इह लोके । अहम् परिच्छिन्नदेहादिरूपः अहम् । नास्मि । अन्यत् मत्तो भिन्नत्वेन स्थितं जगत् । न चास्ति । सुषुप्तौ अदर्शनात् । ब्रह्म व्यापकं चिन्मात्रतत्त्वम् । एवास्ति परमार्थतः सत्ताम् भजते । सर्वथाभावस्य वक्तुम् अशक्यत्वात् । न हि निरादिष्टो नो भ्रमः सम्भवति । तत् ब्रह्म । नास्ति च । बाह्यान्तःकरणातीतत्वात् । इत्थम् एवम् । सदसतोः मध्यम् सन्धिभूतं शुद्धचिन्मात्राख्यं वस्तु । यः पश्यति स पश्यति
iha loke | aham paricchinnadehādirūpaḥ aham | nāsmi | anyat matto bhinnatvena sthitaṃ jagat | na cāsti | suṣuptau adarśanāt | brahma vyāpakaṃ cinmātratattvam | evāsti paramārthataḥ sattām bhajate | sarvathābhāvasya vaktum aśakyatvāt | na hi nirādiṣṭo no bhramaḥ sambhavati | tat brahma | nāsti ca | bāhyāntaḥkaraṇātītatvāt | ittham evam | sadasatoḥ madhyam sandhibhūtaṃ śuddhacinmātrākhyaṃ vastu | yaḥ paśyati sa paśyati
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.