अहन्तादि अहन्ताप्रभृति । दृश्यं जगत् इत्थं पूर्वप्रकारेण । किञ्चन लेशेनापि । न जातं भवति । ततः किम् इत्य् । अत्राह अजातेति । जगत् अजातत्वात् । चशब्दः पादपूरणार्थः । नास्त्य् एव । ननु कथम् अजातत्वेन जगतो ऽसत्त्वं साधयसि भासमानत्वेन सत्त्वाद् इत्य् । अत्राह यच् चेति । तत् परम् एव उत्तीर्णं चिन्मात्रम् एव । भवति । न तु जगत् । तत् किं । यत् अस्ति यत् भासमानत्वेन निराकर्तुं न शक्यत इत्य् अर्थः
ahantādi ahantāprabhṛti | dṛśyaṃ jagat itthaṃ pūrvaprakāreṇa | kiñcana leśenāpi | na jātaṃ bhavati | tataḥ kim ity | atrāha ajāteti | jagat ajātatvāt | caśabdaḥ pādapūraṇārthaḥ | nāsty eva | nanu katham ajātatvena jagato 'sattvaṃ sādhayasi bhāsamānatvena sattvād ity | atrāha yac ceti | tat param eva uttīrṇaṃ cinmātram eva | bhavati | na tu jagat | tat kiṃ | yat asti yat bhāsamānatvena nirākartuṃ na śakyata ity arthaḥ
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.