देशान्तरे च अस्मिन् देशे अन्यस्मिन् देशे च । नरान्तरे च त्वयि अन्येषु नरेषु च । कालस्याप्य् एतद् उपलक्षणम् । तेन कालान्तरे चेत्य् अपि ज्ञेयं । तेनायम् अर्थः । बुद्ध्यादीनां सर्वेन्द्रियशक्तीनां चादृश्यं यत् वस्तु । देशान्तरे नरान्तरे च तत्तद्विधबुद्धिबोधे । तत्तद्विधाः तत्तत्प्रकाराः । याः बुद्धयः । तासां यः बोधः । तत्र । नास्ति । तद्विषयो नास्तीति यावत् । पण्डितैः तत् नकिञ्चिद् इत्य् एव उच्यते कथ्यते
deśāntare ca asmin deśe anyasmin deśe ca | narāntare ca tvayi anyeṣu nareṣu ca | kālasyāpy etad upalakṣaṇam | tena kālāntare cety api jñeyaṃ | tenāyam arthaḥ | buddhyādīnāṃ sarvendriyaśaktīnāṃ cādṛśyaṃ yat vastu | deśāntare narāntare ca tattadvidhabuddhibodhe | tattadvidhāḥ tattatprakārāḥ | yāḥ buddhayaḥ | tāsāṃ yaḥ bodhaḥ | tatra | nāsti | tadviṣayo nāstīti yāvat | paṇḍitaiḥ tat nakiñcid ity eva ucyate kathyate
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.