त्वम् । अत्र जगतो देशाद्यपूरकत्वे । मण्डपाख्यानं । मण्डपेति नाम्ना प्रसिद्धम् आख्यानं मण्डपाख्यानं । शृणु । कथम्भूतं । श्रवणभूषणं श्रवणार्हम् इत्य् अर्थः । ततः किम् इत्य् । अत्राह निःसन्देह इति । यथा येन । निःसन्देहः सन्देहान् निष्क्रान्तः । एषः पूर्वोक्तः । अर्थः । चित्ते त्वच्चित्ते । विश्रान्तिम् एष्यति
tvam | atra jagato deśādyapūrakatve | maṇḍapākhyānaṃ | maṇḍapeti nāmnā prasiddham ākhyānaṃ maṇḍapākhyānaṃ | śṛṇu | kathambhūtaṃ | śravaṇabhūṣaṇaṃ śravaṇārham ity arthaḥ | tataḥ kim ity | atrāha niḥsandeha iti | yathā yena | niḥsandehaḥ sandehān niṣkrāntaḥ | eṣaḥ pūrvoktaḥ | arthaḥ | citte tvaccitte | viśrāntim eṣyati
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.