खगाः पक्षिणः । निलिल्यिरे निलीनाः । कुत्र । चूतनीपकदम्बाग्रग्रामचैत्यगृहोदरे । चूताश् च नीपाश् च कदम्बाग्राणि च ग्रामचैत्यानि च गृहोदराणि च । तत्र । खगाः काः यथा । ताः वृत्तयः यथा । यथा ताः वृत्तयः श्रावकजनमनोव्यापाराः । चित्ते निलिल्यिरे । तथेत्य् अर्थः
khagāḥ pakṣiṇaḥ | nililyire nilīnāḥ | kutra | cūtanīpakadambāgragrāmacaityagṛhodare | cūtāś ca nīpāś ca kadambāgrāṇi ca grāmacaityāni ca gṛhodarāṇi ca | tatra | khagāḥ kāḥ yathā | tāḥ vṛttayaḥ yathā | yathā tāḥ vṛttayaḥ śrāvakajanamanovyāpārāḥ | citte nililyire | tathety arthaḥ
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.