------------------ द्वादशाध्यायस्य प्रथमे पादे - पशुधर्माणां पशुपुरोडाशे प्रसङ्गः, सौमिकवेदेरुत्तरकालीमकर्मसु प्रसङ्गः, इत्यादिविचारः । द्वितीये - सवनीयपशोस्तन्त्रित्वम् , न तु सवनीयपुरोडाशानाम् । विकृतिस्तन्त्रिणी, न प्रकृतिः, अन्वारम्भणीया विकयतिष्वपि स्यात्, न तु प्रकृतावेवेत्यादिविचारः । तृतीये - त्वग्वाससोः समुच्चयः । आदारगतानामृजुत्वसमततत्वादीनां समुच्चय इत्यादिकं प्राधान्येन, यवव्रीह्योर्विकल्प इत्यादिकं समुच्चयापवादत्वेन, इत्युभयं चिन्तितम् । चतुर्थे च - ऐन्द्राबार्हस्पत्ययाज्यानुवाक्यायगलयोर्विकल्प इत्यादिकं प्राधान्येन, प्राज्यानुवाक्ययोः समुच्चय इत्यादिकं विकल्पापदादत्वेनेत्युभयं चिन्तितम् । चतुर्थे च - ऐन्द्राबार्हस्पत्ययाज्यानुवाक्यायुगलयोर्विकल्प इत्यादिकं प्राधान्येन, प्राज्यानुवाक्ययोः समुच्चय इत्यादिकं विकल्पापदादत्वेनेत्युभयं चिन्तितम् । तदेवं द्वादशाध्यायगतेषु षष्टिसंख्याकेषु पादेषु प्रतिपाह्या अर्था संगृहीताः
------------------ dvādaśādhyāyasya prathame pāde - paśudharmāṇāṃ paśupuroḍāśe prasaṅgaḥ, saumikavederuttarakālīmakarmasu prasaṅgaḥ, ityādivicāraḥ | dvitīye - savanīyapaśostantritvam , na tu savanīyapuroḍāśānām | vikṛtistantriṇī, na prakṛtiḥ, anvārambhaṇīyā vikayatiṣvapi syāt, na tu prakṛtāvevetyādivicāraḥ | tṛtīye - tvagvāsasoḥ samuccayaḥ | ādāragatānāmṛjutvasamatatatvādīnāṃ samuccaya ityādikaṃ prādhānyena, yavavrīhyorvikalpa ityādikaṃ samuccayāpavādatvena, ityubhayaṃ cintitam | caturthe ca - aindrābārhaspatyayājyānuvākyāyagalayorvikalpa ityādikaṃ prādhānyena, prājyānuvākyayoḥ samuccaya ityādikaṃ vikalpāpadādatvenetyubhayaṃ cintitam | caturthe ca - aindrābārhaspatyayājyānuvākyāyugalayorvikalpa ityādikaṃ prādhānyena, prājyānuvākyayoḥ samuccaya ityādikaṃ vikalpāpadādatvenetyubhayaṃ cintitam | tadevaṃ dvādaśādhyāyagateṣu ṣaṣṭisaṃkhyākeṣu pādeṣu pratipāhyā arthā saṃgṛhītāḥ
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.