चितः सम्बन्धि चित्त्वं चिद्भावं । येन सा चिद् इति नामयोग्या भवति स को ऽपि धर्मः । तम् इति यावत् । जगत् विद्धि जानीहि । अत्र हेतुम् आह नेति । हि यस्मात् कारणात् । चित्त्वम् अजगत् जगतो व्यतिरिक्तं । नास्ति । चेत्यरूपजगदभावे ऽनिर्वाच्यायाः चितः स्फुटं चित्त्वायोग्यत्वात् । अवान्तरं फलितम् आह अजगद् इति । अत इत्य् अध्याहार्यम् । अतो हेतोः । चित् अजगत्त्वाद् धेतोर् । अचित् स्यात् चिन्नामयोग्या न स्यात् । यदि जगन् न स्याद् अनिर्वाच्यायाः चितेर् अपि चित्त्वं न स्याद् इति भावः । परमं फलितम् आह भावाभेदाद् इति । भावाभेदात् पूर्वन्यायसिद्धेन चिज्जगतोर् अभेदेन सिद्धात् पदार्थाभेदात् । जगत् कुतः कथं । स्यात् । चित्त्वजगतोर् अभेदे सति चित्त्वस्य चिदेकमयतया चित एव सर्वथा स्थितत्वात् जगन् नास्तीति भावः
citaḥ sambandhi cittvaṃ cidbhāvaṃ | yena sā cid iti nāmayogyā bhavati sa ko 'pi dharmaḥ | tam iti yāvat | jagat viddhi jānīhi | atra hetum āha neti | hi yasmāt kāraṇāt | cittvam ajagat jagato vyatiriktaṃ | nāsti | cetyarūpajagadabhāve 'nirvācyāyāḥ citaḥ sphuṭaṃ cittvāyogyatvāt | avāntaraṃ phalitam āha ajagad iti | ata ity adhyāhāryam | ato hetoḥ | cit ajagattvād dhetor | acit syāt cinnāmayogyā na syāt | yadi jagan na syād anirvācyāyāḥ citer api cittvaṃ na syād iti bhāvaḥ | paramaṃ phalitam āha bhāvābhedād iti | bhāvābhedāt pūrvanyāyasiddhena cijjagator abhedena siddhāt padārthābhedāt | jagat kutaḥ kathaṃ | syāt | cittvajagator abhede sati cittvasya cidekamayatayā cita eva sarvathā sthitatvāt jagan nāstīti bhāvaḥ
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.