तस्मात् पूर्वोक्तात् हेतोः । अचेत्यचिद्रूपं शुद्धचिन्मात्ररूपं । जगत् । केवलं व्योमैव भवति । फलितम् आह शून्याव् इति । अतः शून्यौ पिण्डग्राहाभावेन नकिञ्चिद्रूपौ । चिन्मयौ चित्स्वरूपौ । व्योमजगच्छब्दौ पर्यायौ विद्धि एकार्थवाचकत्वात्
tasmāt pūrvoktāt hetoḥ | acetyacidrūpaṃ śuddhacinmātrarūpaṃ | jagat | kevalaṃ vyomaiva bhavati | phalitam āha śūnyāv iti | ataḥ śūnyau piṇḍagrāhābhāvena nakiñcidrūpau | cinmayau citsvarūpau | vyomajagacchabdau paryāyau viddhi ekārthavācakatvāt
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.