तत् वस्तु । सर्गान्ते महाप्रलये । ऽवशिष्यते । तत् किं । यत् महाचितेः चिन्मात्रस्य । रूपं स्यात् । कथम्भूतं । मनष्षष्ठेन्द्रियातीतं । मन एव षष्ठं येषां । तानि मनःषष्ठानि । तानि च तानीन्द्रियाणि मनःषष्ठेन्द्रियाणि । तान्य् अतीतं मनःषष्ठेन्द्रियातीतं । तदगोचरम् इत्य् अर्थः । कुत्र । जङ्गमे स्थावरे वापि । अयं भावः । जङ्गमे चित्तत्वं तावन् निर्विवादम् एव । स्थावरे तृणादाव् अपि तथैव पर्वतादाव् अपि । तृणाद्युद्गमेन नैव निर्णीतम् । न । न हि निश्चेतनात् कस्याप्य् उद्गमो युक्तः । मृतशरीराद् रोमाद्युद्गमादर्शनात् । तथा च येन रूपेण सर्वत्र चिद् अस्ति तद् अनाख्यम् एव । तद् एव च परमात्मतत्त्वम् इति । तत्र योगिना सावधानेन भाव्यम् इति
tat vastu | sargānte mahāpralaye | 'vaśiṣyate | tat kiṃ | yat mahāciteḥ cinmātrasya | rūpaṃ syāt | kathambhūtaṃ | manaṣṣaṣṭhendriyātītaṃ | mana eva ṣaṣṭhaṃ yeṣāṃ | tāni manaḥṣaṣṭhāni | tāni ca tānīndriyāṇi manaḥṣaṣṭhendriyāṇi | tāny atītaṃ manaḥṣaṣṭhendriyātītaṃ | tadagocaram ity arthaḥ | kutra | jaṅgame sthāvare vāpi | ayaṃ bhāvaḥ | jaṅgame cittatvaṃ tāvan nirvivādam eva | sthāvare tṛṇādāv api tathaiva parvatādāv api | tṛṇādyudgamena naiva nirṇītam | na | na hi niścetanāt kasyāpy udgamo yuktaḥ | mṛtaśarīrād romādyudgamādarśanāt | tathā ca yena rūpeṇa sarvatra cid asti tad anākhyam eva | tad eva ca paramātmatattvam iti | tatra yoginā sāvadhānena bhāvyam iti
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.