तत् ब्रह्म । परमाणोर् अपि परम् अणीयः अतिसूक्ष्मं । भवति । कथम्भूताद् अपि । अणीयसो ऽपि द्व्यणुकाद्यपेक्षया सूक्ष्मतराद् अपि । सूक्ष्मतरत्वं चास्य बाह्येन्द्रियाग्राह्यत्वेन ज्ञेयम् । तत् ब्रह्म । कथम्भूतं । शुद्धं रागादिरजोऽदूषितं । सूक्ष्मं । परम् उत्तीर्णं । शान्तं सर्वप्रचारशून्यं । कस्माद् अपि । आकाशोदराद् अपि
tat brahma | paramāṇor api param aṇīyaḥ atisūkṣmaṃ | bhavati | kathambhūtād api | aṇīyaso 'pi dvyaṇukādyapekṣayā sūkṣmatarād api | sūkṣmataratvaṃ cāsya bāhyendriyāgrāhyatvena jñeyam | tat brahma | kathambhūtaṃ | śuddhaṃ rāgādirajo'dūṣitaṃ | sūkṣmaṃ | param uttīrṇaṃ | śāntaṃ sarvapracāraśūnyaṃ | kasmād api | ākāśodarād api
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.