------------------ अष्टमाध्यायस्य प्रथमे पादे - स्पष्टेन लिङ्गेनातिदेशविशेषः । तद्यथा सौर्यचरार्वतिदेशकानि निर्वापः, तद्धितेन देवतानिर्देशः, एकदेवतत्वम्, औषधद्रव्यकत्वम्, इत्यादीनि स्पष्टान्यग्नियलिङ्गानि । द्वितीये तु-अस्पष्टैर्लिङ्गरतिदेशः । तद्यथा - वाजिने हविः सामान्येन लिङ्गेन पयोविध्यन्तो ऽतिदिश्यते । तत्र लिङ्गमस्पष्टम् । शीघ्रं तद्बुद्ध्यनुत्पादनात् । तृतीये - प्रबलेन लिङ्गेनातिदेशः । तद्यथा - आभिचारिकष्टावाग्नावैष्णवसारस्वतबार्हस्पत्येषु हविःषु त्रित्वेन लिङ्गेन यथाक्रममाग्नेयादिविध्यन्ते प्राप्ते द्विदैवत्यत्वेन लिङ्गेन प्रथम आग्नावैष्णवे तृतीयसायाग्नीषोमीयस्य विध्यन्तो ऽतिदिष्टः । प्रबलं च द्विदैवत्यत्वम् । शब्दोच्चारणमात्रेण सहसा प्रतिभासात् । क्रमस्तु विलम्बितप्रतीत्या दुर्बलः । चतुर्थे - दर्विहोमेष्वतिदेशो ऽपोद्यते
------------------ aṣṭamādhyāyasya prathame pāde - spaṣṭena liṅgenātideśaviśeṣaḥ | tadyathā sauryacarārvatideśakāni nirvāpaḥ, taddhitena devatānirdeśaḥ, ekadevatatvam, auṣadhadravyakatvam, ityādīni spaṣṭānyagniyaliṅgāni | dvitīye tu-aspaṣṭairliṅgaratideśaḥ | tadyathā - vājine haviḥ sāmānyena liṅgena payovidhyanto 'tidiśyate | tatra liṅgamaspaṣṭam | śīghraṃ tadbuddhyanutpādanāt | tṛtīye - prabalena liṅgenātideśaḥ | tadyathā - ābhicārikaṣṭāvāgnāvaiṣṇavasārasvatabārhaspatyeṣu haviḥṣu tritvena liṅgena yathākramamāgneyādividhyante prāpte dvidaivatyatvena liṅgena prathama āgnāvaiṣṇave tṛtīyasāyāgnīṣomīyasya vidhyanto 'tidiṣṭaḥ | prabalaṃ ca dvidaivatyatvam | śabdoccāraṇamātreṇa sahasā pratibhāsāt | kramastu vilambitapratītyā durbalaḥ | caturthe - darvihomeṣvatideśo 'podyate
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.