दृष्टान्तानि विशेषतयोक्त्वा दार्ष्टान्तिकम् अपि तत्तयैव कथयति कुतः किञ्चिद् इति । किञ्चित् इन्द्रियगम्यत्वात् किञ्चिद्रूपं जगत् । अनाकृतौ इन्द्रियागम्यत्वेनाकाररहिते चिन्मात्रे । कुतः न युक्तम् एतद् इति भावः । नन्व् एकत्वे न बीजाङ्कुरत्वम् अनयोर् अस्तीत्य् अत्राह तदतद् इति । तदतद्रूपयोः अत्यन्तभिन्नयोः
dṛṣṭāntāni viśeṣatayoktvā dārṣṭāntikam api tattayaiva kathayati kutaḥ kiñcid iti | kiñcit indriyagamyatvāt kiñcidrūpaṃ jagat | anākṛtau indriyāgamyatvenākārarahite cinmātre | kutaḥ na yuktam etad iti bhāvaḥ | nanv ekatve na bījāṅkuratvam anayor astīty atrāha tadatad iti | tadatadrūpayoḥ atyantabhinnayoḥ
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.