तत् ब्रह्म । तां प्रसिद्धां । स्वसत्तां स्वस्फुरत्तां । वेदने नियोजयति वेदनविषयां करोति । पश्यतीति यावत् । स्वसत्तां कथम्भूतां । जीवः बुद्धिः क्रियास्पन्दः हिताहितप्राप्तिपरिहारार्थाश् चेष्टाः । मनः । द्वित्वं च तत् ऐक्यं च द्वित्वैक्यम् । इत्य् अपि एतद्रूपेण । कचन्तीं स्फुरन्तीं । तथा च । दृष्टिगोचरत्वे ऽपि न जीवादेर् भिन्नत्वं युक्तम् इति भावः
tat brahma | tāṃ prasiddhāṃ | svasattāṃ svasphurattāṃ | vedane niyojayati vedanaviṣayāṃ karoti | paśyatīti yāvat | svasattāṃ kathambhūtāṃ | jīvaḥ buddhiḥ kriyāspandaḥ hitāhitaprāptiparihārārthāś ceṣṭāḥ | manaḥ | dvitvaṃ ca tat aikyaṃ ca dvitvaikyam | ity api etadrūpeṇa | kacantīṃ sphurantīṃ | tathā ca | dṛṣṭigocaratve 'pi na jīvāder bhinnatvaṃ yuktam iti bhāvaḥ
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.