ये पौर्णमासीदेवतातावाचिनः शब्दाः, ते पौर्णमास्यां प्रयोक्तव्याः, नामावास्यायाम्। ये ऽमावास्यादेवतावाचिनः, ते ऽमावास्यायाम्, न पौर्णमास्यां। शेषभूतम् अर्थं संस्कुर्वन्तो मन्त्रा उपकुर्वन्ति, नान्यथेत्य् उक्तम्। तस्माद् ये यत्रोपकुर्वन्ति, ते तत्र प्रयोक्तव्या इति न कृत्स्नः पौर्णमास्याम्, न कृत्स्नश् चामावास्यायाम् इति। वचनाद् इति चेत्
ye paurṇamāsīdevatātāvācinaḥ śabdāḥ, te paurṇamāsyāṃ prayoktavyāḥ, nāmāvāsyāyām. ye 'māvāsyādevatāvācinaḥ, te 'māvāsyāyām, na paurṇamāsyāṃ. śeṣabhūtam arthaṃ saṃskurvanto mantrā upakurvanti, nānyathety uktam. tasmād ye yatropakurvanti, te tatra prayoktavyā iti na kṛtsnaḥ paurṇamāsyām, na kṛtsnaś cāmāvāsyāyām iti. vacanād iti cet
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.