------------------ बौधायनापस्तम्बा श्र्वलायनकात्यायनादिनामाङ्किताः कल्पर्सूत्रग्रन्थाः, निगमनिरुक्तादिषडङ्गग्रन्थाः, मन्वादिस्मृतयश्र्चाषौरुषेयाः, धर्मबुद्धिजनकत्वात्, वेदवत् । न च मूलप्रमाणसापेक्षत्वेन वेदवैषम्यमिति शङ्कनीयम् । उत्पन्नाया बुद्धेः स्वतः- प्रामाण्याङ्गीकारेण निरपेक्षत्वात् । मैवम् । उक्तानुमानस्य कालात्ययापदिष्टत्वात् । बौधायनसूत्रम् , आपस्तम्बसूत्रम्, इत्येवं पुरुषनाम्ना ते ग्रन्था उच्यन्ते । न च काठकादिसमाख्यवत्प्रवचननिमित्तत्वं युक्तम् । तद्ग्रन्थनिर्माणकाले तदानीन्तनैः कैश्र्चिदुपलब्धत्वात् । तच्चाविच्छिन्नपारम्पर्येणानुवर्तते । ततः कालिदासादिग्रन्थवत्पौरुषेयाः । तथापि वेदमूलत्वात्प्रमाणम्
------------------ baudhāyanāpastambā śrvalāyanakātyāyanādināmāṅkitāḥ kalparsūtragranthāḥ, nigamaniruktādiṣaḍaṅgagranthāḥ, manvādismṛtayaśrcāṣauruṣeyāḥ, dharmabuddhijanakatvāt, vedavat | na ca mūlapramāṇasāpekṣatvena vedavaiṣamyamiti śaṅkanīyam | utpannāyā buddheḥ svataḥ- prāmāṇyāṅgīkāreṇa nirapekṣatvāt | maivam | uktānumānasya kālātyayāpadiṣṭatvāt | baudhāyanasūtram , āpastambasūtram, ityevaṃ puruṣanāmnā te granthā ucyante | na ca kāṭhakādisamākhyavatpravacananimittatvaṃ yuktam | tadgranthanirmāṇakāle tadānīntanaiḥ kaiśrcidupalabdhatvāt | taccāvicchinnapāramparyeṇānuvartate | tataḥ kālidāsādigranthavatpauruṣeyāḥ | tathāpi vedamūlatvātpramāṇam
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.