यत् इह अस्मिन् रामायणे । अस्ति सामस्त्येन विद्यते । तत् अन्यत्र अन्यशास्त्रेषु । अस्ति व्यस्तत्वेन भवतीत्य् अर्थः । यत् इह नास्ति तत् क्वचित् कुत्रापि शास्त्रे । नास्ति । अतः बुधाः समस्तशास्त्रसारज्ञाः । इदम् एतत् श्रीमहारामायणं । समस्तविज्ञानशास्त्रकोशं सकलाध्यात्मशास्त्रभाण्डागारं । विदुः जानन्ति
yat iha asmin rāmāyaṇe | asti sāmastyena vidyate | tat anyatra anyaśāstreṣu | asti vyastatvena bhavatīty arthaḥ | yat iha nāsti tat kvacit kutrāpi śāstre | nāsti | ataḥ budhāḥ samastaśāstrasārajñāḥ | idam etat śrīmahārāmāyaṇaṃ | samastavijñānaśāstrakośaṃ sakalādhyātmaśāstrabhāṇḍāgāraṃ | viduḥ jānanti
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.