------------------ षष्ठाध्यायस्य प्रथमे पादे - कर्माधिकारः कर्तुरस्ति, अन्धादेर्नास्ति, स्त्रिया अस्ति, स च पत्या सह, इत्येवमादिनाधिकारी निरूपितः । द्वितीये - तत्राधिकारिणां प्रत्येकं कृत्स्न्नं फलम्, दर्शपूर्णमासयोः कर्त्रैक्यनियमः, काम्यं कर्म समापनीयम्, इत्येवमादयो ऽधिकारिधर्मा उक्ताः । तृतीये - द्रव्यस्य प्रतिनिधिरस्ति, देवादीनामग्न्यादीनामधिकारिणश्च स नास्ति, इत्यादिनिरूपणम् । चतुर्थे - पदार्थलोपनं विचारितम्, ऽअवत्तनाशे तत्याज्येन यजेत्, इडाज्यस्य नाशे सति शेषान्नं ग्राह्यम्ऽ इत्यादिकम् । पञ्चमे - कालापराधेन चन्द्रोदये सत्यभ्युदयेष्टिः प्रायश्चित्तम् , ज्योतिष्टोमस्यैकादयो दीक्षाः, द्वादशाहस्य द्वादश दीक्षाः, इत्यादि निरूपितम् । षष्ठे - तत्राधिकारिणस्तुल्यकल्पा एव, सत्रं विप्रस्यैव, इत्येवमादिकं चिन्तितम् । सप्तमे - पित्रादिकं न देयम्, महाभूमिर्न देया, इत्येवमादिर्देयविचारः । अष्टमे - लौकिकाग्ना वुपनयनहोमः, स्थपतीष्टिस्तथैव, इत्येवमाद्यग्निविचारः कृतः
------------------ ṣaṣṭhādhyāyasya prathame pāde - karmādhikāraḥ karturasti, andhādernāsti, striyā asti, sa ca patyā saha, ityevamādinādhikārī nirūpitaḥ | dvitīye - tatrādhikāriṇāṃ pratyekaṃ kṛtsnnaṃ phalam, darśapūrṇamāsayoḥ kartraikyaniyamaḥ, kāmyaṃ karma samāpanīyam, ityevamādayo 'dhikāridharmā uktāḥ | tṛtīye - dravyasya pratinidhirasti, devādīnāmagnyādīnāmadhikāriṇaśca sa nāsti, ityādinirūpaṇam | caturthe - padārthalopanaṃ vicāritam, 'avattanāśe tatyājyena yajet, iḍājyasya nāśe sati śeṣānnaṃ grāhyam' ityādikam | pañcame - kālāparādhena candrodaye satyabhyudayeṣṭiḥ prāyaścittam , jyotiṣṭomasyaikādayo dīkṣāḥ, dvādaśāhasya dvādaśa dīkṣāḥ, ityādi nirūpitam | ṣaṣṭhe - tatrādhikāriṇastulyakalpā eva, satraṃ viprasyaiva, ityevamādikaṃ cintitam | saptame - pitrādikaṃ na deyam, mahābhūmirna deyā, ityevamādirdeyavicāraḥ | aṣṭame - laukikāgnā vupanayanahomaḥ, sthapatīṣṭistathaiva, ityevamādyagnivicāraḥ kṛtaḥ
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.