------------------ केषुचिद्दक्षिणदेशेषु मातुलस्य दुहितरं शिष्टाः परिणयन्ति । सो ऽयमायारः प्रमाणं, शिष्टाचारत्वात् , होलाकाद्याचारवत् , इति चेत् । न । स्मृतिविरुद्धत्वेन कालात्ययापदिष्टत्वात् । तथा च स्मृतिः- "मातुलस्य सुतामूढ्वा मातृगोत्रां तथैव च । समानप्रवरां चैव त्यक्त्वा चान्द्रायणं चरेत्" ॥ इति । न च स्मृत्याचारयोर्मूलवैदानुमापकसाम्यात्समबलत्वमिति शङ्कनीयम् । होलाकादिसदाचारस्य मन्वादिस्मृतिवद्वेदानुमापकत्वायोगात् । नहीदानीन्तनाः शिष्टा मन्वादिवद्देशकालविप्रकृष्टं वेदं दिव्यज्ञानेन साक्षात्कर्तु शक्नुवन्ति । येन शिष्टचारो मूलवेदमनुमापयेत् । शक्नोति च यः कोपि शिष्टो यत्र क्वापि देशविशेषे कालविशेषे च यं कञ्चनापि होलाकाद्याचरस्य मूलभूतं स्मृतिग्रन्थमवलोकयितुम् । तस्माच्छिष्टाचारेण स्मृतिरेवानुमातुं शक्यते, नतु श्रुतिः । अनुमिता च स्मृतिर्विरूद्धया प्रत्यक्षया स्मृत्या बाध्यते । अत एवाऽहुः- "आचारात्तु स्मृतिं ज्ञात्वा स्मृतिश्र्च श्रुतिकल्पमम् । तेन द्वयन्तरितं तेषां प्रामाण्यं विप्रकष्यते" ॥ इति । तस्मादीदृशस्याऽचारस्याप्रामाण्यमभ्युपेयम्
------------------ keṣuciddakṣiṇadeśeṣu mātulasya duhitaraṃ śiṣṭāḥ pariṇayanti | so 'yamāyāraḥ pramāṇaṃ, śiṣṭācāratvāt , holākādyācāravat , iti cet | na | smṛtiviruddhatvena kālātyayāpadiṣṭatvāt | tathā ca smṛtiḥ- "mātulasya sutāmūḍhvā mātṛgotrāṃ tathaiva ca | samānapravarāṃ caiva tyaktvā cāndrāyaṇaṃ caret" || iti | na ca smṛtyācārayormūlavaidānumāpakasāmyātsamabalatvamiti śaṅkanīyam | holākādisadācārasya manvādismṛtivadvedānumāpakatvāyogāt | nahīdānīntanāḥ śiṣṭā manvādivaddeśakālaviprakṛṣṭaṃ vedaṃ divyajñānena sākṣātkartu śaknuvanti | yena śiṣṭacāro mūlavedamanumāpayet | śaknoti ca yaḥ kopi śiṣṭo yatra kvāpi deśaviśeṣe kālaviśeṣe ca yaṃ kañcanāpi holākādyācarasya mūlabhūtaṃ smṛtigranthamavalokayitum | tasmācchiṣṭācāreṇa smṛtirevānumātuṃ śakyate, natu śrutiḥ | anumitā ca smṛtirvirūddhayā pratyakṣayā smṛtyā bādhyate | ata evā'huḥ- "ācārāttu smṛtiṃ jñātvā smṛtiśrca śrutikalpamam | tena dvayantaritaṃ teṣāṃ prāmāṇyaṃ viprakaṣyate" || iti | tasmādīdṛśasyā'cārasyāprāmāṇyamabhyupeyam
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.