------------------ तृतीयाध्यायस्य प्रथमे पादे - शेषत्वबोधकानां श्रुतिलिङ्गादीनां मध्ये श्रुतिर्विचारिता । द्वितीये - लिङ्गम् । तृतीये - वाक्यप्रकरणादि । चतुर्थे - निवीतोपवीतादिष्वर्थवादत्वविधित्वादिनिर्णयहेतुः श्रुत्यादेः परस्परविरोधसदसभ्दावः । पञ्चमे - प्रतिपत्तिकर्माणि । षष्ठे - अनारभ्याधीतानि । सप्तमे - बहुप्रधानोपकारकप्रयाजादीनि । अष्टमे - याजमानानि
------------------ tṛtīyādhyāyasya prathame pāde - śeṣatvabodhakānāṃ śrutiliṅgādīnāṃ madhye śrutirvicāritā | dvitīye - liṅgam | tṛtīye - vākyaprakaraṇādi | caturthe - nivītopavītādiṣvarthavādatvavidhitvādinirṇayahetuḥ śrutyādeḥ parasparavirodhasadasabhdāvaḥ | pañcame - pratipattikarmāṇi | ṣaṣṭhe - anārabhyādhītāni | saptame - bahupradhānopakārakaprayājādīni | aṣṭame - yājamānāni
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.