दृश्यम् दृशिक्रियाकर्म । नास्ति सत्तां न भजति । दृक् दृशिक्रिया । नो अस्ति । द्रष्टा दृशिक्रियाकर्ता । च नास्ति । दर्शनम् दृशिक्रियासाध्यं फलं । च नास्ति । सर्वेषां एषां प्रतीतिमात्रसारत्वात् । ननु तर्हि एतद् अभाव एवास्ती-त्य् । अत्राह न शून्यम् इति । शून्यम् दृश्याद्यभावः । च नास्ति । न हि सर्-वथा असतः भानं युक्तं । शशिशृङ्गादेर् अपि भानापत्तेः । ननु तर्हि जाड्यम् एव स्यात् । जाड्ये हि सर्वेषाम् असत्ता एव भवतीत्य् । अत्राह न जडम् इति । भावप्रधाननिर्देशः जडम् जडत्वम् । नास्ति । तत्त्वे हि दृश्यादिभानम् अयुक्तं स्यात् । ननु तर्हि शिष्टा चिद् एव स्याद् इत्य् । अत्राह नो चिद् इति । चित् चिन्मात्रम् । नो अस्ति । चेत्यापेक्षत्वेन तस्याः स्थितत्वात् । चेत्यस्य चोक्तन्यायेनासम्भवात् । ननु तर्हि किम् अस्ति । न हि सर्वथा असत्ता बुद्ध्यै आरोहतीत्य् । अत्राह शान्तम् इति । आततं समन्तात् स्फुरत्स्वरूपम् । इदम् सर्वम् दृश्यादिकम् । शान्तम् । भवति । चेत्यक्षोभरहितं चिन्मात्रं भवति
dṛśyam dṛśikriyākarma | nāsti sattāṃ na bhajati | dṛk dṛśikriyā | no asti | draṣṭā dṛśikriyākartā | ca nāsti | darśanam dṛśikriyāsādhyaṃ phalaṃ | ca nāsti | sarveṣāṃ eṣāṃ pratītimātrasāratvāt | nanu tarhi etad abhāva evāstī-ty | atrāha na śūnyam iti | śūnyam dṛśyādyabhāvaḥ | ca nāsti | na hi sar-vathā asataḥ bhānaṃ yuktaṃ | śaśiśṛṅgāder api bhānāpatteḥ | nanu tarhi jāḍyam eva syāt | jāḍye hi sarveṣām asattā eva bhavatīty | atrāha na jaḍam iti | bhāvapradhānanirdeśaḥ jaḍam jaḍatvam | nāsti | tattve hi dṛśyādibhānam ayuktaṃ syāt | nanu tarhi śiṣṭā cid eva syād ity | atrāha no cid iti | cit cinmātram | no asti | cetyāpekṣatvena tasyāḥ sthitatvāt | cetyasya coktanyāyenāsambhavāt | nanu tarhi kim asti | na hi sarvathā asattā buddhyai ārohatīty | atrāha śāntam iti | ātataṃ samantāt sphuratsvarūpam | idam sarvam dṛśyādikam | śāntam | bhavati | cetyakṣobharahitaṃ cinmātraṃ bhavati
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.