्थः । सापेक्षयोर् एकनाशे द्वयोर् अपि नाशाद् इति भावः । किञ्चिद्रूपत्वाभावश् च निरालम्बशुद्धचिन्मात्रतया ज्ञेयः
aśūnyatvāsambhavena śūnyatvanirāsam āha aśūnyāpekṣayā śūnyaśabdārthaparikalpanā / aśūnyatvāsambhavataḥ śūnyatvāśūnyate kutaḥ //MU 3,10.14//aśūnyatvāpekṣayāśūnyatvasya kiñcidrūpatvasyāpeksayā tad apekṣyety arthaḥ | śūnyatvaparikalpanā | śūnyatvasya nakiñcidrūpatvasya | parikalpanā kalpanaṃ | bhavati | tataḥ kim ity | atrāha aśūnyatveti | aśūnyatvāsambhavataḥ uktayuktyā kiñcidrūpatvāsambhavena | śūnyatvāśūnyate nakiñcittvakiñcittve | kutaḥ | na sta ity arthaḥ | sāpekṣayor ekanāśe dvayor api nāśād iti bhāvaḥ | kiñcidrūpatvābhāvaś ca nirālambaśuddhacinmātratayā jñeyaḥ
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.