अग्निश् च घर्मश् चार्कश् च सूर्यश् च प्राणश् चाश्वमेधश् चादितिश् च पृथिवी च दितिश् च द्यौश् च शक्वरीर् अङ्गुलयो दिशश् च मे यज्ञेन कल्पन्ताम् ऋतुश् च व्रतं च संवत्सरश् च तपश् चाहोरात्रे ऊर्वष्टीवे बृहद्रथन्तरे च मे यज्ञेन कल्पेताम् एका च तिस्रश् चा त्रयस्त्रिंशतश् चतस्रश् चाष्टौ चाष्टाचत्वारिंशतस् त्र्यविश् च त्र्यवी च दित्यवाट् च दित्यौही च पञ्चाविश् च पञ्चवी च त्रिवत्सश् च त्रिवत्सा च तुर्यवाट् च तुर्यौही च पष्ठवाट् च पष्ठौही चोक्षा च वशा च ऋषभश् च वेहच् च धेनुश् चानड्वांश् च स्तोमश् च यजुश् च ऋक् च साम च दीक्षा च तपश् च बृहच् च रथन्तरं चौषधयो वनस्पतयो दिशश् च मे यज्ञेन कल्पन्ताम् अन्नाय त्वा वाजाय त्वा वाजजित्यायै त्वेषे त्वोर्जे त्वा रय्यै त्वा पोषाय त्वा
agniś ca gharmaś cārkaś ca sūryaś ca prāṇaś cāśvamedhaś cāditiś ca pṛthivī ca ditiś ca dyauś ca śakvarīr aṅgulayo diśaś ca me yajñena kalpantām ṛtuś ca vrataṃ ca saṃvatsaraś ca tapaś cāhorātre ūrvaṣṭīve bṛhadrathantare ca me yajñena kalpetām ekā ca tisraś cā trayastriṃśataś catasraś cāṣṭau cāṣṭācatvāriṃśatas tryaviś ca tryavī ca dityavāṭ ca dityauhī ca pañcāviś ca pañcavī ca trivatsaś ca trivatsā ca turyavāṭ ca turyauhī ca paṣṭhavāṭ ca paṣṭhauhī cokṣā ca vaśā ca ṛṣabhaś ca vehac ca dhenuś cānaḍvāṃś ca stomaś ca yajuś ca ṛk ca sāma ca dīkṣā ca tapaś ca bṛhac ca rathantaraṃ cauṣadhayo vanaspatayo diśaś ca me yajñena kalpantām annāya tvā vājāya tvā vājajityāyai tveṣe tvorje tvā rayyai tvā poṣāya tvā
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.